धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 27

  1. [बर] संकल्पदंश मशकं शॊकहर्षहिमातपम मॊहान्ध कारतिमिरं लॊभव्याल सरीसृपम ॥ 1 ॥

  2. विषयैकात्ययाध्वानं कामक्रॊधविरॊधकम तद अतीत्य महादुर्गं परविष्टॊ ऽसमि महद वनम ॥ 2 ॥

  3. [बराह्मणी] कव तद वनं महाप्राज्ञ के वृक्षाः सरितश च काः गिरयः पर्वताश चैव कियत्य अध्वनि तद वनम ॥ 3 ॥

  4. न तद अस्ति पृथग्भावे किं चिद अन्यत ततः समम न तद अस्त्य अपृथग भावे किं चिद दूरतरं ततः ॥ 4 ॥

  5. तस्माद धरस्वतरं नास्ति न ततॊ ऽसति बृहत्तरम नास्ति तस्माद दुःखतरं नास्त्य अन्यत तत समं सुखम ॥ 5 ॥

  6. न तत परविश्य शॊचन्ति न परहृष्यन्ति च दविजाः न च बिभ्यति केषां चित तेभ्यॊ बिभ्यति के च न ॥ 6 ॥

  7. तस्मिन वने सप्त महाद्रुमाश च; फलानि सप्तातिथयश च सप्त सप्ताश्रमाः सप्त समाधयश च; दीक्षाश च सप्तैतद अरण्यरूपम ॥ 7 ॥

  8. पञ्च वर्णानि दिव्यानि पुष्पाणि च फलानि च सृजन्तः पादपास तत्र वयाप्य तिष्ठन्ति तद वनम ॥ 8 ॥

  9. सुवर्णानि दविवर्णानि पुष्पाणि च फलानि च सृजन्तः पादपास तत्र वयाप्य तिष्ठन्ति तद वनम ॥ 9 ॥

  10. चतुर्वर्णाणि दिव्यानि पुष्पाणि च फलानि च सृजन्तः पादपास तत्र वयाप्य तिष्ठन्ति तद वनम ॥ 10 ॥

  11. शंकराणित्रि वर्णानि पुष्पाणि च फलानि च सृजन्तः पादपास तत्र वयाप्य तिष्ठन्ति तद वनम ॥ 11 ॥

  12. सुरभीण्य एकवर्णानि पुष्पाणि च फलानिच सृजन्तः पादपास तत्र वयाप्य तिष्ठन्ति तद वनम ॥ 12 ॥

  13. बहून्य अव्यक्तवर्णानि पुष्पाणि च फलानिच विसृजन्तौ महावृक्षौ तद वनं वयाप्य तिष्ठतः ॥ 13 ॥

  14. एकॊ हय अग्निः सुमना बराह्मणॊ ऽतर; पञ्चेन्द्रियाणि समिधश चात्र सन्ति तेभ्यॊ मॊक्षाः सप्त भवन्ति दीक्षा; गुणाः फलान्य अतिथयः फलाशाः ॥ 14 ॥

  15. आतिथ्यं परतिगृह्णन्ति तत्र सप्तमहर्षयः अर्चितेषु परलीनेषु तेष्व अन्यद रॊचते वनम ॥ 15 ॥

  16. परतिज्ञा वृक्षम अफलं शान्तिच छाया समन्वितम जञानाश्रयं तृप्तितॊयम अन्तः कषेत्रज्ञभास्करम ॥ 16 ॥

  17. यॊ ऽधिगच्छन्ति तत सन्तस तेषां नास्ति भयं पुनः ऊर्ध्वं चावाक च तिर्यक च तस्य नान्तॊ ऽधिगम्यते ॥ 17 ॥

  18. सप्त सत्रियस तत्र वसन्ति सद्यॊ; अवाङ्मुखा भानुमत्यॊ जनित्र्यः ऊर्ध्वं रसानां ददते परजाभ्यः; सर्वान यथा सर्वम अनित्यतां च ॥ 18 ॥

  19. तत्रैव परतितिष्ठन्ति पुनस तत्रॊदयन्ति च सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह ॥ 19 ॥

  20. यशॊ वर्चॊ भगश चैव विजयः सिद्धितेजसी एवम एवानुवर्तन्ते सप्त जयॊतींषि भास्करम ॥ 20 ॥

  21. गिरयः पर्वताश चैव सन्ति तत्र समासतः नद्यश च सरितॊ वारिवहन्त्यॊ बरह्म संभवम ॥ 21 ॥

  22. नदीनां संगमस तत्र वैतानः समुपह्वरे सवात्म तृप्ता यतॊ यान्ति साक्षाद दान्ताः पितामहम ॥ 22 ॥

  23. कृशाशाः सुव्रताशाश च तपसा दग्धकिल्बिषाः आत्मन्य आत्मानम आवेश्य बरह्माणं समुपासते ॥ 23 ॥

  24. ऋचम अप्य अत्र शंसन्ति विद्यारण्यविदॊ जनाः तद अरण्यम अभिप्रेत्य यथा धीरम अजायत ॥ 24 ॥

  25. एतद एतादृशं दिव्यम अरण्यं बराह्मणा विदुः विदित्वा चान्वतिष्ठन्त कषेत्रज्ञेनानुदर्शितम ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 28

Previous: अध्याय 26