धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 54

  1. [उ] अभिजानामि जगतः कर्तारं तवां जनार्दन नूनं भवत्प्रसादॊ ऽयम इति मे नास्ति संशयः ॥ 1 ॥

  2. चित्तं च सुप्रसन्नं मे तवद भावगतम अच्युत विनिवृत्तश च मे कॊप इति विद्धि परंतप ॥ 2 ॥

  3. यदि तव अनुग्रहं कं चित तवत्तॊ ऽरहॊ ऽहं जनार्दन दरष्टुम इच्छामि ते रूपम ऐश्वरं तन निदर्शय ॥ 3 ॥

  4. [व] ततः स तस्मै परीतात्मा दर्शयाम आस तद वपुः शाश्वतं वैष्णवं धीमान ददृशे यद धनंजयः ॥ 4 ॥

  5. स ददर्श महात्मानं विश्वरूपं महाभुजम विस्मयं च ययौ विप्रस तद दृष्ट्वा रूपम ऐश्वरम ॥ 5 ॥

  6. [उ] विश्वकर्मन नमस ते ऽसतु यस्य ते रूपम ईदृशम पद्भ्यां ते पृथिवी वयाप्ता शिरसा चावृतं नभः ॥ 6 ॥

  7. दयावापृथिव्यॊर यन मध्यं जठरेण तद आवृतम भुजाभ्याम आवृताश चाशास तवम इदं सर्वम अच्युत ॥ 7 ॥

  8. संहरस्व पुनर देवरूपम अक्षय्यम उत्तमम पुनस तवां सवेन रूपेण दरष्टुम इच्छामि शाश्वतम ॥ 8 ॥

  9. [व] तम उवाच परसन्नात्मा गॊविन्दॊ जनमेजय वरं वृणीष्वेति तदा तम उत्तङ्कॊ ऽबरवीद इदम ॥ 9 ॥

  10. पर्याप्त एष एवाद्य वरस तवत्तॊ महाद्युते यत ते रूपम इदं कृष्ण पश्यामि परभवाप्ययम ॥ 10 ॥

  11. तम अब्रवीत पुनः कृष्णॊ मा तवम अत्र विचारय अवश्यम एतत कर्तव्यम अमॊघं दर्शनं मम ॥ 11 ॥

  12. [उ] अवश्य करणीयं वै यद्य एतन मन्यसे विभॊ तॊयम इच्छामि यत्रेष्टं मरुष्व एतद धि दुर्लभम ॥ 12 ॥

  13. [व] ततः संहृत्य तत तेजः परॊवाचॊत्तङ्कम ईश्वरः एष्टव्ये सति चिन्त्यॊ ऽहम इत्य उक्त्वा दवारकां ययौ ॥ 13 ॥

  14. ततः कदा चिद भगवान उत्तङ्कस तॊयकाङ्क्षया तृषितः परिचक्राम मरौ सस्मार चायुतम ॥ 14 ॥

  15. ततॊ दिग्वाससं धीमान मातङ्गं मलपङ्किनम अपश्यत मरौ तस्मिञ शवयूथपरिवारितम ॥ 15 ॥

  16. भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम तस्याधः सरॊतसॊ ऽपश्यद वारि भूरि दविजॊत्तमः ॥ 16 ॥

  17. समरन्न एव च तं पराह मातङ्गः परहसन्न इव एह्य उत्तङ्क परतीच्छस्व मत्तॊ वारि भृगूद्वह कृपा हिमे सुमहती तवां दृष्ट्वा तृट समाहतम ॥ 17 ॥

  18. इत्य उक्तस तेन स मुनिस तत तॊयं नाभ्यनन्दत चिक्षेप च स तं धीमान वाग्भिर उग्राभिर अच्युतम ॥ 18 ॥

  19. पुनः पुनश च मातङ्गः पिबस्वेति तम अब्रवीत न चापिबत स सक्रॊधः कषुभितेनान्तर आत्मना ॥ 19 ॥

  20. स तथा निश्चयात तेन परत्याख्यातॊ महात्मना शवभिः सह महाराज तत्रैवान्तरधीयत ॥ 20 ॥

  21. उत्तङ्कस तं तथा दृष्ट्वा ततॊ वरीडित मानसः मेने परलब्धम आत्मानं कृष्णेनामित्र घातिना ॥ 21 ॥

  22. अथ तेनैव मार्गेण शङ्खचक्रगदाधरः आजगाम महाबाहुर उत्तङ्कश चैनम अब्रवीत ॥ 22 ॥

  23. न युक्तं तादृशं दातुं तवया पुरुषसत्तम सलिलं विप्रमुख्येभ्यॊ मातङ्गस्रॊतसा विभॊ ॥ 23 ॥

  24. इत्य उक्तवचनं धीमान महाबुद्धिर जनार्दनः उत्तङ्कं शलक्ष्णया वाचा सान्त्वयन्न इदम अब्रवीत ॥ 24 ॥

  25. यादृशेनेह रूपेण यॊग्यं दातुं वृतेन वै तादृशं खलु मे दत्तं तवं तु तन नावबुध्यसे ॥ 25 ॥

  26. मया तवदर्थमुक्तॊ हि वज्रपाणिः पुरंदरः उत्तङ्कायामृतं देहि तॊयरूपम इति परभुः ॥ 26 ॥

  27. स माम उवाच देवेन्द्रॊ न मर्त्यॊ ऽमर्त्यतां वरजेत अन्यम अस्मै वरं देहीत्य असकृद भृगुनन्दन ॥ 27 ॥

  28. अमृतं देयम इत्य एव मयॊक्तः स शचीपतिः स मां परसाद्य देवेन्द्रः पुनर एवेदम अब्रवीत ॥ 28 ॥

  29. यदि देयम अवश्यं वै मातङ्गॊ ऽहं महाद्युते भूत्वामृतं परदास्यामि भार्गवाय महात्मने ॥ 29 ॥

  30. यद्य एवं परतिगृह्णाति भार्गवॊ ऽमृतम अद्य वै परदातुम एष गच्छामि भार्गवायामृतं परभॊ परत्याख्यातस तव अहं तेन न दद्याम इति भार्गव ॥ 30 ॥

  31. स तथा समयं कृत्वा तेन रूपेण वासवः उपस्थितस तवया चापि परत्याख्यातॊ ऽमृतं ददत चण्डाल रूपी भवगान सुमहांस ते वयतिक्रमः ॥ 31 ॥

  32. यत तु शक्यं मया कर्तुं भूय एव तवेप्सितम तॊयेप्सां तव दुर्धर्ष करिष्ये सफलाम अहम ॥ 32 ॥

  33. येष्व अहःसु तव बरह्मन सलिलेच्छा भविष्यति तदा मरौ भविष्यन्ति जलपूर्णाः पयॊधराः ॥ 33 ॥

  34. रसवच च परदास्यन्ति ते तॊयं भृगुनन्दन उत्तङ्क मेधा इत्य उक्ताः खयातिं यास्यन्ति चापि ते ॥ 34 ॥

  35. इत्य उक्तः परीतिमान विप्रः कृष्णेन स बभूव ह अद्याप्य उत्तङ्क मेघाश च मरौ वर्षन्ति भारत ॥ 35 ॥

Reach this point to mark the section finished.

Continue to अध्याय 55

Previous: अध्याय 53