[व] युधिष्ठिर तव परज्ञा न सम्यग इति मे मतिः न हि कश चित सवयं मर्त्यः सववशः कुरुते करियाः ॥ 1 ॥
ईश्वरेण नियुक्तॊ ऽयं साध्व असाधु च मानवः करॊति पुरुषः कर्म तत्र का परिदेवना ॥ 2 ॥
आत्मानं मन्यसे चाथ पापकर्माणम अन्ततः शृणु तत्र यथा पापम अपाकृष्येत भारत ॥ 3 ॥
तपॊभिः करतुभिश चैव दानेन च युधिष्ठिर तरन्ति नित्यं पुरुषा ये सम पापानि कुर्वते ॥ 4 ॥
यज्ञेन तपसा चैव दानेन च नराधिप पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः ॥ 5 ॥
असुराश च सुराश चैव पुण्यहेतॊर मखक्रियाम परयतन्ते महात्मानस तस्माद यज्ञाः परायणम ॥ 6 ॥
यज्ञैर एव महात्मानॊ बभूवुर अधिकाः सुराः ततॊ देवाः करियावन्तॊ दानवान अभ्यधर्षयन ॥ 7 ॥
राजसूयाश्वमेधौ च सर्वमेधं च भारत नरमेधं च नृपते तवम आहर युधिष्ठिर ॥ 8 ॥
यजस्व वाजिमेधेन विधिवद दक्षिणावता बहु कामान्न वित्तेन रामॊ दाशरथिर यथा ॥ 9 ॥
यथा च भरतॊ राजा दौःषन्तिः पृथिवीपतिः शाकुन्तलॊ महावीर्यस तव पूर्वपितामहः ॥ 10 ॥
[य] असंशयं वाजिमेधः पावयेत पृथिवीम अपि अभिप्रायस तु मे कश चित तं तवं शरॊतुम इहार्हसि ॥ 11 ॥
इमं जञातिबधं कृत्वा सुमहान्तं दविजॊत्तम दानम अल्पं न शक्यामि दातुं वित्तं च नास्ति मे ॥ 12 ॥
न च बालान इमान दीनान उत्सहे वसु याचितुम तथैवार्द्र वरणान कृच्छ्रे वर्तमानान नृपात्मजान ॥ 13 ॥
सवयं विनाश्य पृथिवीं यज्ञार्थे दविजसत्तम करम आहारयिष्यामि कथं शॊकपरायणान ॥ 14 ॥
दुर्यॊधनापराधेन वसुधा वसुधाधिपाः परनष्टा यॊजयित्वास्मान अकीर्त्या मुनिसत्तम ॥ 15 ॥
दुर्यॊधनेन पृथिवी कषयिता वित्तकारणात कॊशश चापि विशीर्णॊ ऽसौ धार्तराष्ट्रस्य दुर्मतेः ॥ 16 ॥
पृथिवी दक्षिणा चात्र विधिः परथमकल्पिकः विद्वद्भिः परिदृष्टॊ ऽयं शिष्टॊ विधिविपर्ययः ॥ 17 ॥
न च परतिनिधिं कर्तुं चिकीर्षामि तपॊधन अत्र मे भगवन सम्यक साचिव्यं कर्तुम अर्हसि ॥ 18 ॥
[व] एवम उक्तस तु पार्थेन कृष्णद्वैपायनस तदा मुहूर्तम अनुसंचिन्त्य धर्मराजानम अब्रवीत ॥ 19 ॥
विद्यते दरविणं पार्थ गिरौ हिमवति सथितम उत्सृष्टं बराह्मणैर यज्ञे मरुत्तस्य महीपतेः तद आनयस्व कौन्तेय पर्याप्तं तद भविष्यति ॥ 20 ॥
[य] कथं यज्ञे मरुत्तस्य दरविणं तत समाचितम कस्मिंश च काले स नृपॊ बभूव वदतां वर ॥ 21 ॥
[व] यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम यस्मिन काले महावीर्यः स राजासीन महाधनः ॥ 22 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 3
Reach this point to mark the section finished.
Continue to अध्याय 4