[बर] तद अव्यक्तम अनुद्रिक्तं सर्वव्यापि धरुवं सथिरम नवद्वारं पुरं विद्यात तरिगुणं पञ्च धातुकम ॥ 1 ॥
एकादश परिक्षेपं मनॊ वयाकरणात्मकम बुद्धिस्वामिकम इत्य एतत परम एकादशं भवेत ॥ 2 ॥
तरीणि सरॊतांसि यान्य अस्मिन्न आप्यायन्ते पुनः पुनः परणाड्यस तिस्र एवैताः परवर्तन्ते गुणात्मिकाः ॥ 3 ॥
तमॊ रजस तथा सत्त्वं गुणान एतान परचक्षते अन्यॊन्यमिथुनाः सर्वे तथान्यॊन्यानुजीविनः ॥ 4 ॥
अन्यॊन्यापाश्रयाश चैव तथान्यॊन्यानुवर्तिनः अन्यॊन्यव्यतिषक्ताश च तरिगुणाः पञ्च धातवः ॥ 5 ॥
तमसॊ मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः रजसश चापि सत्त्वं सयात सत्त्वस्य मिथुनं तमः ॥ 6 ॥
नियम्यते तमॊ यत्र रजस तत्र परवर्तते नियम्यते रजॊ यत्र सत्त्वं तत्र परवर्तते ॥ 7 ॥
नैशात्मकं तमॊ विद्यात तरिगुणं मॊहसंज्ञितम अधर्मलक्षणं चैव नियतं पापकर्मसु ॥ 8 ॥
परवृत्त्य आत्मकम एवाहू रजः पर्याय कारकम परवृत्तं सर्वभूतेषु दृश्यतॊत्पत्तिलक्षणम ॥ 9 ॥
परकाशं सर्वभूतेषु लाघवं शरद्दधानता सात्त्विकं रूपम एवं तु लाघवं साधु संमितम ॥ 10 ॥
एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः समास वयास युक्तानि तत्त्वतस तानि वित्तमे ॥ 11 ॥
संमॊहॊ ऽजञानम अत्यागः कर्मणाम अविनिर्णयः सवप्नः सतम्भॊ भयं लॊभः शॊकः सुकृतदूषणम ॥ 12 ॥
अस्मृतिश चाविपाकश च नास्तिक्यं भिन्नवृत्तिता निर्विशेषत्वम अन्धत्वं जघन्यगुणवृत्तिता ॥ 13 ॥
अकृते कृतमानित्वम अज्ञाने जञानमानिता अमैत्री विकृतॊ भावॊ अश्रद्धा मूढ भावना ॥ 14 ॥
अनार्जवम असंज्ञत्वं कर्म पापम अचेतना गुरुत्वं सन्नभावत्वम असितत्वम अवाग गतिः ॥ 15 ॥
सर्व एते गुणा विप्रास तामसाः संप्रकीर्तिताः ये चान्ये नियता भावा लॊके ऽसमिन मॊहसंज्ञिताः ॥ 16 ॥
तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः परिवाद कथा नित्यं देव बराह्मण वैदिकाः ॥ 17 ॥
अत्यागश चाभिमानश च मॊहॊ मन्युस तथाक्षमा मत्सरश चैव भूतेषु तामसं वृत्तम इष्यते ॥ 18 ॥
वृथारम्भाश च ये के चिद वृथा दानानि यानि च वृथा भक्षणम इत्य एतत तामसं वृत्तम इष्यते ॥ 19 ॥
अतिवादॊ ऽतितिक्षा च मात्सर्यम अतिमानिता अश्रद्दधानता चैव तामसं वृत्तम इष्यते ॥ 20 ॥
एवंविधास तु ये के चिल लॊके ऽसमिन पापकर्मिणः मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः ॥ 21 ॥
तेषां यॊनिं परवक्ष्यामि नियतां पापकर्मणाम अवाङ्निरयभावाय तिर्यङ्निरयगामिनः ॥ 22 ॥
सथावराणि च भूतानि पशवॊ वाहनानि च करव्यादा दन्द शूकाश च कृमिकीट विहंगमाः ॥ 23 ॥
अण्डजा जन्तवॊ ये च सर्वे चापि चतुष्पदाः उन्मत्ता बधिरा मूका ये चान्ये पापरॊगिणः ॥ 24 ॥
मग्नास तमसि दुर्वृत्ताः सवकर्म कृतलक्षणाः अवाक्स्रॊतस इत्य एते मग्नास तमसि तामसाः ॥ 25 ॥
तेषाम उत्कर्षम उद्रेकं वक्ष्याम्य अहम अतः परम यथा ते सुकृताँल लॊकाँल लभन्ते पुण्यकर्मिणः ॥ 26 ॥
अन्यथा परतिपन्नास तु विवृद्धा ये च कर्मसु सवकर्मनिरतानां च बराह्मणानां शुभैषिणाम ॥ 27 ॥
संस्कारेणॊर्ध्वम आयान्ति यतमानाः स लॊकताम सवर्गं गच्छन्ति देवानाम इत्य एषा वैदिकी शरुतिः ॥ 28 ॥
अन्यथा परतिपन्नास तु विवृद्धाः सवेषु कर्मसु पुनर आवृत्ति धर्माणस ते भवन्तीह मानुषाः ॥ 29 ॥
पापयॊनिं समापन्नाश चण्डाला मूक चूचुकाः वर्णान पर्यायशश चापि पराप्नुवन्त्य उत्तरॊत्तरम ॥ 30 ॥
शूद्रयॊनिम अतिक्रम्य ये चान्ये तामसा गुणाः सरॊतॊ मध्ये समागम्य वर्तन्ते तामसे गुणे ॥ 31 ॥
अभिषङ्गस तु कामेषु महामॊह इति समृतः ऋषयॊ मुनयॊ देवा मुह्यन्त्य अत्र सुखेप्सवः ॥ 32 ॥
तमॊ मॊहॊ महामॊहस तामिस्रः करॊधसंज्ञितः मरणं तव अन्धतामिस्रं तामिस्रं करॊध उच्यते ॥ 33 ॥
भावतॊ गुणतश चैव यॊनितश चैव तत्त्वतः सर्वम एतत तमॊ विप्राः कीर्तितं वॊ यथाविधि ॥ 34 ॥
कॊ नव एतद बुध्यते साधु कॊ नव एतत साधु पश्यति अतत्त्वे तत्त्वदर्शी यस तमसस तत्त्वलक्षणम ॥ 35 ॥
तमॊ गुणा वॊ बहुधा परकीर्तिता; यथावद उक्तं च तमः परावरम नरॊ हि यॊ वेद गुणान इमान सदा; स तामसैः सर्वगुणैः परमुच्यते ॥ 36 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 36
Reach this point to mark the section finished.
Continue to अध्याय 37