[वा] न बाह्यं दरव्यम उत्सृज्य सिद्धिर भवति भारत शारीरं दरव्यम उत्सृज्य सिद्धिर भवति वा न वा ॥ 1 ॥
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः यॊ धर्मॊ यत सुखं चैव दविषताम अस्तु तत तथा ॥ 2 ॥
दव्यक्षरस तु भवेन मृत्युस तर्यक्षरं बरह्म शाश्वतम ममेति दव्यक्षरॊ मृत्युर न ममेति च शाश्वतम ॥ 3 ॥
बरह्म मृत्युश च तौ राजन्न आत्मन्य एव वयवस्थितौ अदृश्यमानौ भूतानि यॊधयेताम असंशयम ॥ 4 ॥
अविनाशॊ ऽसय सत्त्वस्य नियतॊ यदि भारत भित्त्वा शरीरं भूतानाम अहिंसा परतिपद्यते ॥ 5 ॥
लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम ममत्वं यस्य नैव सयात किं तया स करिष्यति ॥ 6 ॥
अथ वा वसतः पार्थ वने वन्येन जीवतः ममता यस्य दरव्येषु मृत्यॊर आस्ये स वर्तते ॥ 7 ॥
बाह्यान्तराणां शत्रूणां सवभावं पश्य भारत यन न पश्यति तद भूतं मुच्यते स महाभयात ॥ 8 ॥
कामात्मानं न परशंसन्ति लॊके; न चाकामात का चिद अस्ति परवृत्तिः दानं हि वेदाध्ययनं तपश च; कामेन कर्माणि च वैदिकानि ॥ 9 ॥
वरतं यज्ञान नियमान धयानयॊगान; कामेन यॊ नारभते विदित्वा यद यद धययं कामयते स धर्मॊ; न यॊ धर्मॊ नियमस तस्य मूलम ॥ 10 ॥
अत्र गाथाः कामगीताः कीर्तयन्ति पुरा विदः शृणु संकीर्त्यमानास ता निखिलेन युधिष्ठिर ॥ 11 ॥
नाहं शक्यॊ ऽनुपायेन हन्तुं भूतेन केन चित यॊ मां परयतते हन्तुं जञात्वा परहरणे बलम तस्य तस्मिन परहरणे पुनः परादुर्भवाम्य अहम ॥ 12 ॥
यॊ मां परयतते हन्तुं यज्ञैर विविधदक्षिणैः जङ्गमेष्व इव कर्मात्मा पुनः परादुर्भवाम्य अहम ॥ 13 ॥
यॊ मां परयतते हन्तुं वेदैर वेदान्तसाधनैः सथावरेष्व इव शान्तात्मा तस्य परादुर्भवाम्य अहम ॥ 14 ॥
यॊ मां परयतते हन्तुं धृत्या सत्यपराक्रमः भावॊ भवामि तस्याहं स च मां नावबुध्यते ॥ 15 ॥
यॊ मां परयतते हन्तुं तपसा संशितव्रतः ततस तपसि तस्याथ पुनः परादुर्भवाम्य अहम ॥ 16 ॥
यॊ मां परयतते हन्तुं मॊक्षम आस्थाय पण्डितः तस्य मॊक्षरतिस्थस्य नृत्यामि च हसामि च अवध्यः सर्वभूतानाम अहम एकः सनातनः ॥ 17 ॥
तस्मात तवम अपि तं कामं यज्ञैर विविधदक्षिणैः धर्मं कुरु महाराज तत्र ते स भविष्यति ॥ 18 ॥
यजस्व वाजिमेधेन विधिवद दक्षिणावता अन्यैश च विविधैर यज्ञैः समृद्धैर आप्तदक्षिणैः ॥ 19 ॥
मा ते वयथास्तु निहतान बन्धून वीक्ष्य पुनः पुनः न शक्यास ते पुनर दरष्टुं ये हतास्मिन रणाजिरे ॥ 20 ॥
स तवम इष्ट्वा महायज्ञैः समृद्धैर आप्तदक्षिणैः लॊके कीर्तिं परां पराप्य गतिम अग्र्यां गमिष्यसि ॥ 21 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 13
Reach this point to mark the section finished.
Continue to अध्याय 14