[बराह्मण] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम नारदस्य च संवादम ऋषेर देवमतस्य च ॥ 1 ॥
[देवमत] जन्तॊः संजायमानस्य किं नु पूर्वं परवर्तते पराणॊ ऽपानः समानॊ वा वयानॊ वॊदान एव च ॥ 2 ॥
[नारद] येनायं सृज्यते जन्तुस ततॊ ऽनयः पूर्वम एति तम पराणद्वंद्वं च विज्ञेयं तिर्यगं चॊर्ध्वगं च यत ॥ 3 ॥
[द] केनायं सृज्यते जन्तुः कश चान्यः पूर्वम एति तम पराणद्वंद्वं च मे बरूहि तिर्यग ऊर्ध्वं च निश्चयात ॥ 4 ॥
[न] संकल्पाज जायते हर्षः शब्दाद अपि च जायते रसात संजायते चापि रूपाद अपि च जायते ॥ 5 ॥
सपर्शात संजायते चापि गन्धाद अपि च जायते एतद रूपम उदानस्य हर्षॊ मिथुन संभवः ॥ 6 ॥
कामात संजायते शुक्रं कामात संजायते रसः समानव्यान जनिते सामान्ये शुक्रशॊणिते ॥ 7 ॥
शुक्राच छॊणित संसृष्टात पूर्वं पराणः परवर्तते पराणेन विकृते शुक्रे ततॊ ऽपानः परवर्तते ॥ 8 ॥
पराणापानाव इदं दवंद्वम अवाक्चॊर्ध्वं च गच्छतः वयानः समानश चैवॊभौ तिर्यग दवंद्वत्वम उच्यते ॥ 9 ॥
अग्निर वै देवताः सर्वा इति वेदस्य शासनम संजायते बराह्मणेषु जञानं बुद्धिसमन्वितम ॥ 10 ॥
तस्य धूमस तमॊ रूपं रजॊ भस्म सुरेतसः सत्त्वं संजायते तस्य यत्र परक्षिप्यते हविः ॥ 11 ॥
आघारौ समानॊ वयानश चेति यज्ञविदॊ विदुः पराणापानाव आज्यभागौ तयॊर मध्ये हुताशनः एतद रूपम उदानस्य परमं बराह्मणा विदुः ॥ 12 ॥
निर्द्वंद्वम इति यत तव एतत तन मे निगदतः शृणु ॥ 13 ॥
अहॊरात्रम इदं दवंद्वं तयॊर मध्ये हुताशनः एतद रूपम उदानस्य परमं बराह्मणा विदुः ॥ 14 ॥
उभे चैवायने दवंद्वं तयॊर मध्ये हुताशनः एतद रूपम उदानस्य परमं बराह्मणा विदुः ॥ 15 ॥
उभे सत्यानृते दवंद्वं तयॊर मध्ये हुताशनः एतद रूपम उदानस्य परमं बराह्मणा विदुः ॥ 16 ॥
उभे शुभाशुभे दवंद्वं तयॊर मध्ये हुताशनः एतद रूपम उदानस्य परमं बराह्मणा विदुः ॥ 17 ॥
सच चासच चैव तद दवंद्वं तयॊर मध्ये हुताशनः एतद रूपम उदानस्य परमं बराह्मणा विदुः ॥ 18 ॥
परथमं समानॊ वयानॊ वयस्यते कर्म तेन तत तृतीयं तु समानेन पुनर एव वयवस्यते ॥ 19 ॥
शान्त्य अर्थं वामदेवं च शान्तिर बरह्म सनातनम एतद रूपम उदानस्य परमं बराह्मणा विदुः ॥ 20 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 24
Reach this point to mark the section finished.
Continue to अध्याय 25