धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 19

  1. [बर] यः सयाद एकायने लीनस तूष्णीं किं चिद अचिन्तयन पूर्वं पूर्वं परित्यज्य स निरारम्भकॊ भवेत ॥ 1 ॥

  2. सर्वमित्रः सर्वसहः समरक्तॊ जितेन्द्रियः वयपेतभयमन्युश च कामहा मुच्यते नरः ॥ 2 ॥

  3. आत्मवत सर्वभूतेषु यश चरेन नियतः शुचिः अमानी निरभीमानः सर्वतॊ मुक्त एव सः ॥ 3 ॥

  4. जीवितं मरणं चॊभे सुखदुःखे तथैव च लाभालाभे परिय दवेष्ये यः समः स च मुच्यते ॥ 4 ॥

  5. न कस्य चित सपृहयते नावजानाति किं चन निर्द्वंद्वॊ वीतरागात्मा सर्वतॊ मुक्त एव सः ॥ 5 ॥

  6. अनमित्रॊ ऽथ निर्बन्धुर अनपत्यश च यः कव चित तयक्तधर्मार्थकामश च निराकाङ्क्षी स मुच्यते ॥ 6 ॥

  7. नैव धर्मी न चाधर्मी पूर्वॊपचितहा च यः धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते ॥ 7 ॥

  8. अकर्मा चाविकाङ्क्षश च पश्यञ जगद अशाश्वतम अस्वस्थम अवशं नित्यं जन्म संसारमॊहितम ॥ 8 ॥

  9. वैराग्य बुद्धिः सततं तापदॊषव्यपेक्षकः आत्मबन्धविनिर्मॊक्षं स करॊत्य अचिराद इव ॥ 9 ॥

  10. अगन्ध रसम अस्पर्शम अशब्दम अपरिग्रहम अरूपम अनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥ 10 ॥

  11. पञ्च भूतगुणैर हीनम अमूर्ति मदलेपकम अगुणं गुणभॊक्तारं यः पश्यति स मुच्यते ॥ 11 ॥

  12. विहाय सर्वसंकल्पान बुद्ध्या शारीर मानसान शनैर निर्वाणम आप्नॊति निरिन्धन इवानलः ॥ 12 ॥

  13. विमुक्तः सर्वसंस्कारैस ततॊ बरह्म सनातनम परम आप्नॊति संशान्तम अचलं दिव्यम अक्षरम ॥ 13 ॥

  14. अतः परं परवक्ष्यामि यॊगशास्त्रम अनुत्तमम यज जञात्वा सिद्धम आत्मानं लॊके पश्यन्ति यॊगिनः ॥ 14 ॥

  15. तस्यॊपदेशं पश्यामि यथावत तन निबॊध मे यैर दवारैश चारयन नित्यं पश्यत्य आत्मानम आत्मनि ॥ 15 ॥

  16. इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत तीव्रं तप्त्वा तपः पूर्वं ततॊ यॊक्तुम उपक्रमेत ॥ 16 ॥

  17. तपस्वी तयक्तसंकल्पॊ दम्भाहंकारवर्जितः मनीषी मनसा विप्रः पश्यत्य आत्मानम आत्मनि ॥ 17 ॥

  18. स चेच छक्नॊत्य अयं साधुर यॊक्तुम आत्मानम आत्मनि तत एकान्तशीलः स पश्यत्य आत्मानम आत्मनि ॥ 18 ॥

  19. संयतः सततं युक्त आत्मवान विजितेन्द्रियः तथायम आत्मनात्मानं साधु युक्तः परपश्यति ॥ 19 ॥

  20. यथा हि पुरुषः सवप्ने दृष्ट्वा पश्यत्य असाव इति तथारूपम इवात्मानं साधु युक्तः परपश्यति ॥ 20 ॥

  21. इषीकां वा यथा मुञ्जात कश चिन निर्हृत्य दर्शयेत यॊगी निष्कृष्टम आत्मानं यथा संपश्यते तनौ ॥ 21 ॥

  22. मुञ्जं शरीरं तस्याहुर इषीकाम आत्मनि शरिताम एतन निदर्शनं परॊक्तं यॊगविद्भिर अनुत्तमम ॥ 22 ॥

  23. यदा हि युक्तम आत्मानं सम्यक पश्यति देहभृत तदास्य नेशते कश चित तरैलॊक्यस्यापि यः परभुः ॥ 23 ॥

  24. अन्यॊन्याश चैव तनवॊ यथेष्टं परतिपद्यते विनिवृत्य जरामृत्यू न हृष्यति न शॊचति ॥ 24 ॥

  25. देवानाम अपि देवत्वं युक्तः कारयते वशी बरह्म चाव्ययम आप्नॊति हित्वा देहम अशाश्वतम ॥ 25 ॥

  26. विनश्यत्ष्व अपि लॊकेषु न भयं तस्य जायते कलिश्यमानेषु भूतेषु न स कलिश्यति केन चित ॥ 26 ॥

  27. दुःखशॊकमयैर घॊरैः सङ्गस्नेह समुद्भवैः न विचाल्येत युक्तात्मा निस्पृहः शान्तमानसः ॥ 27 ॥

  28. नैनं शस्त्राणि विध्यन्ते न मृत्युश चास्य विद्यते नातः सुखतरं किं चिल लॊके कव चन विद्यते ॥ 28 ॥

  29. सम्यग युक्त्वा यदात्मानम आत्मय एव परपश्यति तदैव न सपृहयते साक्षाद अपि शतक्रतॊः ॥ 29 ॥

  30. निर्वेदस तु न गन्तव्यॊ युञ्जानेन कथं चन यॊगम एकान्तशीलस तु यथा युञ्जीत तच छृणु ॥ 30 ॥

  31. दृष्टपूर्वा दिशं चिन्त्य यस्मिन संनिवसेत पुरे पुरस्याभ्यन्तरे तस्य मनश चायं न बाह्यतः ॥ 31 ॥

  32. पुरस्याभ्यन्तरे तिष्ठन यस्मिन्न आवसथे वसेत तस्मिन्न आवसथे धार्यं स बाह्याभ्यन्तरं मनः ॥ 32 ॥

  33. परचिन्त्यावसथं कृत्स्नं यस्मिन काये ऽवतिष्ठते तस्मिन काये मनश चार्यं न कथं चन बाह्यतः ॥ 33 ॥

  34. संनियम्येन्द्रियग्रामं निर्घॊषे निर्जने वने कायम अभ्यन्तरं कृत्स्नम एकाग्रः परिचिन्तयेत ॥ 34 ॥

  35. दन्तांस तालु च जिह्वां च गलं गरीवां तथैव च हृदयं चिन्तयेच चापि तथा हृदयबन्धनम ॥ 35 ॥

  36. इत्य उक्तः स मया शिष्यॊ मेधावी मधुसूदन पप्रच्छ पुनर एवेमं मॊक्षधर्मं सुदुर्वचम ॥ 36 ॥

  37. भुक्तं भुक्तं कथम इदम अन्नं कॊष्ठे विपच्यते कथं रसत्वं वरजति शॊणितं जायते कथम तथा मांसं च मेदश च सनाय्व अस्थीनि च पॊषति ॥ 37 ॥

  38. कथम एतानि सर्वाणि शरीराणि शरीरिणाम वर्धन्ते वर्धमानस्य वर्धते च कथं बलम निरॊजसां निष्क्रमणं मलानां च पृथक पृथक ॥ 38 ॥

  39. कुतॊ वायं परश्वसिति उच्छ्वसित्य अपि वा पुनः कं च देशम अधिष्ठाय तिष्ठत्य आत्मायम आत्मनि ॥ 39 ॥

  40. जीवः कायं वहति चेच चेष्टयानः कलेवरम किं वर्णं कीदृशं चैव निवेशयति वै मनः याथातथ्येन भगवन वक्तुम अर्हसि मे ऽनघ ॥ 40 ॥

  41. इति संपरिपृष्टॊ ऽहं तेन विप्रेण माधव परत्यब्रुवं महाबाहॊ यथा शरुतम अरिंदम ॥ 41 ॥

  42. यथा सवकॊष्ठे परक्षिप्य कॊष्ठं भाण्ड मना भवेत तथा सवकाये परक्षिप्य मनॊ दवारैर अनिश्चलैः आत्मानं तत्र मार्गेत परमादं परिवर्जयेत ॥ 42 ॥

  43. एवं सततम उद्युक्तः परीतात्मा नचिराद इव आसादयति तद बरह्म यद दृष्ट्वा सयात परधानवित ॥ 43 ॥

  44. न तव असौ चक्षुषा गराह्यॊ न च सर्वैर अपीन्द्रियैः मनसैव परदीपेन महान आत्मनि दृश्यते ॥ 44 ॥

  45. सर्वतः पाणिपादं तं सर्वतॊ ऽकषिशिरॊमुखम जीवॊ निष्क्रान्तम आत्मानं शरीरात संप्रपश्यति ॥ 45 ॥

  46. स तद उत्सृज्य देहं सवं धारयन बरह्म केवलम आत्मानम आलॊकयति मनसा परहसन्न इव ॥ 46 ॥

  47. इदं सर्वरहस्यं ते मयॊक्तं दविजसत्तम आपृच्छे साधयिष्यामि गच्छ शिष्ययथासुखम ॥ 47 ॥

  48. इत्य उक्तः स तदा कृष्ण मया शिष्यॊ महातपाः अगच्छत यथाकामं बराह्मणश छिन्नसंशयः ॥ 48 ॥

  49. [वा] इत्य उक्त्वा स तदा वाक्यं मां पार्थ दविजपुंगवः मॊक्षधर्माश्रितः सम्यक तत्रैवान्तरधीयत ॥ 49 ॥

  50. कच चिद एतत तवया पार्थ शरुतम एकाग्रचेतसा तदापि हि रथस्थस तवं शरुतवान एतद एव हि ॥ 50 ॥

  51. नैतत पार्थ सुविज्ञेयं वयामिश्रेणेति मे मतिः नरेणाकृत संज्ञेन विदग्धेनाकृतात्मना ॥ 51 ॥

  52. सुरहस्यम इदं परॊक्तं देवानां भरतर्षभ कच चिन नेदं शरुतं पार्थ मर्त्येनान्येन केन चित ॥ 52 ॥

  53. न हय एतच छरॊतुम अर्हॊ ऽनयॊ मनुष्यस तवाम ऋते ऽनघ नैतद अद्य सुविज्ञेयं वयामिश्रेणान्तर आत्मना ॥ 53 ॥

  54. करियावद्भिर हि कौन्तेय देवलॊकः समावृतः न चैतद इष्टं देवानां मर्त्यै रूपनिवर्तनम ॥ 54 ॥

  55. परा हि सा गतिः पार्थ यत तद बरह्म सनातनम यत्रामृतत्वं पराप्नॊति तयक्त्वा दुःखं सदा सुखी ॥ 55 ॥

  56. एवं हि धर्मम आस्थाय यॊ ऽपि सयुः पापयॊनयः सत्रियॊ वैश्यास तथा शूद्रास ते ऽपि यान्ति परां गतिम ॥ 56 ॥

  57. किं पुनर बराह्मणाः पार्थ कषत्रिया वा बहुश्रुताः सवधर्मरतयॊ नित्यं बरह्मलॊकपरायणाः ॥ 57 ॥

  58. हेतुमच चैतद उद्दिष्टम उपायाश चास्य साधने सिद्धेः फलं च मॊक्षश च दुःखस्य च विनिर्णयः अतः परं सुखं तव अन्यत किं नु सयाद भरतर्षभ ॥ 58 ॥

  59. शरुतवाञ शरद्दधानश च पराक्रान्तश च पाण्डव यः परित्यजते मर्त्यॊ लॊकतन्त्रम असारवत एतैर उपायैः स कषिप्रं परां गतिम अवाप्नुयात ॥ 59 ॥

  60. एतावद एव वक्तव्यं नातॊ भूयॊ ऽसति किं चन षण मासान नित्ययुक्तस्य यॊगः पार्थ परवर्तते ॥ 60 ॥

Reach this point to mark the section finished.

Continue to अध्याय 20

Previous: अध्याय 18