[बर] संन्यासं तप इत्य आहुर वृद्धा निश्चित दर्शिनः बराह्मणा बरह्मयॊनिस्था जञानं बरह्म परं विदुः ॥ 1 ॥
अविदूरात परं बरह्म वेद विद्या वयपाश्रयम निर्द्वंद्वं निर्गुणं नित्यम अचिन्त्यं गुह्यम उत्तमम ॥ 2 ॥
जञानेन तपसा चैव धीराः पश्यन्ति तत पदम निर्णिक्त तमसः पूता वयुत्क्रान्त रजसॊ ऽमलाः ॥ 3 ॥
तपसा कषेमम अध्वानं गच्छन्ति परमैषिणः संन्यासनिरता नित्यं ये बरह्म विदुषॊ जनाः ॥ 4 ॥
तपः परदीप इत्य आहुर आचारॊ धर्मसाधकः जञानं तव एव परं विद्म संन्यासस तप उत्तमम ॥ 5 ॥
यस तु वेद निराबाधं जञानं तत्त्वविनिश्चयात सर्वभूतस्थम आत्मानं स सर्वगतिर इष्यते ॥ 6 ॥
यॊ विद्वान सह वासं च विवासं चैव पश्यति तथैवैकत्व नानात्वे स दुःखात परिमुच्यते ॥ 7 ॥
यॊ न कामयते किं चिन न किं चिद अवमन्यते इह लॊकस्थ एवैष बरह्मभूयाय कल्पते ॥ 8 ॥
परधानगुणतत्त्वज्ञः सर्वभूतविधानवित निर्ममॊ निरहंकारॊ मुच्यते नात्र संशयः ॥ 9 ॥
निर्द्वंद्वॊ निर्नमः कारॊ निः सवधा कार एव च निर्गुणं नित्यम अद्वंद्वं परशमेनैव गच्छति ॥ 10 ॥
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम उभे सत्यानृते हित्वा मुच्यते नात्र संशयः ॥ 11 ॥
अव्यक्तबीजप्रभवॊ बुद्धिस्कन्धमयॊ महान महाहंकार विटप इन्द्रियान्तर कॊटरः ॥ 12 ॥
महाभूतविशाखश च विशेषप्रतिशाखवान सदा पर्णः सपा पुष्पः शुभाशुभफलॊदयः आजीवः सर्वभूतानां बरह्म वृक्षः सनातनः ॥ 13 ॥
एतच छित्त्वा च भित्त्वा च जञानेन परमासिना हित्वा चामरताम्प्राप्य जह्याद वै मृत्युजन्मनी निर्ममॊ निरहंकारॊ मुच्यते नात्र संशयः ॥ 14 ॥
दवाव एतौ पक्षिणौ नित्यौ सखायौ चाप्य अचेतनौ एताभ्यां तु परॊ यस्य चेतनावान इति समृतः ॥ 15 ॥
अचेतनः सत्त्वसंघात युक्तः; सत्त्वात परं चेतयते ऽनतरात्मा स कषेत्रज्ञः सत्त्वसंघात बुद्धिर; गुणातिगॊ मुच्यते मृत्युपाशात ॥ 16 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 47
Reach this point to mark the section finished.
Continue to अध्याय 48