धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 25

  1. [बराह्मण] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम चातुर्हॊत्र विधानस्य विधानम इह यादृशम ॥ 1 ॥

  2. तस्य सर्वस्य विधिवद विधानम उपदेक्ष्यते शृणु मे गदतॊ भद्रे रहस्यम इदम उत्तमम ॥ 2 ॥

  3. करणं कर्म कर्ता च मॊक्ष इत्य एव भामिनि चत्वार एते हॊतारॊ यैर इदं जगद आवृतम ॥ 3 ॥

  4. हॊतॄणां साधनं चैव शृणु सर्वम अशेषतः घराणं जिह्वा च चक्षुश च तवक च शरॊत्रं च पञ्चमम मनॊ बुद्धिश च सप्तैते विज्ञेया गुणहेतवः ॥ 4 ॥

  5. गन्धॊ रसश च रूपं च शब्दः सपर्शश च पञ्चमः मन्तव्यम अथ बॊद्धव्यं सप्तैते कर्महेतवः ॥ 5 ॥

  6. घराता भक्षयिता दरष्टा सप्रष्टा शरॊता च पञ्चमः मन्ता बॊद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ॥ 6 ॥

  7. सवगुणं भक्षयन्त्य एते गुणवन्तः शुभाशुभम अहं च निर्गुणॊ ऽतरेति सप्तैते मॊक्षहेतवः ॥ 7 ॥

  8. विदुषां बुध्यमानानां सवं सवस्थानं यथाविधि गुणास ते देवता भूताः सततं भुञ्जते हविः ॥ 8 ॥

  9. अदन हय अविद्वान अन्नानि ममत्वेनॊपपद्यते आत्मार्थं पाचयन नित्यं ममत्वेनॊपहन्यते ॥ 9 ॥

  10. अभक्ष्य भक्षणं चैव मद्य पानं च हन्ति तम स चान्नं हन्ति तच चान्नं स हत्वा हन्यते बुधः ॥ 10 ॥

  11. अत्ता हय अन्नम इदं विद्वान पुनर जनयतीश्वरः स चान्नाज जायते तस्मिन सूक्ष्मॊ नाम वयतिक्रमः ॥ 11 ॥

  12. मनसा गम्यते यच च यच च वाचा निरुध्यते शरॊत्रेण शरूयते यच च चक्षुषा यच च दृश्यते ॥ 12 ॥

  13. सपर्शेन सपृश्यते यच च घराणेन घरायते च यत मनःषष्ठानि संयम्य हवींष्य एतानि सर्वशः ॥ 13 ॥

  14. गुणवत पावकॊ मह्यं दीप्यते हव्यवाहनः यॊगयज्ञः परवृत्तॊ मे जञानब्रह्म मनॊद्भवः पराणस्तॊत्रॊ ऽपान शस्त्रः सर्वत्यागसु दक्षिणः ॥ 14 ॥

  15. कर्मानुमन्ता बरह्मा मे कर्ताध्वर्युः कृतस्तुतिः कृतप्रशास्ता तच छास्त्रम अपवर्गॊ ऽसय दक्षिणा ॥ 15 ॥

  16. ऋचश चाप्य अत्र शंसन्ति नारायण विदॊ जनाः नारायणाय देवाय यद अबध्नन पशून पुरा ॥ 16 ॥

  17. तत्र सामानि गायन्ति तानि चाहुर निदर्शनम देवं नारायणं भीरु सर्वात्मानं निबॊध मे ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 26

Previous: अध्याय 24