धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 20

  1. [वा] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम दम्पत्यॊः पार्थ संवादम अभयं नाम नामतः ॥ 1 ॥

  2. बराह्मणी बराह्मणं कं चिज जञानविज्ञानपारगम दृष्ट्वा विविक्त आसीनं भार्या भर्तारम अब्रवीत ॥ 2 ॥

  3. कं नु लॊकं गमिष्यामि तवाम अहं पतिम आश्रिता नयस्तकर्माणम आसीनं कीनाशम अविचक्षणम ॥ 3 ॥

  4. भार्याः पतिकृताँल लॊकान आप्नुवन्तीति नः शरुतम तवाम अहं पतिम आसाद्य कां गमिष्यामि वै गतिम ॥ 4 ॥

  5. एवम उक्तः स शान्तात्मा ताम उवाच हसन्न इव सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ॥ 5 ॥

  6. गराह्यं दृश्यं च शराव्यं च यद इदं कर्म विद्यते एतद एव वयवस्यन्ति कर्म कर्मेति कर्मिणः ॥ 6 ॥

  7. मॊहम एव नियच्छन्ति कर्मणा जञानवर्जिताः नैष्कर्म्यं न च लॊके ऽसमिन मौर्तम इत्य उपलभ्यते ॥ 7 ॥

  8. कर्मणा मनसा वाचा शुभं वा यदि वाशुभम जन्मादि मूर्ति भेदानां कर्म भूतेषु वर्तते ॥ 8 ॥

  9. रक्षॊभिर वध्यमानेषु दृश्यद्रव्येषु कर्मसु आत्मस्थम आत्मना तेन दृष्टम आयतनं मया ॥ 9 ॥

  10. यत्र तद बरह्म निर्द्वंद्वं यत्र सॊमः सहाग्निना वयवायं कुरुते नित्यं धीरॊ भूतानि धारयन ॥ 10 ॥

  11. यत्र बरह्मादयॊ युक्तास तद अक्षरम उपासते विद्वांसः सुव्रता यत्र शान्तात्मानॊ जितेन्द्रियाः ॥ 11 ॥

  12. घराणेन न तद आघ्रेयं न तद आद्यम च जिह्वया सपर्शेन च न तत सपृश्यं मनसा तव एव गम्यते ॥ 12 ॥

  13. चक्षुषा न विषह्यं च यत किं चिच छरवणात परम अगन्धम अरस सपर्शम अरूपाशब्दम अव्ययम ॥ 13 ॥

  14. यतः परवर्तते तन्त्रं यत्र च परतितिष्ठति पराणॊ ऽपानः समानश च वयानश चॊदान एव च ॥ 14 ॥

  15. तत एव परवर्तन्ते तम एव परविशन्ति च समानव्यानयॊर मध्ये पराणापानौ विचेरतुः ॥ 15 ॥

  16. तस्मिन सुप्ते परलीयेते समानॊ वयान एव च अपान पराणयॊर मध्ये उदानॊ वयाप्य तिष्ठति तस्माच छयानं पुरुषं पराणापानौ न मुञ्चतः ॥ 16 ॥

  17. पराणान आयम्यते येन तद उदानं परचक्षते तस्मात तपॊ वयवस्यन्ति तद भवं बरह्मवादिनः ॥ 17 ॥

  18. तेषाम अन्यॊन्यभक्षाणां सर्वेषां देव चारिणाम अग्निर वैश्वानरॊ मध्ये सप्तधा विहितॊ ऽनतरा ॥ 18 ॥

  19. घराणं जिह्वा च चक्षुश च तवक च शरॊत्रं च पञ्चमम मनॊ बुद्धिश च सप्तैता जिह्वा वैश्वानरार्चिषः ॥ 19 ॥

  20. घरेयं पेयं च दृश्यं च सपृश्यं शरव्यं तथैव च मन्तव्यम अथ बॊद्धव्यं ताः सप्त समिधॊ मम ॥ 20 ॥

  21. घराता भक्षयिता दरष्टा सप्रष्टा शरॊता च पञ्चमः मन्ता बॊद्धा च सप्तैते भवन्ति परमर्त्विजः ॥ 21 ॥

  22. घरेये पेये च देश्ये च सपृश्ये शरव्ये तथैव च हवींष्य अग्निषु हॊतारः सप्तधा सप्त सप्तसु सम्यक परक्षिप्य विद्वांसॊ जनयन्ति सवयॊनिषु ॥ 22 ॥

  23. पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम मनॊ बुद्धिश च सप्तैत यॊनिर इत्य एव शब्दिताः ॥ 23 ॥

  24. हविर भूता गुणाः सर्वे परविशन्त्य अग्निजं मुखम अन्तर वासम उषित्वा च जायन्ते सवासु यॊनिषु तत्रैव च निरुध्यन्ते परलये भूतभावने ॥ 24 ॥

  25. ततः संजायते गन्धस ततः संजायते रसः ततः संजायते रूपं ततः सपर्शॊ ऽभिजायते ॥ 25 ॥

  26. ततः संजायते शब्दः संशयस तत्र जायते ततः संजायते निष्ठा जन्मैतत सप्तधा विदुः ॥ 26 ॥

  27. अनेनैव परकारेण परगृहीतं पुरातनैः पूर्णाहुतिभिर आपूर्णास ते ऽभिपूर्यन्ति तेजसा ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 21

Previous: अध्याय 19