धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 14

  1. [व] एवं बहुविधैर वाक्यैर मुनिभिस तैस तपॊधनैः समाश्वस्यत राजर्षिर हतबन्धुर युधिष्ठिरः ॥ 1 ॥

  2. सॊ ऽनुनीतॊ भगवता विष्टर शरवसा सवयम दवैपायनेन कृष्णेन देवस्थानेन चाभिभूः ॥ 2 ॥

  3. नारदेनाथ भीमेन नकुलेन च पार्थिवः कृष्णया सहदेवेन विजयेन च धीमता ॥ 3 ॥

  4. अन्यैश च पुरुषव्याघ्रैर बराह्मणैः शास्त्रदृष्टिभिः वयजहाच छॊकजं दुःखं संतापं चैव मानसम ॥ 4 ॥

  5. अर्चयाम आस देवांश च बराह्मणांश च युधिष्ठिर कृत्वाथ परेतकार्याणि बन्धूनां स पुनर नृपः अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम ॥ 5 ॥

  6. परशान्तचेताः कौरव्यः सवराज्यं पराप्य केवलम वयासं च नारदं चैव तांश चान्यान अब्रवीन नृपः ॥ 6 ॥

  7. आश्वासितॊ ऽहं पराग वृद्धैर भवद्भिर मुनिपुङ्गवैः न सूक्ष्मम अपि मे किं चिद वयलीकम इह विद्यते ॥ 7 ॥

  8. अर्थश च सुमहान पराप्तॊ येन यक्ष्यामि देवताः पुरस्कृत्येह भवतः समानेष्यामहे मखम ॥ 8 ॥

  9. हिमवन्तं तवया गुप्ता गमिष्यामः पितामह बह्वाश्चर्यॊ हि देशः स शरूयते दविजसत्तम ॥ 9 ॥

  10. तथा भगवता चित्रं कल्याणं बहुभाषितम देवर्षिणा नारदेन देवस्थानेन चैव ह ॥ 10 ॥

  11. नाभागधेयः पुरुषः कश चिद एवंविधान गुरून लभते वयसनं पराप्य सुहृदः साधु संमतान ॥ 11 ॥

  12. एवम उक्तास तु ते राज्ञा सर्व एव महर्षयः अभ्यनुज्ञाप्य राजानं तथॊभौ कृष्ण फल्गुनौ पश्यताम एव सर्वेषां तत्रैवादर्शनं ययुः ॥ 12 ॥

  13. ततॊ धर्मसुतॊ राजा तत्रैवॊपाविशत परभुः एवं नातिमहान कालः स तेषाम अभ्यवर्तत ॥ 13 ॥

  14. कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा महादानानि विप्रेभ्यॊ ददताम और्ध्वदैहिकम ॥ 14 ॥

  15. भीष्म कर्ण पुरॊगाणां कुरूणां कुरुनन्दन सहितॊ धृतराष्ट्रेण परददाव और्ध्वदैहिकम ॥ 15 ॥

  16. ततॊ दत्त्वा बहुधनं विप्रेभ्यः पाण्डवर्षभः धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम ॥ 16 ॥

  17. स समाश्वास्य पितरं परज्ञा चक्षुषम ईश्वरम अन्वशाद वै स धर्मात्मा पृथिवीं भरातृभिः सह ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 15

Previous: अध्याय 13