[ज] विजिते पाण्डवेयैस तु परशान्ते च दविजॊत्तम राष्ट्रे किं चक्रतुर वीरौ वासुदेवधनंजयौ ॥ 1 ॥
[व] विजिते पाण्डवेयैस तु परशान्ते च विशां पते राष्ट्रे बभूवतुर हृष्टौ वासुदेवधनंजयौ ॥ 2 ॥
विजह्राते मुदा युक्तौ दिवि देवेश्वराव इव तौ वनेषु विचित्रेषु पर्वतानां च सानुषु ॥ 3 ॥
शैलेषु रमणीयेषु पल्वलेषु नदीषु च चङ्क्रम्यमाणौ संहृष्टाव अश्विनाव इव नन्दने ॥ 4 ॥
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्ण पाण्डवौ परविश्य तां सभां रम्यां विजह्राते च भारत ॥ 5 ॥
तत्र युद्धकथाश चित्राः परिक्लेशांश च पार्थिव कथा यॊगे कथा यॊगे कथयाम आसतुस तदा ॥ 6 ॥
ऋषीणां देवतानां च वंशांस ताव आहतुस तदा परीयमाणौ महात्मानौ पुराणाव ऋषिसत्तमौ ॥ 7 ॥
मधुरास तु कथाश चित्राश चित्रार्थ पदनिश्चयाः निश्चयज्ञः स पार्थाय कथयाम आस केशवः ॥ 8 ॥
पुत्रशॊकाभिसंतप्तं जञातीनां च सहस्रशः कथाभिः शमयाम आस पार्थं शौरिर जनार्दनः ॥ 9 ॥
स तम आश्वास्य विधिवद विधानज्ञॊ महातपाः अपहृत्यात्मनॊ भारं विशश्रामेव सात्वतः ॥ 10 ॥
ततः कथान्ते गॊविन्दॊ गुडाकेशम उवाच ह सान्त्वयञ शलक्ष्णया वाचा हेतुयुक्तम इदं वचः ॥ 11 ॥
विजितेयं धरा कृत्स्ना सव्यसाचिन परंतप तवद बाहुबलम आश्रित्य राज्ञा धर्मसुतेन ह ॥ 12 ॥
असपत्नां महीं भुङ्क्ते धर्मराजॊ युधिष्ठिरः भीमसेनप्रभावेन यमयॊश च नरॊत्तम ॥ 13 ॥
धर्मेण राज्ञा धर्मज्ञ पराप्तं राज्यम अकण्टकम धर्मेण निहतः संख्ये स च राजा सुयॊधनः ॥ 14 ॥
अधर्मरुचयॊ लुब्धाः सदा चाप्रिय वादिनः धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ॥ 15 ॥
परशान्ताम अखिलां पार्थ पृथिवीं पृथिवीपतिः भुङ्क्ते धर्मसुतॊ राजा तवया गुप्तः कुरूद्वह ॥ 16 ॥
रमे चाहं तवया सार्धम अरण्येष्व अपि पाण्डव किम उ यत्र जनॊ ऽयं वै पृथा चामित्रकर्शन ॥ 17 ॥
यत्र धर्मसुतॊ राजा यत्र भीमॊ महाबलः यत्र माद्रवती पुत्रौ रतिस तत्र परा मम ॥ 18 ॥
तथैव सवर्गकल्पेषु सभॊद्देशेषु भारत रमणीयेषु पुण्येषु सहितस्य तवयानघ ॥ 19 ॥
कालॊ महांस तव अतीतॊ मे शूर पुत्रम अपश्यतः बलदेवं च कौरव्य तथान्यान वृष्णिपुंगवान ॥ 20 ॥
सॊ ऽहं गन्तुम अभीप्सामि पुरीं दवारवतीं परति रॊचतां गमनं मह्यं तवापि पुरुषर्षभ ॥ 21 ॥
उक्तॊ बहुविधं राजा तत्र तत्र युधिष्ठिरः स ह भीष्मेण यद्य उक्तम अस्माभिः शॊककारिते ॥ 22 ॥
शिष्टॊ युधिष्ठिरॊ ऽसमाभिः शास्ता सन्न अपि पाण्डवः तेन तच च वचः सम्यग गृहीतं सुमहात्मना ॥ 23 ॥
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि सत्यं धर्मॊ मतिश चाग्र्या सथितिश च सततं सथिरा ॥ 24 ॥
तद्गत्वा तं महात्मानं यदि ते रॊचते ऽरजुन अस्मद गमनसंयुक्तं वचॊ बरूहि जनाधिपम ॥ 25 ॥
न हि तस्याप्रियं कुर्यां पराणत्यागे ऽपय उपस्थिते कुतॊ गन्तुं महाबाहॊ पुरीं दवारवतीं परति ॥ 26 ॥
सर्वं तव इदम अहं पार्थ तवत परीतिहितकाम्यया बरवीमि सत्यं कौरव्य न मिथ्यैतत कथं चन ॥ 27 ॥
परयॊजनं च निर्वृत्तम इह वासे ममार्जुन धार्तराष्ट्रॊ हतॊ राजा सबलः सपदानुगः ॥ 28 ॥
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः सथिता समुद्रवसना स शैलवनकानना चिता रत्नैर बहुविधैः कुरुराजस्य पाण्डव ॥ 29 ॥
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम उपास्यमानॊ बहुभिः सिद्धैश चापि महात्मभिः सतूयमानश च सततं बन्दिभिर भरतर्षभ ॥ 30 ॥
तन मया सह गत्वाद्य राजानं कुरुवर्धनम आपृच्छ कुरुशार्दूल गमनं दवारकां परति ॥ 31 ॥
इदं शरीरं वसु यच च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे परियश च मान्यश च हि मे युधिष्ठिरः; सदा कुरूणाम अधिपॊ महामतिः ॥ 32 ॥
परयॊजनं चापि निवासकारणे; न विद्यते मे तवदृते महाभुज सथिता हि पृथ्वी तव पार्थ शासने; गुरॊः सुवृत्तस्य युधिष्ठिरस्य ह ॥ 33 ॥
इतीदम उक्तं स तदा महात्मना; जनार्दनेनामित विक्रमॊ ऽरजुनः तथेति कृच्छ्राद इव वाचम ईरयञ; जनार्धनं संप्रतिपूज्य पार्थिव ॥ 34 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 15
Reach this point to mark the section finished.
Continue to अध्याय 16