[बर] बुद्धिसारं मन सतम्भम इन्द्रियग्रामबन्धनम महाभूतार विष्कम्भं निमेष परिवेष्टनम ॥ 1 ॥
जरा शॊकसमाविष्टं वयाधिव्यसनसंचरम देशकालविचारीदं शरमव्यायाम अनिस्वनम ॥ 2 ॥
अहॊरात्र परिक्षेपं शीतॊष्णपरिमण्डलम सुखदुःखान्त संक्लेशं कषुत्पिपासावकीलनम ॥ 3 ॥
छाया तप विलेखं च निमेषॊन्मेष विह्वलम घॊरमॊहजनाकीर्णं वर्तमानम अचेतनम ॥ 4 ॥
मासार्ध मासगणितं विषमं लॊकसंचरम तमॊ निचयपङ्कं च रजॊ वेगप्रवर्तकम ॥ 5 ॥
सत्त्वालंकार दीप्तं च गुणसंघात मण्डलम सवरविग्रह नाभीकं शॊकसंघात वर्तनम ॥ 6 ॥
करिया कारणसंयुक्तं रागविस्तारम आयतम लॊभेप्सा परिसंख्यातं विविक्तज्ञानसंभवम ॥ 7 ॥
भयमॊहपरीवारं भूतसंमॊह कारकम आनन्द परीतिधारं च कामक्रॊधपरिग्रहम ॥ 8 ॥
महद आदि विशेषान्तम असक्तप्रभवाव्ययम मनॊजवनम अश्रान्तं कालचक्रं परवर्तते ॥ 9 ॥
एतद दवंद्व समायुक्तं कालचक्रम अचेतनम विसृजेत संक्षिपेच चापि बॊधयेत सामरं जगत ॥ 10 ॥
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः यस तु वेद नरॊ नित्यं न स भूतेषु मुह्यति ॥ 11 ॥
विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगॊ मुनिः विमुक्तः सर्वपापेभ्यः पराप्नॊति परमां गतिम ॥ 12 ॥
गृहस्थॊ बरह्म चारी च वानप्रस्थॊ ऽथ भिक्षुकः चत्वार आश्रमाः परॊक्ताः सर्वे गार्हस्थ्य मूलकाः ॥ 13 ॥
यः कश चिद इह लॊके च हय आगमः संप्रकीर्तितः तस्यान्त गमनं शरेयः कीर्तिर एषा सनातनी ॥ 14 ॥
संस्कारैः संस्कृतः पूर्वं यथावच चरितव्रतः जातौ गुणविशिष्टायां समावर्तेत वेदवित ॥ 15 ॥
सवदारनिरतॊ दान्तः शिष्टाचारॊ जितेन्द्रियः पञ्चभिश च महायज्ञैः शरद्दधानॊ यजेत ह ॥ 16 ॥
देवतातिथिशिष्टाशी निरतॊ वेद कर्मसु इज्या परदानयुक्तश च यथाशक्ति यथाविधि ॥ 17 ॥
न पाणिपादचपलॊ न नेत्रचपलॊ मुनिः न च वाग अङ्गचपल इति शिष्टस्य गॊचरः ॥ 18 ॥
नित्ययज्ञॊपवीती सयाच छुक्ल वासाः शुचिव्रताः नियतॊ दमदानाभ्यां सदा शिष्टैश च संविशेत ॥ 19 ॥
जितशिश्नॊदरॊ मैत्रः शिष्टाचार समाहितः वैणवीं धारयेद यष्टिं सॊदकं च कमण्डलुम ॥ 20 ॥
अधीत्याध्यापनं कुर्यात तथा यजन याजने दानं परतिग्रहं चैव षड्गुणां वृत्तिम आचरेत ॥ 21 ॥
तरीणि कर्माणि यानीह बराह्मणानां तु जीविका याजनाध्यापने चॊभे शुद्धाच चापि परतिग्रहः ॥ 22 ॥
अवशेषाणि चान्यानि तरीणि कर्माणि यानि तु दानम अध्ययनं यज्ञॊ धर्मयुक्तानि तानि तु ॥ 23 ॥
तेष्व अप्रमादं कुर्वीत तरिषु कर्मसु धर्मवित दान्तॊ मैत्रः कषमा युक्तः सर्वभूतसमॊ मुनिः ॥ 24 ॥
सर्वम एतद यथाशक्ति विप्रॊ निर्वर्तयञ शुचिः एवं युक्तॊ जयेत सवर्गं गृहस्थः संशितव्रतः ॥ 25 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 45
Reach this point to mark the section finished.
Continue to अध्याय 46