[ज] उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः यः शापं दातुकामॊ ऽभूद विष्णवे परभविष्णवे ॥ 1 ॥
[व] उत्तङ्कॊ महता युक्तस तपसा जनमेजय गुरु भक्तः स तेजस्वी नान्यं कं चिद अपूजयत ॥ 2 ॥
सर्वेषाम ऋषिपुत्राणाम एष चासीन मनॊरथः औत्तङ्कीं गुरुवृत्तिं वै पराप्नुयाम इति भारत ॥ 3 ॥
गौतमस्य तु शिष्याणां बहूनां जनमेजय उत्तङ्के ऽभयधिका परीतिः सनेहश चैवाभवत तदा ॥ 4 ॥
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा सम्यक चैवॊपचारेण गौतमः परीतिमान अभूत ॥ 5 ॥
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः उत्तङ्कं परया परीत्या नाभ्यनुज्ञातुम ऐच्छत ॥ 6 ॥
तं करमेण जरा तात परतिपेदे महामुनिम न चान्वबुध्यत तदा स मुनिर गुरुवत्सलः ॥ 7 ॥
ततः कदा चिद राजेन्द्र काष्ठान्य आनयितुं ययौ उत्तङ्कः काष्ठभारं च महान्तं समुपानयत ॥ 8 ॥
स तु भाराभिभूतात्मा काष्ठभारम अरिंदमम निष्पिपेष कषितौ राजन परिश्रान्तॊ बुभुक्षितः ॥ 9 ॥
तस्य काष्ठे विलग्नाभूज जटा रूप्यसमप्रभा ततः काष्ठैः सह तदा पपात धरणीतले ॥ 10 ॥
ततः स भारनिष्पिष्टः कषुधाविष्टश च भार्गवः दृष्ट्वा तां वयसॊ ऽवस्थां रुरॊदार्तस्वरं तदा ॥ 11 ॥
ततॊ गुरु सुता तस्य पद्मपत्र निभेक्षणा जग्राहाश्रूणि सुश्रॊणी करेण पृथुलॊचना पितुर नियॊगाद धर्मज्ञा शिरसावनता तदा ॥ 12 ॥
तस्या निपेततुर दग्धौ करौ तैर अश्रुबिन्दुभिः न हि तान अश्रुपातान वै शक्ता धारयितुं मही ॥ 13 ॥
गौतमस तव अब्रवीद विप्रम उत्तङ्कं परीतमानसः कस्मात तात तवाद्येह शॊकॊत्तरम इदं मनः स सवैरं बरूहि विप्रर्षे शरॊतुम इच्छामि ते वचः ॥ 14 ॥
[उ] भवद्गतेन मनसा भवत परियचिकीर्षया भवद भक्तिगतेनेह भवद भावानुगेन च ॥ 15 ॥
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे शतवर्षॊषितं हि तवं न माम अभ्यनुजानथाः ॥ 16 ॥
भवता हय अभ्यनुज्ञाताः शिष्याः परत्यवरा मया उपपन्ना दविजश्रेष्ठ शतशॊ ऽथ सहस्रशः ॥ 17 ॥
[ग] तवत परीतियुक्तेन मया गुरुशुश्रूषया तव वयतिक्रामन महान कालॊ नावबुद्धॊ दविजर्षभ ॥ 18 ॥
किं तव अद्य यदि ते शरद्धा गमनं परति भार्गव अनुज्ञां गृह्य मत्तस तवं गृहान गच्छस्व माचिरम ॥ 19 ॥
[उ] गुर्वर्थं किं परयच्छामि बरूहि तवं दविजसत्तम तम उपाकृत्य गच्छेयम अनुज्ञातस तवया विभॊ ॥ 20 ॥
[ग] दक्षिणा परितॊषॊ वै गुरूणां सद्भिर उच्यते तव हय आचरतॊ बरह्मंस तुष्टॊ ऽहं वै न संशयः ॥ 21 ॥
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह युवा षॊडशवर्षॊ हि यद अद्य भविता भवान ॥ 22 ॥
ददामि पत्नीं कन्यां च सवां ते दुहितरं दविज एताम ऋते हि नान्या वै तवत तेजॊ ऽरहति सेवितुम ॥ 23 ॥
ततस तां परतिजग्राह युवा भूत्वा यशस्विनीम गुरुणा चाभ्यनुज्ञातॊ गुरु पत्नीम अथाब्रवीत ॥ 24 ॥
किं भवत्यै परयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम परियं हि तव काङ्क्षामि पराणैर अपि धनैर अपि ॥ 25 ॥
यद दुर्लभं हि लॊके ऽसमिन रत्नम अत्यद्भुतं भवेत तद आनयेयं तपसा न हि मे ऽतरास्ति संशयः ॥ 26 ॥
[अ] परितुष्टास्मि ते पुत्र नित्यं भगवता सह पर्याप्तये तद भद्रं ते गच्छ तात यथेच्छकम ॥ 27 ॥
[व] उत्तङ्कस तु महाराज पुनर एवाब्रवीद वचः आज्ञापयस्व मां मातः कर्तव्यं हि परियं तव ॥ 28 ॥
[अ] सौदास पत्न्या विदिते दिव्ये वै मणिकुण्डले ते समानय भद्रं ते गुर्वर्थः सुकृतॊ भवेत ॥ 29 ॥
स तथेति परतिश्रुत्य जगाम जनमेजय गुरु पत्नी परियार्थं वै ते समानयितुं तदा ॥ 30 ॥
स जगाम ततः शीघ्रम उत्तङ्कॊ बराह्मणर्षभः सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥ 31 ॥
गौतमस तव अब्रवीत पत्नीम उत्तङ्कॊ नाद्य दृश्यते इति पृष्टा तम आचष्ट कुण्डलार्थं गतं तु वै ॥ 32 ॥
ततः परॊवाच पत्नीं स न ते सम्यग इदं कृतम शप्तः स पार्थिवॊ नूनं बराह्मणं तं वधिष्यति ॥ 33 ॥
[अ] अजानन्त्या नियुक्तः स भगवन बराह्मणॊ ऽदय मे भवत्प्रसादान न भयं किं चित तस्य भविष्यति ॥ 34 ॥
इत्य उक्तः पराह तां पत्नीम एवम अस्त्व इति गौतमः उत्तङ्कॊ ऽपि वने शून्ये राजानं तं ददर्श ह ॥ 35 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 55
Reach this point to mark the section finished.
Continue to अध्याय 56