धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 38

  1. [बर] अतः परं परवक्ष्यामि तृतीयं गुणम उत्तमम सर्वभूतहितं लॊके सतां धर्मम अनिन्दितम ॥ 1 ॥

  2. आनन्दः परीतिर उद्रेकः पराकाश्यं सुखम एव च अकार्पण्यम असंरम्भः संतॊषः शरद्दधानता ॥ 2 ॥

  3. कषमा धृतिर अहिंसा च समता सत्यम आर्जवम अक्रॊधश चानसूया च शौचं दाक्ष्यं पराक्रमः ॥ 3 ॥

  4. मुधा जञानं मुधा वृत्तं मुधा सेवा मुधा शरमः एवं यॊ युक्तधर्मः सयात सॊ ऽमुत्रानन्त्यम अश्नुते ॥ 4 ॥

  5. निर्ममॊ निरहंकारॊ निराशीः सर्वतः समः अकाम हत इत्य एष सतां धर्मः सनातनः ॥ 5 ॥

  6. विश्रम्भॊ हरीस तितिक्षा च तयागः शौचम अतन्द्रिता आनृशंस्यम असंमॊहॊ दया भूतेष्व अपैशुनम ॥ 6 ॥

  7. हर्षस तुष्टिर विस्मयश च विनयः साधुवृत्तता शान्ति कर्म विशुद्धिश च शुभा बुद्धिर विमॊचनम ॥ 7 ॥

  8. उपेक्षा बरह्मचर्यं च परित्यागश च सर्वशः निर्ममत्वम अनाशीस्त्वम अपरिक्रीत धर्मता ॥ 8 ॥

  9. मुधा दानं मुधा यज्ञॊ मुधाधीतं मुधा वरतम मुधा परतिग्रहश चैव मुधा धर्मॊ मुधा तपः ॥ 9 ॥

  10. एवंवृत्तास तु ये के चिल लॊके ऽसमिन सत्त्वसंश्रयाः बराह्मणा बरह्मयॊनिस्थास ते धीराः साधु दर्शिनः ॥ 10 ॥

  11. हित्वा सर्वाणि पापानि निःशॊका हय अजरामराः दिवं पराप्य तु ते धीराः कुर्वते वै ततस ततः ॥ 11 ॥

  12. ईशित्वं च वशित्वं च लघुत्वं मनसश च ते विकुर्वते महात्मानॊ देवास तरिदिवगा इव ॥ 12 ॥

  13. ऊर्ध्वस्रॊतस इत्य एते देवा वैकारिकाः समृताः विकुर्वते परकृत्या वै दिवं पराप्तास ततस ततः यद यद इच्छन्ति तत सर्वं भजन्ते विभजन्ति च ॥ 13 ॥

  14. इत्य एतत सात्त्विकं वृत्तं कथितं वॊ दविजर्षभाः एतद विज्ञाय विधिवल लभते यद यद इच्छति ॥ 14 ॥

  15. परकीर्तिताः सत्त्वगुणा विशेषतॊ; यथावद उक्तं गुणवृत्तम एव च नरस तु यॊ वेद गुणान इमान सदा; गुणान स भुङ्क्ते न गुणैः स भुज्यते ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 39

Previous: अध्याय 37