[बर] हन्त वः संप्रवक्ष्यामि यन मां पृच्छथ सत्तमाः समस्तम इह तच छरुत्वा सम्यग एवावधार्यताम ॥ 1 ॥
अहिंसा सर्वभूतानाम एतत कृत्यतमं मतम एतत पदम अनुद्विग्नं वरिष्ठं धर्मलक्षणम ॥ 2 ॥
जञानं निःश्रेय इत्य आहुर वृद्धा निश्चयदर्शिनः तस्माज जञानेन शुद्धेन मुच्यते सर्वपातकैः ॥ 3 ॥
हिंसा पराश च ये लॊके ये च नास्तिक वृत्तयः लॊभमॊहसमायुक्तास ते वै निरयगामिनः ॥ 4 ॥
आशीर युक्तानि कर्माणि कुर्वते य तव अतन्द्रिताः ते ऽसमिँल लॊके परमॊदन्ते जायमानाः पुनः पुनः ॥ 5 ॥
कुर्वते ये तु कर्माणि शरद्दधाना विपश्चितः अनाशीर यॊगसंयुक्तास ते धीराः साधु दर्शिनः ॥ 6 ॥
अतः परं परवक्ष्यामि सत्त्वक्षेत्रज्ञयॊर यथा संयॊगॊ विप्रयॊगश च तन निबॊधत सत्तमाः ॥ 7 ॥
विषयॊ विषयित्वं च संबन्धॊ ऽयम इहॊच्यते विषयी पुरुषॊ नित्यं सत्त्वं च विषयः समृतः ॥ 8 ॥
वयाख्यातं पूर्वकल्पेन मशकॊदुम्बरं यथा भुज्यमानं न जानीते नित्यं सत्त्वम अचेतनम यस तव एव तु विजानीते यॊ भुङ्क्ते यश च भुज्यते ॥ 9 ॥
अनित्यं दवंद्व संयुक्तं सत्त्वम आहुर गुणात्मकम निर्द्वंद्वॊ निष्कलॊ नित्यः कषेत्रज्ञॊ निर्गुणात्मकः ॥ 10 ॥
समः संज्ञा गतस तव एवं यदा सर्वत्र दृश्यते उपभुङ्क्ते सदा सत्त्वम आपः पुष्करपर्णवत ॥ 11 ॥
सर्वैर अपि गुणैर विद्वान वयतिषक्तॊ न लिप्यते जलबिन्दुर यथा लॊलः पद्मिनी पत्रसंस्थितः एवम एवाप्य असंसक्तः पुरुषः सयान न संशयः ॥ 12 ॥
दरव्यमात्रम अभूत सत्त्वं पुरुषस्येति निश्चयः यथा दरव्यं च कर्ता च संयॊगॊ ऽपय अनयॊस तथा ॥ 13 ॥
यथा परदीपम आदाय कश चित तमसि गच्छति तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः ॥ 14 ॥
यावद दरव्यगुणस तावत परदीपः संप्रकाशते कषीणद्रव्यगुणं जयॊतिर अन्तर्धानाय गच्छति ॥ 15 ॥
वयक्तः सत्त्वगुणस तव एवं पुरुषॊ ऽवयक्त इष्यते एतद विप्रा विजानीत हन्त भूयॊ बरवीमि वः ॥ 16 ॥
सहस्रेणापि दुर्मेधा न वृद्धिम अधिगच्छति चतुर्थेनाप्य अथांशेन वृद्धिमान सुखम एधते ॥ 17 ॥
एवं धर्मस्य विज्ञेयं संसाधनम उपायतः उपायज्ञॊ हि मेधावी सुखम अत्यन्तम अश्नुते ॥ 18 ॥
यथाध्वानम अपाथेयः परपन्नॊ मानवः कव चित कलेशेन याति महता विनश्यत्य अन्तरापि वा ॥ 19 ॥
तथा कर्मसु विज्ञेयं फलं भवति वा न वा पुरुषस्यात्म निःश्रेयः शुभाशुभनिदर्शनम ॥ 20 ॥
यथा च दीर्घम अध्वानं पद्भ्याम एव परपद्यते अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः ॥ 21 ॥
तम एव च यथाध्वानं रथेनेहाशु गामिना यायाद अश्वप्रयुक्तेन तथा बुद्धिमतां गतिः ॥ 22 ॥
उच्चं पर्वतम आरुह्य नान्ववेक्षेत भूगतम रथेन रथिनं पश्येत कलिश्यमानम अचेतनम ॥ 23 ॥
यावद रथपथस तावद रथेन स तु गच्छति कषीणे रथपथे पराज्ञॊ रथम उत्सृज्य गच्छति ॥ 24 ॥
एवं गच्छति मेधावी तत्त्वयॊगविधानवित समाज्ञाय महाबुद्धिर उत्तराद उत्तरॊत्तरम ॥ 25 ॥
यथा महार्णवं घॊरम अप्लवः संप्रगाहते बाहुभ्याम एव संमॊहाद वधं चर्च्छत्य असंशयम ॥ 26 ॥
नावा चापि यथा पराज्ञॊ विभागज्ञस तरित्रया अक्लान्तः सलिलं गाहेत कषिप्रं संतरति धरुवम ॥ 27 ॥
तीर्णॊ गच्छेत परं पारं नावम उत्सृज्य निर्ममः वयाख्यातं पूर्वकल्पेन यथा रथि पदातिनौ ॥ 28 ॥
सनेहात संमॊहम आपन्नॊ नावि दाशॊ यथातथा ममत्वेनाभिभूतः स तत्रैव परिवर्तते ॥ 29 ॥
नावं न शक्यम आरुह्य सथले विपरिवर्तितुम तथैव रथम आरुह्य नाप्सु चर्या विधीयते ॥ 30 ॥
एवं कर्मकृतं चित्रं विषयस्थं पृथक पृथक यथा कर्मकृतं लॊके तथा तद उपपद्यते ॥ 31 ॥
यन नैव गन्धिनॊ रस्यं न रूपस्पर्श शब्दवत मन्यन्ते मुनयॊ बुद्ध्या तत परधानं परचक्षते ॥ 32 ॥
तत्र परधानम अव्यक्तम अव्यक्तस्य गुणॊ महान महतः परधानभूतस्य गुणॊ ऽहंकार एव च ॥ 33 ॥
अहंकारप्रधानस्य महाभूतकृतॊ गुणः पृथक्त्वेन हि भूतानां विषया वै गुणाः समृताः ॥ 34 ॥
बीजधर्मं यथाव्यक्तं तथैव परसवात्मकम बीजधर्मा महान आत्मा परसवश चेति नः शरुतम ॥ 35 ॥
बीजधर्मा तव अहंकारः परसवश च पुनः पुनः बीजप्रसव धर्माणि महाभूतानि पञ्च वै ॥ 36 ॥
बीजधर्मिण इत्य आहुः परसवं च न कुर्वते विशेषाः पञ्च भूतानां तेषां वित्तं विशेषणम ॥ 37 ॥
तत्रैकगुणम आकाशं दविगुणॊ वायुर उच्यते तरिगुणं जयॊतिर इत्य आहुर आपश चापि चतुर्गुणः ॥ 38 ॥
पृथ्वी पञ्च गुणा जञेया तरस सथावरसंकुला सर्वभूतकरी देवी शुभाशुभनिदर्शना ॥ 39 ॥
शब्दः सपर्शस तथारूपं रसॊ गन्धश च पञ्चमः एते पञ्च गुणा भूमेर विज्ञेया दविजसत्तमाः ॥ 40 ॥
पार्थिवश च सदा गन्धॊ गन्धश च बहुधा समृतः तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून गुणान ॥ 41 ॥
इष्टश चानिष्ट गन्धश च मधुरॊ ऽमलः कटुस तथा निर्हारी संहतः सनिग्धॊ रूक्षॊ विशद एव च एवं दशविधॊ जञेयः पार्थिवॊ गन्ध इत्य उत ॥ 42 ॥
शब्दः सपर्शस तथारूपं रसश चापां गुणाः समृताः रसज्ञानं तु वक्ष्यामि रसस तु बहुधा समृतः ॥ 43 ॥
मधुरॊ ऽमलः कटुस तिक्तः कषायॊ लवणस तथा एवं षड विधविस्तारॊ रसॊ वारिमयः समृतः ॥ 44 ॥
शब्दः सपर्शस तथारूपं तरिगुणं जयॊतिर उच्यते जयॊतिषश च गुणॊ रूपं रूपं च बहुधा समृतम ॥ 45 ॥
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा हरस्वं दीर्घं तथा सथूलं चतुरस्राणु वृत्तकम ॥ 46 ॥
एवं दवादश विस्तारं तेजसॊ रूपम उच्यते विज्ञेयं बराह्मणैर नित्यं धर्मज्ञैः सत्यवादिभिः ॥ 47 ॥
शब्दस्पर्शौ च विज्ञेयौ दविगुणॊ वायुर उच्यते वायॊश चापि गुणः सपर्शः सपर्शश च बहुधा समृतः ॥ 48 ॥
उष्णः शीतः सुखॊ दुःखः सनिग्धॊ विशद एव च कठिनश चिक्कणः शलक्ष्णः पिच्छिलॊ दारुणॊ मृदुः ॥ 49 ॥
एवं दवादश विस्तारॊ वायव्यॊ गुण उच्यते विधिवद बरह्मणैः सिद्धैर धर्मज्ञैस तत्त्वदर्शिभिः ॥ 50 ॥
तत्रैकगुणम आकाशं शब्द इत्य एव च समृतः तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून गुणान ॥ 51 ॥
षड्जर्षभौ च गान्धारॊ मध्यमः पञ्चमस तथा अतः परं तु विज्ञेयॊ निषादॊ धैवतस तथा ॥ 52 ॥
इष्टॊ ऽनिष्टश च शब्दस तु संहतः परविभागवान एवं बहुविधॊ जञेयः शब्द आकाशसंभवः ॥ 53 ॥
आकाशम उत्तमं भूतम अहंकारस ततः परम अहंकारात परा बुद्धिर बुद्धेर आत्मा ततः परम ॥ 54 ॥
तस्मात तु परम अव्यक्तम अव्यक्तात पुरुषः परः परावरज्ञॊ भूतानां यं पराप्यानन्त्यम अश्नुते ॥ 55 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 49
Reach this point to mark the section finished.
Continue to अध्याय 50