[व] एवम उक्तस तु राज्ञा स धृतराष्ट्रेण धीमता तूष्णीं बभूव मेधावी तम उवाचाथ केशवः ॥ 1 ॥
अतीव मनसा शॊकः करियमाणॊ जनाधिप संतापयति वैतस्य पूर्वप्रेतान पितामहान ॥ 2 ॥
यजस्व विविधैर यज्ञैर बहुभिः सवाप्तदक्षिणैः देवांस तर्पय सॊमेन सवधया च पितॄन अपि ॥ 3 ॥
तवद्विधस्य महाबुद्धे नैतद अद्यॊपपद्यते विदितं वेदितव्यं ते कर्तव्यम अपि ते कृतम ॥ 4 ॥
शरुताश च राजधर्मास ते भीष्माद भागीरथी सुतात कृष्णद्वैपायनाच चैव नारदाद विदुरात तथा ॥ 5 ॥
नेमाम अर्हसि मूढानां वृत्तिं तवम अनुवर्तितुम पितृपैतामहीं वृत्तिम आस्थाय धुरम उद्वह ॥ 6 ॥
युक्तं हि यशसा कषत्रं सवर्गं पराप्तुम असंशयम न हि कश चन शूराणां निहतॊ ऽतर पराङ्मुखः ॥ 7 ॥
तयज शॊकं महाराज भवितव्यं हि तत तथा न शक्यास ते पुनर दरष्टुं तवया हय अस्मिन रणे हताः ॥ 8 ॥
एतावद उक्त्वा गॊविन्दॊ धर्मराजं युधिष्ठिरम विरराम महातेजास तम उवाच युधिष्ठिरः ॥ 9 ॥
गॊविन्द मयि या परीतिस तव सा विदिता मम सौहृदेन तथा परेम्णा सदा माम अनुकम्पसे ॥ 10 ॥
परियं तु मे सयात सुमहत कृतं चक्रगदाधर शरीमन परीतेन मनसा सर्वं यावदनन्दन ॥ 11 ॥
यदि माम अनुजानीयाद भवान गन्तुं तपॊवनम न हि शान्तिं परपश्यामि घातयित्वा पितामहम कर्णं च पुरुषव्याघ्रं संग्रामेष्व अपलायिनम ॥ 12 ॥
कर्मणा येन मुच्येयम अस्मात करूराद अरिंदम कर्मणस तद विधत्स्वेह येन शुध्यति मे मनः ॥ 13 ॥
तम एवं वादिनं वयासस ततः परॊवाच धर्मवित सान्त्वयन सुमहातेजाः शुभं वचनम अर्थवत ॥ 14 ॥
अकृता ते मतिस तात पुनर बाल्येन मुह्यसे किम आकाशे वयं सर्वे परलपाम मुहुर मुहुः ॥ 15 ॥
विदिताः कषत्रधर्मास ते येषां युद्धेन जीविका यथा परवृत्तॊ नृपतिर नाधिबन्धेन युज्यते ॥ 16 ॥
मॊक्षधर्माश च निखिला याथातथ्येन ते शरुताः असकृच चैव संदेहाच छिन्नास ते कामजा मया ॥ 17 ॥
अश्रद्दधानॊ दुर्मेधा लुप्तस्मृतिर असि धरुवम मैवं भव न ते युक्तम इदम अज्ञानम ईदृशम ॥ 18 ॥
परायश्चित्तानि सर्वाणि विदितानि च ते ऽनघ युद्धधर्माश च ते सर्वे दानधर्माश च ते शरुताः ॥ 19 ॥
स कथं सर्वधर्मज्ञः सर्वागम विशारदः परिमुह्यसि भूयस तवम अज्ञानाद इव भारत ॥ 20 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 2
Reach this point to mark the section finished.
Continue to अध्याय 3