धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 26

  1. [बर] एकः शास्ता न दवितीयॊ ऽसति शास्ता; यथा नियुक्तॊ ऽसमि तथा चरामि हृद्य एष तिष्ठन पुरुषः शास्ति शास्ता; तेनैव युक्तः परवणाद इवॊदकम ॥ 1 ॥

  2. एकॊ गुरुर नास्ति ततॊ दवितीयॊ; यॊ हृच्छयस तम अहम अनुब्रवीमि तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव ॥ 2 ॥

  3. एकॊ बन्धुर नास्ति ततॊ दवितीयॊ; यॊ हृच्छयस तम अहम अनुब्रवीमि तेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि परभान्ति ॥ 3 ॥

  4. एकः शरॊता नास्ति ततॊ दवितीयॊ; यॊ हृच्छयस तम अहम अनुब्रवीमि तस्मिन गुरौ गुरु वासं निरुष्य; शक्रॊ गतः सर्वलॊकामरत्वम ॥ 4 ॥

  5. एकॊ दवेष्टा नास्ति ततॊ दवितीयॊ; यॊ हृच्छयस तम अहम अनुब्रवीमि तेनानुशिष्टा गुरुणा सदैव; लॊकद्विष्टाः पन्नगाः सर्व एव ॥ 5 ॥

  6. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम परजापतौ पन्नगानां देवर्षीणां च संविदम ॥ 6 ॥

  7. देवर्षयश च नागाश च असुराश च परजापतिम पर्यपृच्छन्न उपासीनाः शरेयॊ नः परॊच्यताम इति ॥ 7 ॥

  8. तेषां परॊवाच भगवाञ शरेयः समनुपृच्छताम ओम इत्य एकाक्षरं बरह्म ते शरुत्वा पराद्रवन दिशः ॥ 8 ॥

  9. तेषां पराद्रवमाणानाम उपदेशार्थम आत्मनः सर्पाणां दशने भावः परवृत्तः पूर्वम एव तु ॥ 9 ॥

  10. असुराणां परवृत्तस तु दम्भभावः सवभावजः दानं देवा वयवसिता दमम एव महर्षयः ॥ 10 ॥

  11. एकं शास्तारम आसाद्य शब्देनैकेन संस्कृताः नाना वयवसिताः सर्वे सर्पदेवर्षिदानवाः ॥ 11 ॥

  12. शृणॊत्य अयं परॊच्यमानं गृह्णाति च यथातथम पृच्छतस तावतॊ भूयॊ गुरुर अन्यॊ ऽनुमन्यते ॥ 12 ॥

  13. तस्य चानुमते कर्म ततः पश्चात परवर्तते गुरुर बॊद्धा च शत्रुश च दवेष्टा च हृदि संश्रितः ॥ 13 ॥

  14. पापेन विचरँल लॊके पापचारी भवत्य अयम शुभेन विचरँल लॊके शुभचारी भवत्य उत ॥ 14 ॥

  15. कामचारी तु कामेन य इन्द्रियसुखे रतः वरतवारी सदैवैष य इन्द्रियजये रतः ॥ 15 ॥

  16. अपेतव्रतकर्मा तु केवलं बरह्मणि शरितः बरह्मभूतश चरँल लॊके बरह्म चारी भवत्य अयम ॥ 16 ॥

  17. बरह्मैव समिधस तस्य बरह्माग्निर बरह्म संस्तरः आपॊ बरह्म गुरुर बरह्म स बरह्मणि समाहितः ॥ 17 ॥

  18. एतद एतादृशं सूक्ष्मं बरह्मचर्यं विदुर बुधाः विदित्वा चान्वपद्यन्त कषेत्रज्ञेनानुदर्शिनः ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 27

Previous: अध्याय 25