धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 37

  1. [बर] रजॊ ऽहं वः परवक्ष्यामि याथा तथ्येन सत्तमाः निबॊधत महाभागा गुणवृत्तं च सर्वशः ॥ 1 ॥

  2. संघातॊ रूपम आयासः सुखदुःखे हिमातपौ ऐश्वर्यं विग्रहः संधिर हेतुवादॊ ऽरतिः कषमा ॥ 2 ॥

  3. बलं शौर्यं मदॊ रॊषॊ वयायामकलहाव अपि ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम ॥ 3 ॥

  4. वधबन्धपरिक्लेशाः करयॊ विक्रय एव च निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम ॥ 4 ॥

  5. उग्रं दारुणम आक्रॊशः परवित्तानुशासनम लॊकचिन्ता विचिन्ता च मत्सरः परिभाषणम ॥ 5 ॥

  6. मृषावादॊ मृषा दानं विकल्पः परिभाषणम निन्दास्तुतिः परशंसा च परतापः परितर्पणम ॥ 6 ॥

  7. परिचर्या च शुश्रूषा सेवा तृष्णा वयपाश्रयः वयूहॊ ऽनयः परमादश च परितापः परिग्रहः ॥ 7 ॥

  8. संस्कारा ये च लॊके ऽसमिन परवर्तन्ते पृथक पृथक नृषु नारीषु भूतेषु दरव्येषु शरणेषु च ॥ 8 ॥

  9. संतापॊ ऽपरत्ययश चैव वरतानि नियमाश च ये परदानम आशीर युक्तं च सततं मे भवत्व इति ॥ 9 ॥

  10. सवधा कारॊ नमः कारः सवाहाकारॊ वषट करिया याजनाध्यापने चॊभे तथैवाहुः परिग्रहम ॥ 10 ॥

  11. इदं मे सयाद इदं मे सयात सनेहॊ गुणसमुद्भवः अभिद्रॊहस तथा माया निकृतिर मान एव च ॥ 11 ॥

  12. सतैन्यं हिंसा परीवादः परितापः परजागरः सतम्भॊ दम्भॊ ऽथ रागश च भक्तिः परीतिः परमॊदनम ॥ 12 ॥

  13. दयूतं च जनवादश च संबन्धाः सत्रीकृताश च ये नृत्तवादित्रगीतानि परसङ्गा ये च के चन सर्व एते गुणा विप्रा राजसाः संप्रकीर्तिताः ॥ 13 ॥

  14. भूतभव्य भविष्याणां भावानां भुवि भावनाः तरिवर्गनिरता नित्यं धर्मॊ ऽरथः काम इत्य अपि ॥ 14 ॥

  15. कामवृत्ताः परमॊदन्ते सर्वकामसमृद्धिभिः अर्वाक सरॊतस इत्य एते तैजसा रजसावृताः ॥ 15 ॥

  16. अस्मिँल लॊके परमॊदन्ते जायमानाः पुनः पुनः परेत्य भाविकम ईहन्त इह लौकिकम एव च ददति परतिगृह्णन्ति जपन्त्य अथ च जुह्वति ॥ 16 ॥

  17. रजॊगुणा वॊ बहुधानुकीर्तिता; यथावद उक्तं गुणवृत्तम एव च नरॊ हि यॊ वेद गुणान इमान सदा; स राजसैः सर्वगुणैर विमुच्यते ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 38

Previous: अध्याय 36