धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 1

  1. [व] कृतॊदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः पुरस्कृत्य महाबाहुर उत्तताराकुलेन्द्रियः ॥ 1 ॥

  2. उत्तीर्य च महीपालॊ बाष्पव्याकुललॊचनः पपात तीरे गङ्गाया वयाधविद्ध इव दविपः ॥ 2 ॥

  3. तं सीदमानं जग्राह भीमः कृष्णेन चॊदितः मैवम इत्य अब्रवीच चैनं कृष्णः परबलार्दनः ॥ 3 ॥

  4. तम आर्तं पतितं भूमौ निश्वसन्तं पुनः पुनः ददृशुः पाण्डवा राजन धर्मात्मानं युधिष्ठिरम ॥ 4 ॥

  5. तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम भूयः शॊकसमाविष्टाः पाण्डवाः समुपाविशन ॥ 5 ॥

  6. राजा च धृतराष्ट्रस तम उपासीनॊ महाभुजः वाक्यम आह महाप्राज्ञॊ महाशॊकप्रपीडितम ॥ 6 ॥

  7. उत्तिष्ठ कुरुशार्दूल कुरु कार्यम अनन्तरम कषत्रधर्मेण कौरव्य जितेयम अवनिस तवया ॥ 7 ॥

  8. तां भुङ्क्ष्व भरातृभिः सार्धं सुहृद्भिश च जनेश्वर न शॊचितव्यं पश्यामि तवया धर्मभृतां वर ॥ 8 ॥

  9. शॊचितव्यं मया चैव गान्धार्या च विशां पते पुत्रैर विहीनॊ राज्येन सवप्नलब्धधनॊ यथा ॥ 9 ॥

  10. अश्रुत्वा हितकामस्य विदुरस्य महात्मनः वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः ॥ 10 ॥

  11. उक्तवान एष मां पूर्वं धर्मात्मा दिव्यदर्शनः दुर्यॊधनापराधेन कुलं ते विनशिष्यति ॥ 11 ॥

  12. सवस्ति चेद इच्छसे राजन कुलस्यात्मन एव च वध्यताम एष दुष्टात्मा मन्दॊ राजसुयॊधनः ॥ 12 ॥

  13. कर्णश च शकुनिश चैव मैनं पश्यतु कर्हि चित दयूतसंपातम अप्य एषाम अप्रमत्तॊ निवारय ॥ 13 ॥

  14. अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम स पालयिष्यति वशीधर्मेण पृथिवीम इमाम ॥ 14 ॥

  15. अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम मेढी भूतः सवयं राज्यं परतिगृह्णीष्व पार्थिव ॥ 15 ॥

  16. समं सर्वेषु भूतेषु वर्तमानं नराधिप अनुजीवन्तु सर्वे तवां जञातयॊ जञातिवर्धन ॥ 16 ॥

  17. एवं बरुवति कौन्तेय विदुरे दीर्घदर्शिनि दुर्यॊधनम अहं पापम अन्ववर्तं वृथा मतिः ॥ 17 ॥

  18. अश्रुत्वा हय अस्य वीरस्य वाक्यानि मधुराण्य अहम फलं पराप्य महद दुःखं निमग्नः शॊकसागरे ॥ 18 ॥

  19. वृद्धौ हि ते सवः पितरौ पश्यावां दुःखितौ नृप न शॊचितव्यं भवता पश्यामीह जनाधिप ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 2

Previous: अध्याय 154