[ज] सभायां वसतॊस तस्यां निहत्यारीन महात्मनॊः केशवार्जुनयॊः का नु कथा समभवद दविज ॥ 1 ॥
[व] कृष्णेन सहितः पार्थः सवराज्यं पराप्य केवलम तस्यां सभायां रम्यायां विजहार मुदा युतः ॥ 2 ॥
ततः कं चित सभॊद्देशं सवर्गॊद्देश समं नृप यदृच्छया तौ मुदितौ जग्मतुः सवजनावृतौ ॥ 3 ॥
ततः परतीतः कृष्णेन सहितः पाण्डवॊ ऽरजुनः निरीक्ष्य तां सभां रम्याम इदं वचनम अब्रवीत ॥ 4 ॥
विदितं ते महाबाहॊ संग्रामे समुपस्थिते माहात्म्यं देवकी मातस तच च ते रूपम ऐश्वरम ॥ 5 ॥
यत तु तद भवता परॊक्तं तदा केशव सौहृदात तत सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ॥ 6 ॥
मम कौतूहलं तव अस्ति तेष्व अर्थेषु पुनः परभॊ भवांश च दवारकां गन्ता नचिराद इव माधव ॥ 7 ॥
एवम उक्तस ततः कृष्णः फल्गुनं परत्यभाषत परिष्वज्य महातेजा वचनं वदतां वरः ॥ 8 ॥
शरावितस तवं मया गुह्यं जञापितश च सनातनम धर्मं सवरूपिणं पार्थ सर्वलॊकांश च शाश्वतान ॥ 9 ॥
अबुद्ध्वा यन न गृह्णीथास तन मे सुमहद अप्रियम नूनम अश्रद्दधानॊ ऽसि दुर्मेधाश चासि पाण्डव ॥ 10 ॥
स हि धर्मः सुपर्याप्तॊ बरह्मणः पदवेदने न शक्यं तन मया भूयस तथा वक्तुम अशेषतः ॥ 11 ॥
परं हि बरह्म कथितं यॊगयुक्तेन तन मया इतिहासं तु वक्ष्यामि तस्मिन्न अर्थे पुरातनम ॥ 12 ॥
यथा तां बुद्धिम आस्थाय गतिम अग्र्यां गमिष्यसि शृणु धर्मभृतां शरेष्ठ गदतः सर्वम एव मे ॥ 13 ॥
आगच्छद बराह्मणः कश चित सवर्गलॊकाद अरिंदम बरह्मलॊकाच च दुर्धर्षः सॊ ऽसमाभिः पूजितॊ ऽभवत ॥ 14 ॥
अस्माभिः परिपृष्टश च यद आह भरतर्षभ दिव्येन विधिना पार्थ तच छृणुष्वाविचारयन ॥ 15 ॥
[बर] मॊक्षधर्मं समाश्रित्य कृष्ण यन मानुपृच्छसि भूतानाम अनुकम्पार्थं यन मॊहच छेदनं परभॊ ॥ 16 ॥
तत ते ऽहं संप्रवक्ष्यामि यथावन मधुसूदन शृणुष्वावहितॊ भूत्वा गदतॊ मम माधव ॥ 17 ॥
कश चिद विप्रस तपॊ युक्तः काश्यपॊ धर्मवित्तमः आससाद दविजं कं चिद धर्माणाम आगतागमम ॥ 18 ॥
गतागते सुबहुशॊ जञानविज्ञानपारगम लॊकतत्त्वार्थ कुशलं जञातारं सुखदुःखयॊः ॥ 19 ॥
जाती मरणतत्त्वज्ञं कॊविदं पुण्यपापयॊः दरष्टारम उच्चनीचानां कर्मभिर देहिनां गतिम ॥ 20 ॥
चरन्तं मुक्तवत सिद्धं परशान्तं संयतेन्द्रियम दीप्यमानं शरिया बराह्म्या करममाणं च सर्वशः ॥ 21 ॥
अन्तर्धानगतिज्ञं च शरुत्वा तत्त्वेन काश्यपः तथैवान्तर्हितैः सिद्धैर यान्तं चक्रधरैः सह ॥ 22 ॥
संभाषमाणम एकान्ते समासीनं च तैः सह यदृच्छया च गच्छन्तम असक्तं पवनं यथा ॥ 23 ॥
तं समासाद्य मेधावी स तदा दविजसत्तमः चरणौ धर्मकामॊ वै तपस्वी सुसमाहितः परतिपेदे यथान्यायं भक्त्या परमया युतः ॥ 24 ॥
विस्मितश चाद्भुतं दृष्ट्वा काश्यपस तं दविजॊत्तमम परिचारेण महता गुरुं वैद्यम अतॊषयत ॥ 25 ॥
परीतात्मा चॊपपन्नश च शरुतचारित्य संयुतः भावेन तॊषयच चैनं गुरुवृत्त्या परंतपः ॥ 26 ॥
तस्मै तुष्टः स शिष्याय परसन्नॊ ऽथाब्रवीद गुरुः सिद्धिं पराम अभिप्रेक्ष्य शृणु तन मे जनार्दन ॥ 27 ॥
विविधैः कर्मभिस तात पुण्ययॊगैश च केवलैः गच्छन्तीह गतिं मर्त्या देवलॊके ऽपि च सथितिम ॥ 28 ॥
न कव चित सुखम अत्यन्तं न कव चिच छाश्वती सथितिः सथानाच च महतॊ भरंशॊ दुःखलब्धात पुनः पुनः ॥ 29 ॥
अशुभा गतयः पराप्ताः कष्टा मे पापसेवनात काममन्युपरीतेन तृष्णया मॊहितेन च ॥ 30 ॥
पुनः पुनश च मरणं जन्म चैव पुनः पुनः आहारा विविधा भुक्ताः पीता नानाविधाः सतनाः ॥ 31 ॥
मातरॊ विविधा दृष्टाः पितरश च पृथग्विधाः सुखानि च विचित्राणि दुःखानि च मयानघ ॥ 32 ॥
परियैर विवासॊ बहुशः संवासश चाप्रियैः सह धननाशश च संप्राप्तॊ लब्ध्वा दुःखेन तद धनम ॥ 33 ॥
अवमानाः सुकष्टाश च परतः सवजनात तथा शारीरा मानसाश चापि वेदना भृशदारुणाः ॥ 34 ॥
पराप्ता विमाननाश चॊग्रा वधबन्धाश च दारुणाः पतनं निरये चैव यातनाश च यमक्षये ॥ 35 ॥
जरा रॊगाश च सततं वासनानि च भूरिशः लॊके ऽसमिन्न अनुभूतानि दवंद्वजानि भृशं मया ॥ 36 ॥
ततः कदा चिन निर्वेदान निकारान निकृतेन च लॊकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ततः सिद्धिर इयं पराप्ता परसादाद आत्मनॊ मया ॥ 37 ॥
नाहं पुनर इहागन्ता लॊकान आलॊकयाम्य अहम आ सिद्धेर आ परजा सर्गाद आत्मनॊ मे गतिः शुभा ॥ 38 ॥
उपलब्धा दविजश्रेष्ठ तथेयं सिद्धिर उत्तमा इतः परं गमिष्यामि ततः परतरं पुनः बरह्मणः पदम अव्यग्रं मा ते ऽभूद अत्र संशयः ॥ 39 ॥
नाहं पुनर इहागन्ता मर्त्यलॊके परंतप परीतॊ ऽसमि ते महाप्राज्ञ बरूहि किं करवाणि ते ॥ 40 ॥
यदीप्सुर उपपन्नस तवं तस्य कालॊ ऽयम आगतः अभिजाने च तद अहं यदर्थं मा तवम आगतः अचिरात तु गमिष्यामि येनाहं तवाम अचूचुदम ॥ 41 ॥
भृशं परीतॊ ऽसमि भवतश चारित्रेण विचक्षण परिपृच्छ यावद भवते भाषेयं यत तवेप्सितम ॥ 42 ॥
बहु मन्ये च ते बुद्धिं भृशं संपूजयामि च येनाहं भवता बुद्धॊ मेधावी हय असि काश्यप ॥ 43 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 16
Reach this point to mark the section finished.
Continue to अध्याय 17