धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 17

  1. [वा] ततस तस्यॊपसंगृह्य पादौ परश्नान सुदुर्वचान पप्रच्छ तांश च सर्वान स पराह धर्मभृतां वरः ॥ 1 ॥

  2. [काष्यप] कथं शरीरं चयवते कथं चैवॊपपद्यते कथं कष्टाच च संसारात संसरन परिमुच्यते ॥ 2 ॥

  3. आत्मानं वा कथं युक्त्वा तच छरीरं विमुञ्चति शरीरतश च निर्मुक्तः कथम अन्यत परपद्यते ॥ 3 ॥

  4. कथं शुभाशुभे चायं कर्मणी सवकृते नरः उपभुङ्क्ते कव वा कर्म विदेहस्यॊपतिष्ठति ॥ 4 ॥

  5. [बर] एवं संचॊदितः सिद्धः परश्नांस तान परत्यभाषत आनुपूर्व्येण वार्ष्णेय यथा तन मे वचः शृणु ॥ 5 ॥

  6. [सिद्ध] आयुः कीर्तिकराणीह यानि कर्माणि सेवते शरीरग्रहणे ऽनयस्मिंस तेषु कषीणेषु सर्वशः ॥ 6 ॥

  7. आयुः कषयपरीतात्मा विपरीतानि सेवते बुद्धिर वयावर्तते चास्य विनाशे परत्युपस्थिते ॥ 7 ॥

  8. सत्त्वं बलं च कालं चाप्य अविदित्वात्मनस तथा अतिवेलम उपाश्नाति तैर विरुद्धान्य अनात्मवान ॥ 8 ॥

  9. यदायम अतिकष्टानि सर्वाण्य उपनिषेवते अत्यर्थम अपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन ॥ 9 ॥

  10. दुष्टान्नं विषमान्नं च सॊ ऽनयॊन्येन विरॊधि च गुरु वापि समं भुङ्क्ते नातिजीर्णे ऽपि वा पुनः ॥ 10 ॥

  11. वयायामम अतिमात्रं वा वयवायं चॊपसेवते सततं कर्म लॊभाद वा पराप्तं वेगविधारणम ॥ 11 ॥

  12. रसातियुक्तम अन्नं वा दिवा सवप्नं निषेवते अपक्वानागते काले सवयं दॊषान परकॊपयन ॥ 12 ॥

  13. सवदॊषकॊपनाद रॊगं लभते मरणान्तिकम अथ चॊद्बन्धनादीनि परीतानि वयवस्यति ॥ 13 ॥

  14. तस्य तैः कारणैर जन्तॊः शरीराच चयवते यथा जीवितं परॊच्यमानं तद यथावद उपधारय ॥ 14 ॥

  15. ऊष्मा परकुपितः काये तीव्रवायुसमीरितः शरीरम अनुपर्येति सर्वान पराणान रुणद्धि वै ॥ 15 ॥

  16. अत्यर्थं बलवान ऊष्मा शरीरे परिकॊपितः भिनत्ति जीव सथानानि तानि मर्माणि विद्धि च ॥ 16 ॥

  17. ततः स वेदनः सद्यॊ जीवः परच्यवते कषरन शरीरं तयजते जन्तुश छिद्यमानेषु मर्मसु वेदनाभिः परीतात्मा तद विद्धि दविजसत्तम ॥ 17 ॥

  18. जातीमरणसंविग्नाः सततं सर्वजन्तवः दृश्यन्ते संत्यजन्तश च शरीराणि दविजर्षभ ॥ 18 ॥

  19. गर्भसंक्रमणे चापि मर्मणाम अतिसर्पणे तादृशीम एव लभते वेदनां मानवः पुनः ॥ 19 ॥

  20. भिन्नसंधिर अथ कलेदम अद्भिः स लभते नरः यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति शैत्यात परकुपितः काये तीव्रवायुसमीरितः ॥ 20 ॥

  21. यः स पञ्चसु भूतेषु पराणापाने वयवस्थितः स गच्छत्य ऊर्ध्वगॊ वायुः कृच्छ्रान मुक्त्वा शरीरिणम ॥ 21 ॥

  22. शरीरं च जहात्य एव निरुच्छ्वासश च दृश्यते निरूष्मा स निरुच्छ्वासॊ निःश्रीकॊ गतचेतनः ॥ 22 ॥

  23. बरह्मणा संपरित्यक्तॊ मृत इत्य उच्यते नरः सरॊतॊभिर यैर विजानाति इन्द्रियार्थाञ शरीरभृत तैर एव न विजानाति पराणम आहारसंभवम ॥ 23 ॥

  24. तत्रैव कुरुते काये यः स जीवः सनातनः तेषां यद यद भवेद युक्तं संनिपाते कव चित कव चित तत तन मर्म विजानीहि शास्त्रदृष्टं हि तत तथा ॥ 24 ॥

  25. तेषु मर्मसु भिन्नेषु ततः स समुदीरयन आविश्य हृदयं जन्तॊः सत्त्वं चाशु रुणद्धि वै ततः स चेतनॊ जन्तुर नाभिजानाति किं चन ॥ 25 ॥

  26. तमसा संवृतज्ञानः संवृतेष्व अथ मर्मसु स जीवॊ निरधिष्ठानश चाव्यते मातरिश्वना ॥ 26 ॥

  27. ततः स तं महॊच्छ्वासं भृशम उच्छ्वस्य दारुणम निष्क्रामन कम्पयत्य आशु तच छरीरम अचेतनम ॥ 27 ॥

  28. स जीवः परच्युतः कायात कर्मभिः सवैः समावृतः अङ्कितः सवैः शुभैः पुण्यैः पापैर वाप्य उपपद्यते ॥ 28 ॥

  29. बराह्मणा जञानसंपन्ना यथावच छरुत निश्चयाः इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥ 29 ॥

  30. यथान्ध कारे खद्यॊतं लीयमानं ततस ततः चक्षुष्मन्तः परपश्यन्ति तथा तं जञानचक्षुषः ॥ 30 ॥

  31. पश्यन्त्य एवंविधाः सिद्धा जीवं दिव्येन चक्षुषा चयवन्तं जायमानं च यॊनिं चानुप्रवेशितम ॥ 31 ॥

  32. तस्य सथानानि दृष्टानि तरिविधानीह शास्त्रतः कर्मभूमिर इयं भूमिर यत्र तिष्ठन्ति जन्तवः ॥ 32 ॥

  33. ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः इहैवॊच्चावचान भॊगान पराप्नुवन्ति सवकर्मभिः ॥ 33 ॥

  34. इहैवाशुभ कर्मा तु कर्मभिर निरयं गतः अवाक्स निरये पापॊ मानवः पच्यते भृशम तस्मात सुदुर्लभॊ मॊक्ष आत्मा रक्ष्यॊ भृशं ततः ॥ 34 ॥

  35. ऊर्ध्वं तु जन्तवॊ गत्वा येषु सथानेष्व अवस्थिताः कीर्त्यमानानि तानीह तत्त्वतः संनिबॊध मे तच छरुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात ॥ 35 ॥

  36. तारा रूपाणि सर्वाणि यच चैतच चन्द्रमण्डलम यच च विभ्राजते लॊके सवभासा सूर्यमण्डलम सथानान्य एतानि जानीहि नराणां पुण्यकर्मणाम ॥ 36 ॥

  37. कर्म कषयाच च ते सर्वे चयवन्ते वै पुनः पुनः तत्रापि च विशेषॊ ऽसति दिवि नीचॊच्चमध्यमः ॥ 37 ॥

  38. न तत्राप्य अस्ति संतॊषॊ दृष्ट्वा दीप्ततरां शरियम इत्य एता गतयः सर्वाः पृथक्त्वे समुदीरिताः ॥ 38 ॥

  39. उपपत्तिं तु गर्भस्य वक्ष्याम्य अहम अतः परम यथावत तां निगदतः शृणुष्वावहितॊ दविज ॥ 39 ॥

Reach this point to mark the section finished.

Continue to अध्याय 18

Previous: अध्याय 16