धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 53

  1. [उ] बरूहि केशव तत्त्वेन तवम अध्यात्मम अनिन्दितम शरुत्वा शरेयॊ ऽधिधास्यामि शापं वा ते जनार्दन ॥ 1 ॥

  2. [वा] तमॊ रजश च सत्त्वं च विद्धि भावान मदाश्रयान तथा रुद्रान वसूंश चापि विद्धि मत परभवान दविज ॥ 2 ॥

  3. मयि सर्वाणि भूतानि सर्वभूतेषु चाप्य अहम सथित इत्य अभिजानीहि मा ते ऽभूद अत्र संशयः ॥ 3 ॥

  4. तथा दैत्य गणान सर्वान यक्षराक्षस पन्नगान गन्धर्वाप्सरसश चैव विद्धि मत परभवान दविज ॥ 4 ॥

  5. सद असच चैव यत पराहुर अव्यक्तं वयक्तम एव च अक्षरं च कषरं चैव सर्वम एतन मद आत्मकम ॥ 5 ॥

  6. ये चाश्रमेषु वै धर्माश चतुर्षु विहिता मुने दैवानि चैव कर्माणि विद्धि सर्वं मद आत्मकम ॥ 6 ॥

  7. असच च सद असच चैव यद विश्वं सद असतः परम ततः परं नास्ति चैव देवदेवात सनातनात ॥ 7 ॥

  8. ओंकार पभवान वेदान विद्धि मां तवं भृगूद्वह यूपं सॊमं तथैवेह तरिदशाप्यायनं मखे ॥ 8 ॥

  9. हॊतारम अपि हव्यं च विद्धि मां भृगुनन्दन अध्वर्युः कल्पकश चापि हविः परमसंस्कृतम ॥ 9 ॥

  10. उद्गाता चापि मां सतौति गीतघॊषैर महाध्वरे परायश्चित्तेषु मां बरह्मञ शान्ति मङ्गलवाचकाः सतुवन्ति विश्वकर्माणं सततं दविजसत्तमाः ॥ 10 ॥

  11. विद्धि मह्यं सुतं धर्मम अग्रजं दविजसत्तम मानसं दयितं विप्र सर्वभूतदयात्मकम ॥ 11 ॥

  12. तत्राहं वर्तमानैश च निवृत्तैर्श चैव मानवैः बह्वीः संसरमाणॊ वै यॊनीर हि दविजसत्तम ॥ 12 ॥

  13. धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च तैस तैर वेषैश च रूपैश च तरिषु लॊकेषु भार्गव ॥ 13 ॥

  14. अहं विष्णुर अहं बरह्मा शक्रॊ ऽथ परभवाप्ययः भूतग्रामस्य सर्वस्य सरष्टा संहार एव च ॥ 14 ॥

  15. अधर्मे वर्तमानानां सर्वेषाम अहम अप्य उत धर्मस्य सेतुं बध्नामि चलिते चलिते युगे तास ता यॊनीः परविश्याहं परजानां हितकाम्यया ॥ 15 ॥

  16. यदा तव अहं देव यॊनौ वर्तामि भृगुनन्दन तदाहं देववत सर्वम आचरामि न संशयः ॥ 16 ॥

  17. यदा गन्धर्वयॊनौ तु वर्तामि भृगुनन्दन तदा गन्धर्ववच चेष्टाः सर्वाश चेष्टामि भार्गव ॥ 17 ॥

  18. नागयॊनौ यदा चैव तदा वर्तामि नागवत यक्षराक्षस यॊनीश च यथावद विचराम्य अहम ॥ 18 ॥

  19. मानुष्ये वर्तमाने तु कृपणं याचिता मया न च ते जातसंमॊहा वचॊ गृह्णन्ति मे हितम ॥ 19 ॥

  20. भयं च महद उद्दिश्य तरासिताः कुरवॊ मया करुद्धेव भूत्वा च पुनर यथावद अनुदर्शिताः ॥ 20 ॥

  21. ते ऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा धर्मेण निहता युद्धे गताः सवर्गं न संशयः ॥ 21 ॥

  22. लॊकेषु पाण्डवाश चैव गताः खयातिं दविजॊत्तम एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 54

Previous: अध्याय 52