धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 18

  1. [बर] शुभानाम अशुभानां च नेह नाशॊ ऽसति कर्मणाम पराप्य पराप्य तु पच्यन्ते कषेत्रं कषेत्रं तथा तथा ॥ 1 ॥

  2. यथा परसूयमानस तु फली दद्यात फलं बहु तथा सयाद विपुलं पुण्यं शुद्धेन मनसा कृतम ॥ 2 ॥

  3. पापं चापि तथैव सयात पापेन मनसा कृतम पुरॊधाय मनॊ हीह कर्मण्य आत्मा परवर्तते ॥ 3 ॥

  4. यथा कत्म समादिष्टं काममन्युसमावृतः नरॊ गर्भं परविशति तच चापि शृणु चॊत्तरम ॥ 4 ॥

  5. शुक्रं शॊणितसंसृष्टं सत्रिया गर्भाशयं गतम कषेत्रं कर्मजम आप्नॊति शुभं वा यदि वाशुभम ॥ 5 ॥

  6. सौक्ष्म्याद अव्यक्तभावाच च न स कव चन सज्जते संप्राप्य बरह्मणः कायं तस्मात तद बरह्म शाश्वतम तद बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥ 6 ॥

  7. स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः दधाति चेतसा सद्यः पराणस्थानेष्व अवस्थितः ततः सपन्दयते ऽङगानि स गर्भश चेतनान्वितः ॥ 7 ॥

  8. यथा हि लॊहनिष्यन्दॊ निषिक्तॊ बिम्बविग्रहम उपैति तद्वज जानीहि गर्भे जीव परवेशनम ॥ 8 ॥

  9. लॊहपिण्डं यथा वह्निः परविशत्य अभितापयन तथा तवम अपि जानीहि गर्भे जीवॊपपादनम ॥ 9 ॥

  10. यथा च दीपः शरणं दीप्यमानः परकाशयेत एवम एव शरीराणि परकाशयति चेतना ॥ 10 ॥

  11. यद यच च कुरुते कर्म शुभं वा यदि वाशुभम पूर्वदेहकृतं सर्वम अवश्यम उपभुज्यते ॥ 11 ॥

  12. ततस तत कषीयते चैव पुनश चान्यत परचीयते यावत तन मॊक्षयॊगस्थं धर्मं नैवावबुध्यते ॥ 12 ॥

  13. तत्र धर्मं परवक्ष्यामि सुखी भवति येन वै आवर्तमानॊ जातीषु तथान्यॊन्यासु सत्तम ॥ 13 ॥

  14. दानं वरतं बरह्मचर्यं यथॊक्तव्रतधारणम दमः परशान्तता चैव भूतानां चानुकम्पनम ॥ 14 ॥

  15. संयमश चानृशंस्यं च परस्वादान वर्जनम वयलीकानाम अकरणं भूतानां यत्र सा भुवि ॥ 15 ॥

  16. मातापित्रॊश च शुश्रूषा देवतातिथिपूजनम गुरु पूजा घृणा शौचं नित्यम इन्द्रियसंयमः ॥ 16 ॥

  17. परवर्तनं शुभानां च तत सतां वृत्तम उच्यते ततॊ धर्मः परभवति यः परजाः पाति शाश्वतीः ॥ 17 ॥

  18. एवं सत्सु सदा पश्येत तत्र हय एषा धरुवा सथितिः आचारॊ धर्मम आचष्टे यस्मिन सन्तॊ वयवस्थिताः ॥ 18 ॥

  19. तेषु तद धर्मनिक्षिप्तं यः स धर्मः सनातनः यस तं समभिपद्येत न स दुर्गतिम आप्नुयात ॥ 19 ॥

  20. अतॊ नियम्यते लॊकः परमुह्य धर्मवर्त्मसु यस तु यॊगी च मुक्तश च स एतेभ्यॊ विशिष्यते ॥ 20 ॥

  21. वर्तमानस्य धर्मेण पुरुषस्य यथातथा संसारतारणं हय अस्य कालेन महता भवेत ॥ 21 ॥

  22. एवं पूर्वकृतं कर्म सर्वॊ जन्तुर निषेवते सर्वं तत कारणं येन निकृतॊ ऽयम इहागतः ॥ 22 ॥

  23. शरीरग्रहणं चास्य केन पूर्वं परकल्पितम इत्य एवं संशयॊ लॊके तच च वक्ष्याम्य अतः परम ॥ 23 ॥

  24. शरीरम आत्मनः कृत्वा सर्वभूतपितामहः तरैलॊक्यम असृजद बरह्मा कृत्स्नं सथावरजङ्गमम ॥ 24 ॥

  25. ततः परधानम असृजच चेतना सा शरीरिणाम यया सर्वम इदं वयाप्तं यां लॊके परमां विदुः ॥ 25 ॥

  26. इह तत कषरम इत्य उक्तं परं तव अमृतम अक्षरम तरयाणां मिथुनं सर्वम एकैकस्य पृथक पृथक ॥ 26 ॥

  27. असृजत सर्वभूतानि पूर्वसृष्टः परजापतिः सथावराणि च भूतानि इत्य एषा पौर्विकी शरुतिः ॥ 27 ॥

  28. तस्य कालपरीमाणम अकरॊत स पितामहः भूतेषु परिवृत्तिं च पुनर आवृत्तिम एव च ॥ 28 ॥

  29. यथात्र कश चिन मेधावी दृष्टात्मा पूर्वजन्मनि यत परवक्ष्यामि तत सर्वं यथावद उपपद्यते ॥ 29 ॥

  30. सुखदुःखे सदा सम्यग अनित्ये यः परपश्यति कायं चामेध्य संघातं विनाशं कर्म संहितम ॥ 30 ॥

  31. यच च किं चित सुखं तच च सर्वं दुःखम इति समरन संसारसागरं घॊरं तरिष्यति सुदुस्तरम ॥ 31 ॥

  32. जाती मरणरॊगैश च समाविष्टः परधानवित चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥ 32 ॥

  33. निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम तस्यॊपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥ 33 ॥

  34. शाश्वतस्याव्ययस्याथ पदस्य जञानम उत्तमम परॊच्यमानं मया विप्र निबॊधेदम अशेषतः ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 19

Previous: अध्याय 17