[बर] एवम एतेन मार्गेण पूर्वॊक्तेन यथाविधि अधीतवान यथाशक्ति तथैव बरह्मचर्यवान ॥ 1 ॥
सवधर्मनिरतॊ विद्वान सर्वेन्द्रिययतॊ मुनिः गुरॊः परियहिते युक्तः सत्यधर्मपरः शुचिः ॥ 2 ॥
गुरुणा समनुज्ञातॊ भुञ्जीतान्नम अकुत्सयन हविष्य भैक्ष्य भुक चापि सथानासन विहारवान ॥ 3 ॥
दविकालम अग्निं जुह्वानः शुचिर भूत्वा समाहितः धारयीत सदा दण्डं बैल्वं पालाशम एव वा ॥ 4 ॥
कषौमं कार्पासिकं वापि मृगाजिनम अथापि वा सर्वं काषायरक्तं सयाद वासॊ वापि दविजस्य ह ॥ 5 ॥
मेखला च भवेन मौञ्जी जटी नित्यॊदकस तथा यज्ञॊपवीती सवाध्यायी अलुप्त नियतव्रतः ॥ 6 ॥
पूताभिश च तथैवाद्भिः सदा दैवततर्पणम भावेन नियतः कुर्वन बरह्म चारी परशस्यते ॥ 7 ॥
एवं युक्तॊ जयेत सवर्गम ऊर्ध्वरेताः समाहितः न संसरति जातीषु परमं सथानम आश्रितः ॥ 8 ॥
संस्कृतः सर्वसंस्कारैस तथैव बरह्मचर्यवान गरामान निष्क्रम्य चारण्यं मुनिः परव्रजितॊ वसेत ॥ 9 ॥
चर्म वल्कलसंवीतः सवयं परातर उपस्पृशेत अरण्यगॊचरॊ नित्यं न गरामं परविशेत पुनः ॥ 10 ॥
अर्चयन्न अतिथीन काले दद्याच चापि परतिश्रयम फलपत्रावरैर मूलैः शयामाकेन च वर्तयन ॥ 11 ॥
परवृत्तम उदकं वायुं सर्वं वानेयम आ तृणात पराश्नीयाद आनुपूर्व्येण यथा दीक्षम अतन्द्रितः ॥ 12 ॥
आ मूलभल भिक्षाभिर अर्चेद अतिथिम आगतम यद भक्षः सयात ततॊ दद्याद भिक्षां नित्यम अतन्द्रितः ॥ 13 ॥
देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः अस्कन्दित मनाश चैव लघ्वाशी देवताश्रयः ॥ 14 ॥
दान्तॊ मैत्रः कषमा युक्तः केशश्मश्रुच धारयन जुह्वन सवाध्यायशीलश च सत्यधर्मपरायणः ॥ 15 ॥
तयक्तदेहः सदा दक्षॊ वननित्यः समाहितः एवं युक्तॊ जयेत सवर्गं वान परस्थॊ जितेन्द्रियः ॥ 16 ॥
गृहस्थॊ बरह्मचारी च वानप्रस्थॊ ऽथ वा पुनः य इच्छेन मॊक्षम आस्थातुम उत्तमां वृत्तिम आश्रयेत ॥ 17 ॥
अभयं सर्वभूतेभ्यॊ दत्त्वा नैष्कर्म्यम आचरेत सर्वभूतहितॊ मैत्रः सर्वेन्द्रिययतॊ मुनिः ॥ 18 ॥
अयाचितम असंकॢप्तम उपपन्नं यदृच्छया जॊषयेत सदा भॊज्यं गरासम आगतम अस्पृहः ॥ 19 ॥
यात्रा मात्रं च भुञ्जीत केवलं पराणयात्रिकम धर्मलब्धं तथाश्नीयान न कामम अनुवर्तयेत ॥ 20 ॥
गरासाद आच्छादनाच चान्यन न गृह्णीयात कथं चन यावद आहारयेत तावत परतिगृह्णीत नान्यथा ॥ 21 ॥
परेभ्यॊ न परतिग्राह्यं न च देयं कदा चन दैन्यभावाच च भूतानां संविभज्य सदा बुधः ॥ 22 ॥
नाददीत परस्वानि न गृह्णीयाद अयाचितम न किं चिद विषयं भुक्त्वा सपृहयेत तस्य वै पुनः ॥ 23 ॥
मृदम आपस तथाश्मानं पत्रपुष्पफलानि च असंवृतानि गृह्णीयात परवृत्तानीह कार्यवान ॥ 24 ॥
न शिल्पजीविकां जीवेद दविर अन्नं नॊत कामयेत न दवेष्टा नॊपदेष्टा च भवेत निरुपस्कृतः शरद्धा पूतानि भुञ्जीत निमित्तानि विवर्जयेत ॥ 25 ॥
मुधा वृत्तिर असक्तश च सर्वभूतैर असंविदम कृत्वा वह्निं चरेद भैक्ष्यं विधूमे भुक्तवज जने ॥ 26 ॥
वृत्ते शरावसंपाते भैक्ष्यं लिप्सेत मॊक्षवित लाभे न च परहृष्येत नालाभे विमना भवेत ॥ 27 ॥
मात्राशी कालम आकाङ्क्षंश चरेद भैक्ष्यं समाहितः लाभं साधारणं नेच्छेन न भुञ्जीताभिपूजितः अभिपूजित लाभाद धि विजुगुप्सेत भिक्षुकः ॥ 28 ॥
शुक्तान्य अम्लानि तिक्तानि कषाय कटुकानि च नास्वादयीत भुञ्जानॊ रसांश च मधुरांस तथा यात्रा मात्रं च भुञ्जीत केवलं पराणयात्रिकम ॥ 29 ॥
असंरॊधेन भूतानां वृत्तिं लिप्सेत मॊक्षवित न चान्यम अनुभिक्षेत भिक्षमाणः कथं चन ॥ 30 ॥
न संनिकाशयेद धर्मं विविक्ते विरजाश चरेत शून्यागारम अरण्यं वा वृक्षमूलं नदीं तथा परतिश्रयार्थं सेवेत पार्वतीं वा पुनर गुहाम ॥ 31 ॥
गरामैक रात्रिकॊ गरीष्मे वर्षास्व एकत्र वा वसेत अध्वा सूर्येण निर्दिष्टः कीटवच च चरेन महीम ॥ 32 ॥
दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत संचयांश च न कुर्वीत सनेहवासं च वर्जयेत ॥ 33 ॥
पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मॊक्षवित उपस्पृशेद उद्धृताभिर अद्भिश च पुरुषः सदा ॥ 34 ॥
अहिंसा बरह्मचर्यं च सत्यम आर्जवम एव च अक्रॊधश चानसूया च दमॊ नित्यम अपैशुनम ॥ 35 ॥
अष्टास्व एतेषु युक्तः सयाद वरतेषु नियतेन्द्रियः अपापम अशठं वृत्तम अजिह्मं नित्यम आचरेत ॥ 36 ॥
आशीर युक्तानि कर्माणि हिंसा युक्तानि यानि च लॊकसंग्रह धर्मं च नैव कुर्यान न कारयेत ॥ 37 ॥
सर्वभावान अतिक्रम्य लघु मात्रः परिव्रजेत समः सर्वेषु भूतेषु सथावरेषु चरेषु च ॥ 38 ॥
परं नॊद्वेजयेत कं चिन न च कस्य चिद उद्विजेत विश्वास्यः सर्वभूतानाम अग्र्यॊ मॊक्षविद उच्यते ॥ 39 ॥
अनागतं च न धयायेन नातीतम अनुचिन्तयेत वर्तमानम उपेक्षेत कालाकाङ्क्षी समाहितः ॥ 40 ॥
न चक्षुषा न मनसा न वाचा दूषयेत कव चित न परत्यक्षं परॊक्षं वा किं चिद दुष्टं समाचरेत ॥ 41 ॥
इन्द्रियाण्य उपसंहृत्य कूर्मॊ ऽङगानीव सर्वशः कषीणेन्द्रिय मनॊ बुद्धिर निरीक्षेत निरिन्द्रियः ॥ 42 ॥
निर्द्वंद्वॊ निर्नमस्कारॊ निःस्वाहा कार एव च निर्ममॊ निरहंकारॊ निर्यॊगक्षेम एव च ॥ 43 ॥
निराशीः सर्वभूतेषु निरासङ्गॊ निराश्रयः सर्वज्ञः सर्वतॊ मुक्तॊ मुच्यते नात्र संशयः ॥ 44 ॥
अपाणि पादपृष्ठं तम अशिरस्कम अनूदरम परहीण गुणकर्माणं केवलं विमलं सथिरम ॥ 45 ॥
अगन्ध रसम अस्पर्शम अरूपाशब्दम एव च अत्वग अस्थ्य अथ वामज्जम अमांसम अपि चैव ह ॥ 46 ॥
निश्चिन्तम अव्ययं नित्यं हृदिस्थम अपि नित्यदा सर्वभूतस्थम आत्मानं ये पश्यन्ति न ते मृताः ॥ 47 ॥
न तत्र करमते बुद्धिर नेन्द्रियाणि न देवताः वेदा यज्ञाश च लॊकाश च न तपॊ न पराक्रमः यत्र जञानवतां पराप्तिर अलिङ्ग गरहणा समृता ॥ 48 ॥
तस्माद अलिङ्गॊ धर्मज्ञॊ धर्मव्रतम अनुव्रतः गूढधर्माश्रितॊ विद्वान अज्ञातचरितं चरेत ॥ 49 ॥
अमूढॊ मूढ रूपेण चरेद धर्मम अदूषयन यथैनम अवमन्येरन परे सततम एव हि ॥ 50 ॥
तथा वृत्तश चरेद धर्मं सतां वर्त्माविदूषयन यॊ हय एवंवृत्तसंपन्नः स मुनिः शरेष्ठ उच्यते ॥ 51 ॥
इन्द्रियाणीन्द्रियार्थांश च महाभूतानि पञ्च च मनॊ बुद्धिर अथात्मानम अव्यक्तं पुरुषं तथा ॥ 52 ॥
सर्वम एतत परसंख्याय सम्यक संत्यज्य निर्मलः ततः सवर्गम अवाप्नॊति विमुक्क्तः सर्वबन्धनैः ॥ 53 ॥
एतद एवान्त वेलायां परिसंख्याय तत्त्ववित धयायेद एकान्तम आस्थाय मुच्यते ऽथ निराश्रयः ॥ 54 ॥
निर्मुक्तः सर्वसङ्गेभ्यॊ वायुर आकाशगॊ यथा कषीणकॊशॊ निरातङ्कः पराप्नॊति परमं पदम ॥ 55 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 46
Reach this point to mark the section finished.
Continue to अध्याय 47