[बर] भूतानाम अथ पञ्चानां यथैषाम ईश्वरं मनः नियमे च विसर्गे च भूतात्मा मन एव च ॥ 1 ॥
अधिष्ठाता मनॊ नित्यं भूतानां महतां तथा बुद्धिर ऐश्वर्यम आचष्टे कषेत्रज्ञः सर्व उच्यते ॥ 2 ॥
इन्द्रियाणि मनॊ युङ्क्ते सदश्वान इव सारथिः इन्द्रियाणि मनॊ बुद्धिं कषेत्रज्ञॊ युञ्जते सदा ॥ 3 ॥
महाभूतसमायुक्तं बुद्धिसंयमनं रथम तम आरुह्य स भूतात्मा समन्तात परिधावति ॥ 4 ॥
इन्द्रियग्रामसंयुक्तॊ मनः सारथिर एव च बुद्धिसंयमनॊ नित्यं महान बरह्ममयॊ रथ ॥ 5 ॥
एवं यॊ वेत्ति विद्वान वै सदा बरह्ममयं रथम स धीरः सर्वलॊकेषु न मॊहम अधिगच्छति ॥ 6 ॥
अव्यक्तादि विशेषान्तं तरस सथावरसंकुलम चन्द्रसूर्यप्रभालॊकं गरहनक्षत्रमण्डितम ॥ 7 ॥
नदी पर्वत जालैश च सर्वतः परिभूषितम विविधाबिःस तथाद्भिश च सततं समलंकृतम ॥ 8 ॥
आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः एतद बरह्म वनं नित्यं यस्मिंश चरति कषेत्रवित ॥ 9 ॥
लॊके ऽसमिन यानि भूतानि सथावराणि चराणि च तान्य एवाग्रे परलीयन्ते पश्चाद भूतकृता गुणाः गुणेभ्यः पञ्च भूतानि एष भूतसमुच्छ्रयः ॥ 10 ॥
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः सर्वे सवभावतः सृष्टा न करियाभ्यॊ न कारणात ॥ 11 ॥
एते विश्वकृतॊ विप्रा जायन्ते ह पुनः पुनः तेभ्यः परसूतास तेष्व एव महाभूतेषु पञ्चसु परलीयन्ते यथाकालम ऊर्मयः सागरे यथा ॥ 12 ॥
विश्वसृग्भ्यस तु भूतेभ्यॊ महाभूतानि गच्छति भूतेभ्यश चापि पञ्चभ्यॊ मुक्तॊ गच्छेत परजापतिम ॥ 13 ॥
परजापतिर इदं सर्वं तपसैवासृजत परभुः तथैव वेदान ऋषयस तपसा परतिपेदिरे ॥ 14 ॥
तपसश चानुपूर्व्येण फलमूलाशिनस तथा तरैलॊक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ॥ 15 ॥
ओषधान्य अगदादीनी नाना विद्याश च सर्वशः तपसैव परसिध्यन्ति तपॊ मूलं हि साधनम ॥ 16 ॥
यद दुरापं दुराम्नायं दुराधर्षं दुरन्वयम तत सर्वं तपसा साध्यं तपॊ हि दुरतिक्रमम ॥ 17 ॥
सुरापॊ बरह्महा सतेयी भरूणहा गुरुतल्पगः तपसैव सुतप्तेन मुच्यन्ते किल्बिषात ततः ॥ 18 ॥
मनुष्याः पितरॊ देवाः पशवॊ मृगपक्षिणः यानि चान्यानि भूतानि तरसानि सथावराणि च ॥ 19 ॥
तपः परायणा नित्यं सिध्यन्ते तपसा सदा तथैव तपसा देवा महाभागा दिवं गताः ॥ 20 ॥
आशीर युक्तानि कर्माणि कुर्वते ये तव अतन्द्रिताः अहंकारसमायुक्तास ते सकाशे परजापतेः ॥ 21 ॥
धयानयॊगेन शुद्धेन निर्ममा निरहंकृताः पराप्नुवन्ति महात्मानॊ महान्तं लॊकम उत्तमम ॥ 22 ॥
धयानयॊगाद उपागम्य परसन्नमतयः सदा सुखॊपचयम अव्यक्तं परविशन्त्य आत्मवत्तया ॥ 23 ॥
धयानयॊगाद उपागम्य निर्ममा निरहंकृताः अव्यक्तं परविशन्तीह महान्तं लॊकम उत्तमम ॥ 24 ॥
अव्यक्ताद एव संभूतः समयज्ञॊ गतः पुनः तमॊ रजॊभ्यां निर्मुक्तः सत्त्वम आस्थाय केवलम ॥ 25 ॥
विमुक्तः सर्वपापेभ्यः सर्वं तयजति निष्कलः कषेत्रज्ञ इति तं विद्याद यस तं वेद स वेदवित ॥ 26 ॥
चित्तं चित्ताद उपागम्य मुनिर आसीत संयतः यच चित्तस तन मना भूत्वा गुह्यम एतत सनातनम ॥ 27 ॥
अव्यक्तादि विशेषान्तम अविद्या लक्षणं समृतम निबॊधत यथा हीदं गुणैर लक्षणम इत्य उत ॥ 28 ॥
दव्यक्षरस तु भवेन मृत्युस तर्यक्षरं बरह्म शाश्वतम ममेति च भवेन मृत्युर न ममेति च शाश्वतम ॥ 29 ॥
कर्म के चित परशंसन्ति मन्दबुद्धितरा नराः ये तु बुद्धा महात्मानॊ न परशंसन्ति कर्म ते ॥ 30 ॥
कर्मणा जायते जन्तुर मूर्तिमान षॊडशात्मकः पुरुषं सृजते ऽविद्या अग्राह्यम अमृताशिनम ॥ 31 ॥
तस्मात कर्मसु निःस्नेहा ये के चित पारदर्शिनः विद्यामयॊ ऽयं पुरुषॊ न तु कर्ममयः समृतः ॥ 32 ॥
अपूर्वम अमृतं नित्यं य एनम अविचारिणम य एनं विन्दते ऽऽतमानम अग्राह्यम अमृताशिनम अग्राह्यॊ ऽमृतॊ भवति य एभिः कारणैर धरुवः ॥ 33 ॥
अपॊह्य सर्वसंकल्पान संयम्यात्मानम आत्मनि स तद बरह्म शुभं वेत्ति यस्माद भूयॊ न विद्यते ॥ 34 ॥
परसादेनैव सत्त्वस्य परसादं समवाप्नुयात लक्षणं हि परसादस्य यथा सयात सवप्नदर्शनम ॥ 35 ॥
गतिर एषा तु मुक्तानां ये जञानपरिनिष्ठिताः परवृत्तयश च याः सर्वाः पश्यन्ति परणामजाः ॥ 36 ॥
एषा गतिर असक्तानाम एष धर्मः सनातनः एषा जञानवतां पराप्तिर एतद वृत्तम अनिन्दितम ॥ 37 ॥
समेन सर्वभूतेषु निःस्पृहेण निराशिषा शक्या गतिर इयं गन्तुं सर्वत्र समदर्शिना ॥ 38 ॥
एतद वः सर्वम आख्यातं मया विप्रर्षिसत्तमाः एवम आचरत कषिप्रं ततः सिद्धिम अवाप्स्यथ ॥ 39 ॥
[गुरु] इत्य उक्तास ते तु मुनयॊ बरह्मणा गुरुणा तथा कृतवन्तॊ महात्मानस ततॊ लॊकान अवाप्नुवन ॥ 40 ॥
तवम अप्य एतन महाभाग यथॊक्तं बरह्मणॊ वचः सम्यग आचार शुद्धात्मंस ततः सिद्धिम अवाप्स्यसि ॥ 41 ॥
[वा] इत्य उक्तः स तदा शिष्यॊ गुरुणा धर्मम उत्तमम चकार सर्वं कौन्तेय ततॊ मॊक्षम अवाप्तवान ॥ 42 ॥
कृतकृत्यश च स तदा शिष्यः कुरुकुलॊद्वह तत पदं समनुप्राप्तॊ यत्र गत्वा न शॊचति ॥ 43 ॥
[अर्जुन] कॊ नव असौ बराह्मणः कृष्ण कश च शिष्यॊ जनार्दन शरॊतव्यं चेन मयैतद वै तत तवम आचक्ष्व मे विभॊ ॥ 44 ॥
[वा] अहं गुरुर महाबाहॊ मनः शिष्यं च विद्धि मे तवत परीत्या गुह्यम एतच च कथितं मे धनंजय ॥ 45 ॥
मयि चेद अस्ति ते परीतिर नित्यं कुरुकुलॊद्वह अध्यात्मम एतच छरुत्वा तवं सम्यग आचर सुव्रत ॥ 46 ॥
ततस तवं सम्यग आचीर्णे धर्मे ऽसमिन कुरुनन्दन सर्वपापविशुद्धात्मा मॊक्षं पराप्स्यसि केवलम ॥ 47 ॥
पूर्वम अप्य एतद एवॊक्तं युद्धकाल उपस्थिते मया तव महाबाहॊ तस्माद अत्र मनः कुरु ॥ 48 ॥
मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभॊ तम अहं दरष्टुम इच्छामि संमते तव फल्गुन ॥ 49 ॥
[व] इत्य उक्तवचनं कृष्णं परत्युवाच धनंजयः गच्छावॊ नगरं कृष्ण गजसाह्वयम अद्य वै ॥ 50 ॥
समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम समनुज्ञाप्य दुर्धर्षं सवां पुरीं यातुम अर्हसि ॥ 51 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 50
Reach this point to mark the section finished.
Continue to अध्याय 51