[बर] के चिद बरह्ममयं वृक्षं के चिद बरह्ममयं महत के चित पुरुषम अव्यक्तं के चित परम अनामयम मन्यन्ते सर्वम अप्य एतद अव्यक्तप्रभवाव्ययम ॥ 1 ॥
उच्च्वास मात्रम अपि चेद यॊ ऽनतकाले समॊ भवेत आत्मानम उपसंगम्य सॊ ऽमृतत्वाय कल्पते ॥ 2 ॥
निमेष मात्रम अपि चेत संयम्यात्मानम आत्मनि गच्छत्य आत्मप्रसादेन विदुषां पराप्तिम अव्ययाम ॥ 3 ॥
पराणायामैर अथ पराणान संयम्य स पुनः पुनः दश दवादशभिर वापि चतुर्विंशात परं ततः ॥ 4 ॥
एवं पूर्वं परसन्नात्मा लभते यद यद इच्छति अव्यक्तात सत्त्वम उद्रिक्तम अमृतत्वाय कल्पते ॥ 5 ॥
सत्त्वात परतरं नान्यत परशंसन्तीह तद्विदः अनुमानाद विजानीमः पुरुषं सत्त्वसंश्रयम न शक्यम अन्यथा गन्तुं पुरुषं तम अथॊ दविजाः ॥ 6 ॥
कषमा धृतिर अहिंसा च समता सत्यम आर्जवम जञानं तयागॊ ऽथ संन्यासः सात्त्विकं वृत्तम इष्यते ॥ 7 ॥
एतेनैवानुमानेन मन्यन्ते ऽथ मनीषिणः सत्त्वं च पुरुषश चैकस तत्र नास्ति विचारणा ॥ 8 ॥
आहुर एके च विद्वांसॊ ये जञाने सुप्रतिष्ठिताः कषेत्रज्ञसत्त्वयॊर ऐक्यम इत्य एतन नॊपपद्यते ॥ 9 ॥
पृथग भूतस ततॊ नित्यम इत्य एतद अविचारितम पृथग्भावश च विज्ञेयः सहजश चापि तत्त्वतः ॥ 10 ॥
तथैवैकत्व नानात्वम इष्यते विदुषां नयः मशकॊदुम्बरे तव ऐक्यं पृथक्त्वम अपि दृश्यते ॥ 11 ॥
मत्स्यॊ यथान्यः सयाद अप्सु संप्रयॊगस तथानयॊः संबन्धस तॊयबिन्दूनां पर्णे कॊक नदस्य च ॥ 12 ॥
[गुरु] इत्य उक्तवन्तं ते विप्रास तदा लॊकपितामहम पुनः संशयम आपन्नाः पप्रच्छुर दविजसत्तमाः ॥ 13 ॥
[रसयह] किंश चिद एवेह धर्माणाम अनुष्ठेयतमं समृतम वयाहताम इव पश्यामॊ धर्मस्य विविधां गतिम ॥ 14 ॥
ऊर्ध्वं देहाद वदन्त्य एके नैतद अस्तीति चापरे के चित संशयितं सर्वं निःसंशयम अथापरे ॥ 15 ॥
अनित्यं नित्यम इत्य एके नास्त्य अस्त्य इत्य अपि चापरे एकरूपं दविधेत्य एके वयामिश्रम इति चापरे एकम एके पृथक चान्ये बहुत्वम इति चापरे ॥ 16 ॥
मन्यन्ते बराह्मणा एवं पराज्ञास तत्त्वार्थ दर्शिनः जटाजिनधराश चान्ये मुण्डाः के चिद असंवृताः ॥ 17 ॥
अस्नानं के चिद इच्छन्ति सनानम इत्य अपि चापरे आहारं के चिद इच्छन्ति के चिच चानशने रताः ॥ 18 ॥
कर्म के चित परशंसन्ति परशान्तम अपि चापरे देशकालाव उभौ के चिन नैतद अस्तीति चापरे के चिन मॊक्षं परशंसन्ति के चिद भॊगान पृथग्विधान ॥ 19 ॥
धनानि के चिद इच्छन्ति निर्धनत्वं तथापरे उपास्य साधनं तव एके नैतद अस्तीति चापरे ॥ 20 ॥
अहिंसा निरताश चान्ये केचिद धिंसा परायणाः पुण्येन यशसेत्य एके नैतद अस्तीति चापरे ॥ 21 ॥
सद्भावनिरताश चान्ये के चित संशयिते सथिताः दुःखाद अन्ये सुखाद अन्ये धयानम इत्य अपरे सथिताः ॥ 22 ॥
यज्ञम इत्य अपरे धीराः परदानम इति चापरे सर्वम एके परशंसन्ति न सर्वम इति चापरे ॥ 23 ॥
तपस तव अन्ये परशंसन्ति सवाध्यायम अपरे जनाः जञानं संन्यासम इत्य एके सवभावं भूतचिन्तकाः ॥ 24 ॥
एवं वयुत्थापिते धर्मे बहुधा विप्रधावति निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम ॥ 25 ॥
इदं शरेय इदं शरेय इत्य एवं परस्थितॊ जनः यॊ हि यस्मिन रतॊ धर्मे स तं पूजयते सदा ॥ 26 ॥
तत्र नॊ विहता परज्ञा मनश च बहुलीकृतम एतद आख्यातुम इच्छामः शरेयः किम इति सत्तम ॥ 27 ॥
अतः परं च यद गुह्यं तद भवान वक्तुम अर्हति सत्त्वक्षत्रज्ञयॊश चैव संबन्धः केन हेतुना ॥ 28 ॥
एवम उक्तः स तैर विप्रैर भगवाँल लॊकभावनः तेभ्यः शशंस धर्मात्मा याथा तथ्येन बुद्धिमान ॥ 29 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 48
Reach this point to mark the section finished.
Continue to अध्याय 49