धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 12

  1. [वा] दविविधॊ जायते वयाधिः शारीरॊ मानसस तथा परस्परं तयॊर जन्म निर्द्वंद्वं नॊपलभ्यते ॥ 1 ॥

  2. शरीरे जायते वयाथिः शारीरॊ नात्र संशयः मानसॊ जायते वयाधिर मनस्य एवेति निश्चयः ॥ 2 ॥

  3. शीतॊष्णे चैव वायुश च गुणा राजञ शरीरजाः तेषां गुणानां साम्यं चेत तद आहुः सवस्थलक्षणम उष्णेन बाध्यते शीतं शीतेनॊष्णं च बाध्यते ॥ 3 ॥

  4. सत्त्वं रजस तमश चेति तरयस तव आत्मगुणाः समृताः तेषां गुणानां साम्यं चेत तद आहुः सवस्थलक्षणम तेषाम अन्यतमॊत्सेके विधानम उपदिश्यते ॥ 4 ॥

  5. हर्षेण बाध्यते शॊकॊ हर्षः शॊकेन बाध्यते कश चिद दुःखे वर्तमानः सुखस्य समर्तुम इच्छति कश चित सुखे वर्तमानॊ दुःखस्य समर्तुम इच्छति ॥ 5 ॥

  6. स तवं न दुःखी दुःखस्य न सुखी सुसुखस्य वा समर्तुम इच्छसि कौन्तेय दिष्टं हि बलवत्तरम ॥ 6 ॥

  7. अथ वा ते सवभावॊ ऽयं येन पार्थावकृष्यसे दृष्ट्वा सभा गतां कृष्णाम एकवस्त्रां रजस्वलाम मिषतां पाण्डवेयानां न तत संस्मर्तुम इच्छसि ॥ 7 ॥

  8. परव्राजनं च नगराद अजिनैश च विवासनम महारण्यनिवासश च न तस्य समर्तुम इच्छसि ॥ 8 ॥

  9. जटासुरात परिक्लेशश चित्रसेनेन चाहवः सैन्धवाच च परिक्लेशॊ न तस्य समर्तुम इच्छसि ॥ 9 ॥

  10. पुनर अज्ञातचर्यायां कीचकेन पदा वधः याज्ञसेन्यास तदा पार्थ न तस्य समर्तुम इच्छसि ॥ 10 ॥

  11. यच च ते दरॊण भीष्माभ्यां युद्धम आसीद अरिंदम मनसैकेन यॊद्धव्यं तत ते युद्धम उपस्थितम तस्माद अभ्युपगन्तव्यं युद्धाय भरतर्षभ ॥ 11 ॥

  12. परम अव्यक्तरूपस्य परं मुक्त्वा सवकर्मभिः यत्र नैव शरैः कार्यं न भृत्यैर न च बन्धुभिः आत्मनैकेन यॊद्धव्यं तत ते युद्धम उपस्थितम ॥ 12 ॥

  13. तस्मिन्न अनिर्जिते युद्धे काम अवस्थां गमिष्यसि एतज जञात्वा तु कौन्तेय कृतकृत्यॊ भविष्यसि ॥ 13 ॥

  14. एतां बुद्धिं विनिश्चित्य भूतानाम आगतिं गतिम पितृपैतामहे वृत्ते शाधि राज्यं यथॊचितम ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 13

Previous: अध्याय 11