[बर] नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस तथा ॥ 1 ॥
अन्यॊन्यम अनुषज्जन्ते अन्यॊन्यं चानुजीविनः अन्यॊन्यापाश्रयाः सर्वे तथान्यॊन्यानुवर्तिनः ॥ 2 ॥
यावत सत्त्वं तमस तावद वर्तते नात्र संशयः यावत तमश च सत्त्वं च रजस तावद इहॊच्यते ॥ 3 ॥
संहत्य कुर्वते यात्रां सहिताः संघचारिणः संघातवृत्तयॊ हय एते वर्तन्ते हेत्वहेतुभिः ॥ 4 ॥
उद्रेक वयतिरेकाणां तेषाम अन्यॊन्यवर्तिनाम वर्तते तद यथा नयूनं वयतिरिक्तं च सर्वशः ॥ 5 ॥
वयतिरिक्तं तमॊ यत्र तिर्यग भावगतं भवेत अल्पं तत्र रजॊ जञेयं सत्त्वं चाल्पतरं ततः ॥ 6 ॥
उद्रिक्तं च रजॊ यत्र मध्यस्रॊतॊ गतं भवेत अल्पं तत्र तमॊ जञेयं सत्त्वं चाल्पतरं ततः ॥ 7 ॥
उद्रिक्तं च यदा सत्त्वम ऊर्ध्वस्रॊतॊ गतं भवेत अल्पं तत्र रजॊ जञेयं तमश चाल्पतरं ततः ॥ 8 ॥
सत्त्वं वैकारिकं यॊनिर इन्द्रियाणां परकाशिका न हि सत्त्वात परॊ भावः कश चिद अन्यॊ विधीयते ॥ 9 ॥
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः जघन्यगुणसंयुक्ता यान्त्य अधस तामसा जनाः ॥ 10 ॥
तमः शूद्रे रजः कषत्रे बराह्मणे सत्त्वम उत्तमम इत्य एवं तरिषु वर्णेषु विवर्तन्ते गुणास तरयः ॥ 11 ॥
दूराद अपि हि दृश्यन्ते सहिताः संघचारिणः तमः सत्त्वं रजश चैव पृथक्त्वं नानुशुश्रुम ॥ 12 ॥
दृष्ट्वा चादित्यम उद्यन्तं कुचॊराणां भयं भवेत अध्वगाः परितप्येरंस तृष्णार्ता दुःखभागिनः ॥ 13 ॥
आदित्यः सत्त्वम उद्दिष्टं कुचॊरास तु यथा तमः परितापॊ ऽधवगानां च राजसॊ गुण उच्यते ॥ 14 ॥
पराकाश्यं सत्त्वम आदित्ये संतापॊ राजसॊ गुणः उपप्लवस तु विज्ञेयस तामसस तस्य पर्वसु ॥ 15 ॥
एवं जयॊतिःषु सर्वेषु विवर्तन्ते गुणास तरयः पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा ॥ 16 ॥
सथावरेषु च भूतेषु तिर्यग भावगतं तमः राजसास तु विवर्तन्ते सनेहभावस तु सात्त्विकः ॥ 17 ॥
अहस तरिधा तु विज्ञेयं तरिधा रात्रिर विधीयते मासार्धम आस वर्षाणि ऋतवः संधयस तथा ॥ 18 ॥
तरिधा दानानि दीयन्ते तरिधा यज्ञः परवर्तते तरिधा लॊकास तरिधा वेदास तरिधा विद्यास तरिधा गतिः ॥ 19 ॥
भूतं भव्यं भविष्यच च धर्मॊ ऽरथः काम इत्य अपि पराणापानाव उदानश चाप्य एत एव तरयॊ गुणाः ॥ 20 ॥
यत किं चिद इह वै लॊके सर्वम एष्व एव तन्त्रिषु तरयॊ गुणाः परवर्तन्ते अव्यक्ता नित्यम एव तु सत्त्वं रजस तमश चैव गुणसर्गः सनातनः ॥ 21 ॥
तमॊ ऽवयक्तं शिवं नित्यम अजं यॊनिः सनातनः परकृतिर विकारः परलयः परधानं परभवाप्ययौ ॥ 22 ॥
अनुद्रिक्तम अनूनं च हय अकम्पम अचलं धरुवम सद असच चैव तत सर्वम अव्यक्तं तरिगुणं समृतम जञेयानि नामधेयानि नरैर अध्यात्मचिन्तकैः ॥ 23 ॥
अव्यक्तनामानि गुणांश च तत्त्वतॊ; यॊ वेद सर्वाणि गतीश च केवलाः विमुक्तदेहः परविभाग तत्त्ववित; स मुच्यते सर गुणैर निरामयः ॥ 24 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 39
Reach this point to mark the section finished.
Continue to अध्याय 40