धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 29

  1. [बर] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥ 1 ॥

  2. कार्तवीर्यार्जुनॊ नाम राजा बाहुसहस्रवान येन सागरपर्यन्ता धनुषा निर्जिता मही ॥ 2 ॥

  3. स कदा चित समुद्रान्ते विचरन बलदर्पितः अवाकिरच छरशतैः समुद्रम इति नः शरुतम ॥ 3 ॥

  4. तं समुद्रॊ नमस्कृत्य कृताञ्जलिर उवाच ह मा मुञ्च वीर नाराचान बरूहि किं करवाणि ते ॥ 4 ॥

  5. मदाश्रयाणि भूतानि तवद विसृष्टैर महेषुभिः वध्यन्ते राजशार्दूल तेभ्यॊ देह्य अभयं विभॊ ॥ 5 ॥

  6. [अ] मत्समॊ यदि संग्रामे शरासनधरः कव चित विद्यते तं ममाचक्ष्व यः समासीत मां मृधे ॥ 6 ॥

  7. [स] महर्षिर जमदग्निस ते यदि राजन परिश्रुतः तस्य पुत्रस तवातिथ्यं यथावत कर्तुम अर्हति ॥ 7 ॥

  8. ततः स राजा परययौ करॊधेन महता वृतः स तम आश्रमम आगम्य रमम एवान्वपद्यत ॥ 8 ॥

  9. स राम परतिकूलानि चकार सह बन्धुभिः आयासं जनयाम आस रामस्य च महात्मनः ॥ 9 ॥

  10. ततस तेजः परजज्वाल राजस्यामित तेजसः परदहद रिपुसैन्यानि तदा कमललॊचने ॥ 10 ॥

  11. ततः परशुम आदाय स तं बाहुसहस्रिणम चिच्छेद सहसा रामॊ बाहुशाखम इव दरुमम ॥ 11 ॥

  12. तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः असीन आदाय शक्तीश च भार्गवं पर्यवारयन ॥ 12 ॥

  13. रामॊ ऽपि धनुर आदाय रथम आरुह्य स तवरः विसृजञ शरवर्षाणि वयधमत पार्थिवं बलम ॥ 13 ॥

  14. ततस तु कषत्रियाः के चिज जमदग्निं निहत्य च विविशुर गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥ 14 ॥

  15. तेषां सवविहितं कर्म तद्भयान नानुतिष्ठताम परजा वृषलतां पराप्ता बराह्मणानाम अदर्शनात ॥ 15 ॥

  16. त एते दरमिडाः काशाः पुण्ड्राश च शबरैः सह वृषलत्वं परिगता वयुत्थानात कषत्रधर्मतः ॥ 16 ॥

  17. ततस तु हतवीरासु कषत्रियासु पुनः पुनः दविजैर उत्पादितं कषत्रं जामदग्न्यॊ नयकृन्तत ॥ 17 ॥

  18. एव विंशतिमेधान्ते रामं वाग अशरीरिणी दिव्या परॊवाच मधुरा सर्वलॊकपरिश्रुता ॥ 18 ॥

  19. राम राम निवर्तस्व कं गुणं तात पश्यसि कषत्रबन्धून इमान पराणैर विप्रयॊज्य पुनः पुनः ॥ 19 ॥

  20. तथैव तं महात्मानम ऋचीकप्रमुखास तदा पितामहा महाभाग निवर्तस्वेत्य अथाब्रुवन ॥ 20 ॥

  21. पितुर वधम अमृष्यंस तु रामः परॊवाच तान ऋषीन नार्हन्तीह भवन्तॊ मां निवारयितुम इत्य उत ॥ 21 ॥

  22. [पितरह] नार्हसे कषत्रबन्धूंस तवं निहन्तुं जयतां वर न हि युक्तं तवया हन्तुं बराह्मणेन सता नृपान ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 30

Previous: अध्याय 28