[व] स तं दृष्ट्वा तथा भूतं राजानं घॊरदर्शनम दीर्घश्मश्रु धरं नॄणां शॊणितेन समुक्षितम ॥ 1 ॥
चकार न वयथां विप्रॊ राजा तव एनम अथाब्रवीत परत्युत्थाय महातेजा भयकर्ता यमॊपमः ॥ 2 ॥
दिष्ट्या तवम असि कल्याण षष्ठे काले ममान्तिकम भक्षं मृगयमाणस्य संप्राप्तॊ दविजसत्तम ॥ 3 ॥
[उ] राजन गुर्वर्थिनं विद्धि चरन्तं माम इहागतम न च गुर्वर्थम उद्युक्तं हिंस्यम आहुर मनीषिणः ॥ 4 ॥
[र] षष्ठे काले ममाहारॊ विहितॊ दविजसत्तम न च शक्यः समुत्स्रष्टुं कषुधितेन मयाद्य वै ॥ 5 ॥
[उ] एवम अस्तु महाराज समयः करियतां तु मे गुर्वर्थम अभिनिर्वर्त्य पुनर एष्यामि ते वशम ॥ 6 ॥
संश्रुतश च मया यॊ ऽरथॊ गुरवे राजसत्तम ददासि विप्रमुख्येभ्यस तवं हि रत्नानि सर्वशः ॥ 7 ॥
दाता तवं च नरव्याघ्र पात्रभूतः कषिताव इह पात्रं परतिग्रहे चापि विद्धि मां नृपसत्तम ॥ 8 ॥
उपाकृत्य गुरॊर अर्थं तवद आयत्तम अरिंदम समयेनेह राजेन्द्र पुनर एष्यामि ते वशम ॥ 9 ॥
सत्यं ते परतिजानामि नात्र मिथ्यास्ति किं चन अनृतं नॊक्तपूर्वं मे सवैरेष्व अपि कुतॊ ऽनयथा ॥ 10 ॥
[स] यदि मत्तस तवद आयत्तॊ गुर्वर्थः कृत एव सः यदि चास्मि परतिग्राह्यः सांप्रतं तद बरवीहि मे ॥ 11 ॥
[उ] परतिग्राह्यॊ मतॊ मे तवं सदैव पुरुषर्षभ सॊ ऽहं तवाम अनुसंप्राप्तॊ भिक्षितुं मणिकुण्डले ॥ 12 ॥
[स] पत्न्यास ते मम विप्रर्षे रुचिरे मणिकुण्डले वरयार्थं तवम अन्यं वै तं ते दास्यमि सुव्रत ॥ 13 ॥
[उ] अलं ते वयपदेशेन परमाणं यदि ते वयम परयच्छ कुण्डले मे तवं सत्यवाग भव पार्थिव ॥ 14 ॥
[व] इत्य उक्तस तव अब्रवीद राजा तम उत्तङ्कं पुनर वचः गच्छ मद्वचनाद देवीं बरूहि देहीति सत्तम ॥ 15 ॥
सैवम उक्ता तवया नूनं मद्वाक्येन शुचिस्मिता परदास्यति दविजश्रेष्ठ कुण्डले ते न संशयः ॥ 16 ॥
[उ] कव पत्नी भवतः शक्या मया दरष्टुं नरेश्वर सवयं वापि भवान पत्नीं किमर्थं नॊपसर्पति ॥ 17 ॥
[स] दरक्ष्यते तां भवान अद्य कस्मिंश चिद वननिर्झरे षष्ठे काले न हि मया सा शक्या दरष्टुम अद्य वै ॥ 18 ॥
उत्तङ्कस तु तथॊक्तः स जगाम भरतर्षभ मदयन्तीं च दृष्ट्वा सॊ ऽजञापयत सवं परयॊजनम ॥ 19 ॥
सौदास वचनं शरुत्वा ततः सा पृथुलॊचना परत्युवाच महाबुद्धिम उत्तङ्कं जनमेजय ॥ 20 ॥
एवम एतन महाब्रह्मन नानृतं वदसे ऽनघ अभिज्ञानं तु किं चित तवं समानेतुम इहार्हसि ॥ 21 ॥
इमे हि दिव्ये मणिकुण्डले मे; देवाश च यक्षाश च महॊरगाश च तैस तैर उपायैः परिहर्तु कामाश; छिद्रेषु नित्यं परितर्कयन्ति ॥ 22 ॥
निक्षिप्तम एतद भुवि पन्नगास तु; रत्नं समासाद्य परामृषेयुः यक्षास तथॊच्छिष्ट धृतं सुराश च; निद्रावशं तवा परिधर्षयेयुः ॥ 23 ॥
छिद्रेष्व एतेषु हि सदा हय अधृष्येषु दविजर्षभ देवराक्षसनागानाम अप्रमत्तेन धार्यते ॥ 24 ॥
सयन्देते हि दिवा रुक्मं रात्रौ च दविजसत्तम नक्तं नक्षत्रताराणां परभाम आक्षिप्य वर्तते ॥ 25 ॥
एते हय आमुच्य भगवन कषुत्पिपासा भयं कुतः विषाग्निश्वापदेभ्यश च भयं जातु न विद्यते ॥ 26 ॥
हरस्वेन चैते आमुक्ते भवतॊ हरस्वके तदा अनुरूपेण चामुक्ते तत परमाणे हि जायतः ॥ 27 ॥
एवंविधे ममैते वै कुण्डले परमार्चिते तरिषु लॊकेषु विख्याते तद अभिज्ञानम आनय ॥ 28 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 56
Reach this point to mark the section finished.
Continue to अध्याय 57