[व] ततॊ ऽभयचॊदयत कृष्णॊ युज्यताम इति दारुकम मुहूर्ताद इव चाचष्ट युक्तम इत्य एव दारुकः ॥ 1 ॥
तथैव चानुयात्राणि चॊदयाम आस पाण्डवः सज्जयध्वं परयास्यामॊ नगरं गजसाह्वयम ॥ 2 ॥
इत्य उक्ताः सैनिकास ते तु सज्जीभूता विशां पते आचख्युः सज्जम इत्य एव पार्थायामित तेजसे ॥ 3 ॥
ततस तौ रथम आस्थाय परयातौ कृष्ण पाण्डवौ विकुर्वाणौ कथाश चित्राः परीयमाणौ विशां पते ॥ 4 ॥
रथस्थं तु महातेजा वासुदेवं धनंजयः पुनर एवाब्रवीद वाक्यम इदं भरतसत्तम ॥ 5 ॥
तवत्प्रसादाज जयः पराप्तॊ राज्ञा वृष्णिकुलॊद्वह निहताः शत्रवश चापि पराप्तं राज्यम अकण्टकम ॥ 6 ॥
नाथवन्तश च भवता पाण्डवा मधुसूदन भवन्तं पलवम आसाद्य तीर्णाः सम कुरु सागरम ॥ 7 ॥
विश्वकर्मन नमस ते ऽसतु विश्वात्मन विश्वसंभव यथाहं तवा विजानामि यथा चाहं भवन मनाः ॥ 8 ॥
तवत तेजः संभवॊ नित्यं कुताशॊ मधुसूदन रतिः करीडामयी तुभ्यं माया ते रॊदसी विभॊ ॥ 9 ॥
तवयि सर्वम इदं विश्वं यद इदं सथाणुजङ्गमम तवं हि सर्वं विकुरुषे भूतग्रामं सनातनम ॥ 10 ॥
पृथिवीं चान्तरिक्षं च तथा सथावरजङ्गमम हसितं ते ऽमला जयॊत्स्ना ऋतवश चेन्द्रियान्वयाः ॥ 11 ॥
पराणॊ वायुः सततगः करॊधॊ मृत्युः सनातनः परसादे चापि पद्मा शरीर नित्यं तवयि महामते ॥ 12 ॥
रतिस तुष्टिर धृतिः कषान्तिस तवयि चेदं चराचरम तवम एवेह युगान्तेषु निधनं परॊच्यसे ऽनघ ॥ 13 ॥
सुदीर्घेणापि कालेन न ते शक्या गुणा मया आत्मा च परमॊ वक्तुं नमस ते नलिनेक्षण ॥ 14 ॥
विदितॊ मे ऽसि दुर्धर्ष नारदाद देवलात तथा कृष्णद्वैपायनाच चैव तथा कुरुपितामहात ॥ 15 ॥
तवयि सर्वं समासक्तं तवम एवैकॊ जनेश्वरः यच चानुग्रह संयुक्तम एतद उक्तं तवयानघ ॥ 16 ॥
एतत सर्वम अहं सम्यग आचरिष्ये जनार्दन इदं चाद्भुतम अत्यर्थं कृतम अस्मत्प्रियेप्सया ॥ 17 ॥
यत पापॊ निहतः संख्ये कौरव्यॊ धृतराष्ट्रजः तवया दग्धं हि तत सौन्यं मया विजितम आहवे ॥ 18 ॥
भवता तत कृतं कर्म येनावाप्तॊ जयॊ मया दुर्यॊधनस्य संग्रामे तव बुद्धिपराक्रमैः ॥ 19 ॥
कर्णस्य च वधॊपायॊ यथावत संप्रदर्शितः सैन्धवस्य च पापस्य भूरिश्रवस एव च ॥ 20 ॥
अहं च परीयमाणेन तवया देवकिनन्दन यद उक्तस तत करिष्यामि न हि मे ऽतर विचारणा ॥ 21 ॥
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम चॊदयिष्यामि धर्मज्ञ गमनार्थं तवानघ ॥ 22 ॥
रुचितं हि ममैतत ते दवारकागमनं परभॊ अचिराच चैव दृष्टा तवं मातुलं मधुसूदन बलदेवं च दुर्धर्षं तथान्यान वृष्णिपुंगवान ॥ 23 ॥
एवं संभाषमाणौ तौ पराप्तौ वारणसाह्वयम तथा विविशतुश चॊभौ संप्रहृष्टनराकुलम ॥ 24 ॥
तौ गत्वा धृतराष्ट्रस्य गृहं शक्र गृहॊपमम ददृशाते महाराज धृतराष्ट्रं जनेश्वरम ॥ 25 ॥
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ धृतराष्ट्रम उपासीनं युयुत्सुं चापराजितम ॥ 26 ॥
गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम सुभद्राद्याश च ताः सर्वा भरतानां सत्रियस तथा ददृशाते सथिताः सर्वा गान्धारीं परिवार्य वै ॥ 27 ॥
ततः समेत्य राजानं धृतराष्ट्रम अरिंदमौ निवेद्य नामधेये सवे तस्य पादाव अगृह्णताम ॥ 28 ॥
गान्धार्याश च पृथायाश च धर्मराज्ञस तथैव च भीमस्य च महात्मानौ तथा पादावगृह्णताम ॥ 29 ॥
कषत्तारं चापि संपूज्य पृष्ट्वा कुशलम अव्ययम तैः सार्धं नृपतिमं वृद्धं ततस तं पर्युपासताम ॥ 30 ॥
ततॊ निशि महाराज धृतराष्ट्रः कुरूद्वहान जनार्दनं च मेधावी वयसर्जयत वै गृहान ॥ 31 ॥
ते ऽनुज्ञाता नृपतिना ययुः सवं सवं निवेशनम धनंजय गृहान एव ययौ कृष्णस तु वीर्यवान ॥ 32 ॥
तत्रार्चितॊ यथान्यायं सर्वकामैर उपस्थितः कृष्णः सुष्वाप मेधावी धनंजय सहायवान ॥ 33 ॥
परभातायां तु शर्वर्यां कृतपूर्वाह्णिक करियौ धर्मराजस्य भवनं जग्मतुः परमार्चितौ यत्रास्ते स सहामात्यॊ धर्मराजॊ महामनाः ॥ 34 ॥
ततस तौ तत परविश्याथ ददृशाते महाबलौ धर्मराजानम आसीनं देवराजम इवाश्विनौ ॥ 35 ॥
तौ समासाद्य राजानं वार्ष्णेय कुर पुंगवौ निषीदतुर अनुज्ञातौ परीयमाणेन तेन वै ॥ 36 ॥
ततः स राजा मेधावी विविक्षू परेक्ष्य ताव उभौ परॊवाच वदतां शरेष्ठॊ वचनं राजसत्तमः ॥ 37 ॥
विविक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ बरूत कर्तास्मि सर्वं वां नचिरान मा विचार्यताम ॥ 38 ॥
इत्य उक्ते फल्गुनस तत्र धर्मराजानम अब्रवीत विनीतवद उपागम्य वाक्यं वाक्यविशारदः ॥ 39 ॥
अयं चिरॊषितॊ राजन वासुदेवः परतापवान भवन्तं समनुज्ञाप्य पितरं दरष्टुम इच्छति ॥ 40 ॥
स गच्छेद अभ्यनुज्ञातॊ भवता यदि मन्यसे आनर्तनगरीं वीरस तदनुज्ञातुम अर्हसि ॥ 41 ॥
[य] पुण्डरीकाक्ष भद्रं ते गच्छ तवं मधुसूदन पुरीं दवारवतीम अद्य दरष्टुं शूर सुतं परभुम ॥ 42 ॥
रॊचते मे महाबाहॊ गमनं तव केशव मातुलश चिरदृष्टॊ मे तवया देवी च देवकी ॥ 43 ॥
मातुलं वसुदेवं तवं बलदेवं च माधव पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः ॥ 44 ॥
समरेथाश चापि मां नित्यं भीमं च बलिनां वरम फल्गुनं नकुलं चैव सहदेवं च माधव ॥ 45 ॥
आनर्तान अवलॊक्य तवं पितरं च महाभुज वृष्णींश च पुनर आगच्छेर हयमेधे ममानघ ॥ 46 ॥
स गच्छ रत्नान्य आदाय विविधानि वसूनि च यच चाप्य अन्यन मनॊज्ञं ते तद अप्य आदत्स्व सात्वत ॥ 47 ॥
इयं हि वसुधा सर्वा परसादात तव माधव अस्मान उपगता वीर निहताश चापि शत्रवः ॥ 48 ॥
एवं बरुवति कौरव्ये धर्मराजे युधिष्ठिरे वासुदेवॊ वरः पुंसाम इदं वचनम अब्रवीत ॥ 49 ॥
तवैव रत्नानि धनं च केवलं; धरा च कृत्स्ना तु महाभुजाद्य वै यद अस्ति चान्यद दरविणं गृहेषु मे; तवम एव तस्येश्वर नित्यम ईश्वरः ॥ 50 ॥
तथेत्य अथॊक्तः परतिपूजितस तदा; गदाग्रजॊ धर्मसुतेन वीर्यवान पितृष्वसाम अभ्यवदद यथाविधि; संपूजितश चाप्य अगमत परदक्षिणम ॥ 51 ॥
तया स सम्यक परतिनन्दितस तदा; तथैव सर्वैर विदुरादिभिस ततः विनिर्ययौ नागपुराद गदाग्रजॊ; रथेन दिव्येन चतुर्युजा हरिः ॥ 52 ॥
रथं सुभद्राम अधिरॊप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः पितृष्वसायाश च तथा महाभुजॊ; विनिर्ययौ पौरजनाभिसंवृतः ॥ 53 ॥
तम अन्वगाद वानरवर्य केतनः; स सात्यक्तिर माद्रवतीसुताव अपि अगाध बुद्धिर विदुरश च माधवं; सवयं च भीमॊ गजराजविक्रमः ॥ 54 ॥
निवर्तयित्वा कुरु राष्ट्रवर्धनांस; ततः स सर्वान विदुरं च वीर्यवान जनार्दनॊ दारुकम आह स तवरः; परचॊदयाश्वान इति सात्यकिस तदा ॥ 55 ॥
ततॊ ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतॊ जनार्दनः यथा निहत्यारि गणाञ शतक्रतुर; दिवं तथानर्तपुरीं परतापवान ॥ 56 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 51
Reach this point to mark the section finished.
Continue to अध्याय 52