धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 28

  1. [बर] गन्धान न जिघ्रामि रसान न वेद्मि; रूपं न पश्यामि न च सपृशामि न चापि शब्दान विविधाञ शृणॊमि; न चापि संकल्पम उपैमि किं चित ॥ 1 ॥

  2. अर्थान इष्टान कामयते सवभावः; सर्वान दवेष्यान परद्विषते सवभावः कामद्वेषाव उद्भवतः सवभावात; पराणापानौ जन्तु देहान निवेश्य ॥ 2 ॥

  3. तेभ्यश चान्यांस तेष्व अनित्यांश च भावान; भूतात्मानं लक्षयेयं शरीरे तस्मिंस तिष्ठन नास्मि शक्यः कथं चित; कामक्रॊधाभ्यां जरया मृत्युना च ॥ 3 ॥

  4. अकामयानस्य च सर्वकामान; अविद्विषाणस्य च सर्वदॊषान न मे सवभावेषु भवन्ति लेपास; तॊयस्य बिन्दॊर इव पुष्करेषु ॥ 4 ॥

  5. नित्यस्य चैतस्य भवन्ति नित्या; निरीक्षमाणस्य बहून सवभावान न सज्जते कर्मसु भॊगजालं; दिवीव सूर्यस्य मयूखजालम ॥ 5 ॥

  6. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम अध्वर्यु यति संवादं तं निबॊध यशस्विनि ॥ 6 ॥

  7. परॊक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्य अथाब्रवीत यतिर अध्वर्युम आसीनॊ हिंसेयम इति कुत्सयन ॥ 7 ॥

  8. तम अध्वर्युः परत्युवाच नायं छागॊ विनश्यति शरेयसा यॊक्ष्यते जन्तुर यदि शरुतिर इयं तथा ॥ 8 ॥

  9. यॊ हय अस्य पार्थिवॊ भागः पृथिवीं स गमिष्यति यद अस्य वारिजं किं चिद अपस तत परतिपद्यते ॥ 9 ॥

  10. सूर्यं चक्षुर दिशः शरॊत्रे पराणॊ ऽसय दिवम एव च आगमे वर्तमानस्य न मे दॊषॊ ऽसति कश चन ॥ 10 ॥

  11. [यति] पराणैर वियॊगे छागस्य यदि शरेयः परपश्यसि छागार्थे वर्तते यज्ञॊ भवतः किं परयॊजनम ॥ 11 ॥

  12. अनु तवा मन्यतां माता पिता भराता सखापि च मन्त्रयस्वैनम उन्नीय परवन्तं विशेषतः ॥ 12 ॥

  13. य एवम अनुमन्येरंस तान भवान परष्टुम अर्हति तेषाम अनुमतं शरुत्वा शक्या कर्तुं विचारणा ॥ 13 ॥

  14. पराणा अप्य अस्य छागस्य परापितास ते सवयॊनिषु शरीरं केवलं शिष्टं निश्चेष्टम इति मे मतिः ॥ 14 ॥

  15. इन्धनस्य तु तुल्येन शरीरेण विचेतसा हिंसा निर्वेष्टु कामानाम इन्धनं पशुसंज्ञितम ॥ 15 ॥

  16. अहिंसा सर्वधर्माणाम इति वृद्धानुशासनम यद अहिंस्रं भवेत कर्म तत कार्यम इति विद्महे ॥ 16 ॥

  17. अहिंसेति परतिज्ञेयं यदि वक्ष्याम्य अतः परम शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम ॥ 17 ॥

  18. अहिंसा सर्वभूतानां नित्यम अस्मासु रॊचते परत्यक्षतः साधयामॊ न परॊक्षम उपास्महे ॥ 18 ॥

  19. [अ] भूमेर गन्धगुणान भुङ्क्ष्व पिबस्य आपॊमयान रसान जयॊतिषां पश्यसे रूपं सपृशस्य अनिलजान गुणान ॥ 19 ॥

  20. शृणॊष्य आकाशजं शब्दं मनसा मन्यसे मतिम सर्वाण्य एतानि भूतानि पराणा इति च मन्यसे ॥ 20 ॥

  21. पराणादाने च नित्यॊ ऽसि हिंसायां वर्तते भवान नास्ति चेष्टा विना हिंसां किं वा तवं मन्यसे दविज ॥ 21 ॥

  22. [य] अक्षरं च कषरं चैव दवैधी भावॊ ऽयम आत्मनः अक्षरं तत्र सद्भावः सवभावः कषर उच्यते ॥ 22 ॥

  23. पराणॊ जिह्वा मनः सत्त्वं सवभावॊ रजसा सह भावैर एतैर विमुक्तस्य निर्द्वंद्वस्य निराशिषः ॥ 23 ॥

  24. समस्य सर्वभूतेषु निर्ममस्य जितात्मनः समन्तात परिमुक्तस्य न भयं विद्यते कव चित ॥ 24 ॥

  25. [अ] सद्भिर एवेह संवासः कार्यॊ मतिमतां वर भवतॊ हि मतं शरुत्वा परतिभाति मतिर मम ॥ 25 ॥

  26. भगवन भगवद बुद्ध्या परतिबुद्धॊ बरवीम्य अहम मतं मन्तुं करतुं कर्तुं नापराधॊ ऽसति मे दविज ॥ 26 ॥

  27. [बर] उपपत्त्या यतिस तूष्णीं वर्तमानस ततः परम अध्वर्युर अपि निर्मॊहः परचचार महामखे ॥ 27 ॥

  28. एवम एतादृशं मॊक्षं सुसूक्ष्मं बराह्मणा विदुः विदित्वा चानुतिष्ठन्ति कषेत्रज्ञेनानुदर्शिना ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 29

Previous: अध्याय 27