धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 52

  1. [व] तथा परयान्तं वार्ष्णेयं दवारकां भरतर्षभाः परिष्वज्य नयवर्तन्त सानुयात्राः परंतपाः ॥ 1 ॥

  2. पुनः पुनश च वार्ष्णेयं पर्यष्वजत फल्गुनः आ चक्षुर्विषयाच चैनं ददर्श च पुनः पुनः ॥ 2 ॥

  3. कृच्छ्रेणैव च तां पार्थॊ गॊविन्दे विनिवेशिताम संजहार तदा दृष्टिं कृष्णश चाप्य अपराजितः ॥ 3 ॥

  4. तस्य परयाणे यान्य आसन निमित्तानि महात्मनः बहून्य अद्भुतरूपाणि तानि मे गदतः शृणु ॥ 4 ॥

  5. वायुर वेगेन महता रथस्य पुरतॊ ववौ कुर्वन निःशर्करं मार्गं विरजस्कम अकण्टकम ॥ 5 ॥

  6. ववर्ष वासवश चापि तॊयं शुचि सुगन्धि च दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः ॥ 6 ॥

  7. स परयातॊ महाबाहुः समेषु मरु धन्वसु ददर्शाथ मुनिश्रेष्ठम उत्तङ्कम अमितौजसम ॥ 7 ॥

  8. स तं संपूज्य तेजस्वी मुनिं पृथुल लॊचनः पूजितस तेन च तदा पर्यपृच्छद अनामयम ॥ 8 ॥

  9. स पृष्टः कुशलं तेन संपूज्य मधुसूदनम उत्तङ्कॊ बराह्मणश्रेष्ठस ततः पप्रच्छ माधवम ॥ 9 ॥

  10. कच चिच छौरे तवया गत्वा कुरुपाण्डवसद्म तत कृतं सौभ्रात्रम अचलं तन मे वयाख्यातुम अर्हसि ॥ 10 ॥

  11. अभिसंधाय तान वीरान उपावृत्तॊ ऽसि केशव संबन्धिनः सुदयितान सततं वृष्णिपुङ्गव ॥ 11 ॥

  12. कच चित पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः लॊकेषु विहरिष्यन्ति तवया सह परंतप ॥ 12 ॥

  13. सवराष्ट्रेषु च राजानः कच चित पराप्स्यन्ति वै सुखम कौरवेषु परशान्तेषु तवया नाथेन माधव ॥ 13 ॥

  14. या मे संभावना तात तवयि नित्यम अवर्तत अपि सा सफला कृष्ण कृता ते भरतान परति ॥ 14 ॥

  15. [वा] कृतॊ यत्नॊ मया बरह्मन सौभ्रात्रे कौरवान परति न चाशक्यन्त संधातुं ते ऽधर्मरुचयॊ मया ॥ 15 ॥

  16. ततस ते निधनं पराप्ताः सर्वे स सुतबान्धवाः न दिष्टम अभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा महर्षे विदितं नूनं सर्वम एतत तवानघ ॥ 16 ॥

  17. ते ऽतयक्रामन मतिं मह्यं भीष्मस्य विदुरस्य च ततॊ यमक्षयं जग्मुः समासाद्येतरेतरम ॥ 17 ॥

  18. पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः धार्तराष्ट्राश च निहताः सर्वे स सुतबान्धवाः ॥ 18 ॥

  19. इत्य उक्तवचने कृष्णे भृशं करॊधसमन्वितः उत्तङ्कः परत्युवाचैनं रॊषाद उत्फाल्य लॊचने ॥ 19 ॥

  20. यस्माच छक्तेन ते कृष्ण न तराताः कुरुपाण्डवाः संबन्धिनः परियास तस्माच छप्स्ये ऽहं तवाम असंशयम ॥ 20 ॥

  21. न च ते परसभं यस्मात ते निगृह्य निवर्तिताः तस्मान मन्युपरीतस तवां शप्स्यामि मधुसूदन ॥ 21 ॥

  22. तवया हि शक्तेन सता मिथ्याचारेण माधव उपचीर्णाः कुरुश्रेष्ठा यस तव एतान समुपेक्षथाः ॥ 22 ॥

  23. [वा] शृणु मे विस्तरेणेदं यद वक्ष्ये भृगुनन्दन गृहाणानुनयं चापि तपस्वी हय असि भार्गव ॥ 23 ॥

  24. शरुत्वा तवम एतद अध्यात्मं मुञ्चेथाः शापम अद्य वै न च मां तपसाल्पेन शक्तॊ ऽभिभवितुं पुमान ॥ 24 ॥

  25. न च ते तपसॊ नाशम इच्छामि जपतां वर तपस ते सुमहद दीप्तं गुरवश चापि तॊषिताः ॥ 25 ॥

  26. कौमारं वरह्मचर्यं ते जानामि दविजसत्तम दुःखार्जितस्य तपसस तस्मान नेच्छामि ते वययम ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 53

Previous: अध्याय 51