[पितरह] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम शरुत्वा च तत तथा कार्यं भवता दविजसत्तम ॥ 1 ॥
अलर्कॊ नाम राजर्षिर अभवत सुमहातपाः धर्मज्ञः सत्यसंधश च महात्मा सुमहाव्रतः ॥ 2 ॥
स सागरान्तां धनुषा विनिर्जित्य महीम इमाम कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥ 3 ॥
सथितस्य वृक्षमूले ऽथ तस्य चिन्ता बभूव ह उत्सृज्य सुमहद राज्यं सूक्ष्मं परति महामते ॥ 4 ॥
[अ] मनसॊ मे बलं जातं मनॊ जित्वा धरुवॊ जयः अन्यत्र बाणान अस्यामि शत्रुभिः परिवारितः ॥ 5 ॥
यद इदं चापलान मूर्तेः सर्वम एतच चिकीर्षति मनः परति सुतीक्ष्णाग्रान अहं मॊक्ष्यामि सायकान ॥ 6 ॥
[मनस] नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 7 ॥
अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत ॥ 8 ॥
[अ] आघ्राय सुबहून गन्धांस तान एव परतिगृध्यति तस्माद घराणं परति शरान परतिमॊक्ष्याम्य अहं शितान ॥ 9 ॥
[घराण] नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 10 ॥
अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत ॥ 11 ॥
[अ] इयं सवादून रसान भुक्त्वा तान एव परतिगृध्यति तस्माज जिह्वां परति शरान परतिमॊक्ष्याम्य अहं शितान ॥ 12 ॥
[ज] नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 13 ॥
अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत ॥ 14 ॥
[अ] सृष्ट्वा तवग विविधान सपर्शांस तान एव परतिगृध्यति तस्मात तवचं पाटयिष्ये विविधैः कङ्कपत्रभिः ॥ 15 ॥
[तवच] नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 16 ॥
अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत ॥ 17 ॥
[अ] शरुत्वा वै विविधाञ शब्दांस तान एव परतिगृध्यति तस्माच छरॊत्रं परति शरान परतिमॊक्ष्याम्य अहं शितान ॥ 18 ॥
[षरॊत्र] नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन तवैव मर्म भेत्स्यन्ति ततॊ हास्यसि जीवितम ॥ 19 ॥
अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत ॥ 20 ॥
[अ] दृष्ट्वा वै विविधान भावांस तान एव परतिगृध्यति तस्माच चक्षुः परति शरान परतिमॊक्ष्याम्य अहं शितान ॥ 21 ॥
[च] नेमे बाणास तरिष्यन्ति मामालर्क कथं चन तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 22 ॥
अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यति तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत ॥ 23 ॥
[अ] इयं निष्ठा बहुविधा परज्ञया तव अध्यवस्यति तस्माद बुद्धिं परति शरान परतिमॊक्ष्याम्य अहं शितान ॥ 24 ॥
[चक्सुस] नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 25 ॥
[पितरह] ततॊ ऽलर्कस तपॊ घॊरम आस्थायाथ सुदुष्करम नाध्यगच्छत परं शक्त्या बाणम एतेषु सप्तसु सुसमाहित चित्तास तु ततॊ ऽचिन्तयत परभुः ॥ 26 ॥
स विचिन्त्य चिरं कालम अलर्कॊ दविजसत्तम नाध्यगच्छत परं शरेयॊ यॊगान मतिमतां वरः ॥ 27 ॥
स एकाग्रं मनः कृत्वा निश्चलॊ यॊगम आस्थितः इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान ॥ 28 ॥
यॊगेनात्मानम आविश्य संसिद्धिं परमां ययौ विस्मितश चापि राजर्षिर इमां गाथां जगाद ह अहॊ कष्टं यद अस्माभिः पूर्वं राज्यम अनुष्ठितम इति पश्चान मया जञातं यॊगान नास्ति परं सुखम ॥ 29 ॥
इति तवम अपि जानीहि राम मा कषत्रियाञ जहि तपॊ घॊरम उपातिष्ठ ततः शरेयॊ ऽभिपत्स्यसे ॥ 30 ॥
[बर] इत्य उक्तः स तपॊ घॊरं जामदग्न्यः पितामहैः आस्थितः सुमहाभागॊ ययौ सिद्धिं च दुर्गमाम ॥ 31 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 30
Reach this point to mark the section finished.
Continue to अध्याय 31