धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 40

  1. [बर] अव्यक्तात पूर्वम उत्पन्नॊ महान आत्मा महामतिः आदिर गुणानां सर्वेषां परथमः सर्ग उच्यते ॥ 1 ॥

  2. महान आत्मा मतिर विष्णुर विश्वः शम्भुश च वीर्यवान बुद्धिः परज्ञॊपलब्धिश च तथा खयातिर धृतिः समृतिः ॥ 2 ॥

  3. पर्याय वाचकैः शब्दैर महान आत्मा विभाव्यते तं जानन बराह्मणॊ विद्वान न परमॊहं निगच्छति ॥ 3 ॥

  4. सर्वतः पाणिपादश च सर्वतॊ ऽकषिशिरॊमुखः सर्वतः शरुतिमाँल लॊके सर्वं वयाप्य स तिष्ठति ॥ 4 ॥

  5. महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः अणिमा लघिमा पराप्तिर ईशानॊ जयॊतिर अव्ययः ॥ 5 ॥

  6. तत्र बुद्धिमतां लॊकाः संन्यासनिरताश च ये धयानिनॊ नित्ययॊगाश च सत्यसंधा जितेन्द्रियाः ॥ 6 ॥

  7. जञानवन्तश च ये के चिद अलुब्धा जितमन्यवः परसन्नमनसॊ धीरा निर्ममा निरहंकृताः विमुक्ताः सर्व एवैते महत्त्वम उपयान्ति वै ॥ 7 ॥

  8. आत्मनॊ महतॊ वेद यः पुण्यां गतिम उत्तमाम स धीरः सर्वलॊकेषु न मॊहम अधिगच्छति विष्णुर एवादि सर्गेषु सवयम्भूर भवति परभुः ॥ 8 ॥

  9. एवं हि यॊ वेद गुहा शयं परभुं; नरः पुराणं पुरुषं विश्वरूपम हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान बुद्धिम अतीत्य तिष्ठति ॥ 9 ॥

Reach this point to mark the section finished.

Continue to अध्याय 41

Previous: अध्याय 39