धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 11

  1. [व] इत्य उक्ते नृपतौ तस्मिन वयासेनाद्भुत कर्मणा वासुदेवॊ महातेजास ततॊ वचनम आददे ॥ 1 ॥

  2. तं नृपं दीनमनसं निहतज्ञातिबान्धवम उपप्लुतम इवादित्यं स धूमम इव पावकम ॥ 2 ॥

  3. निर्विण्ण मनसं पार्थं जञात्वा वृष्णिकुलॊद्वहः आश्वासयन धर्मसुतं परवक्तुम उपचक्रमे ॥ 3 ॥

  4. [वा] सर्वं जिह्मं मृत्युपदम आर्जवं बरह्मणः पदम एतावाञ जञानविषयः किं परलापः करिष्यति ॥ 4 ॥

  5. नैव ते निष्ठितं कर्म नैव ते शत्रवॊ जिताः कथं शत्रुं शरीरस्थम आत्मानं नावबुध्यसे ॥ 5 ॥

  6. अत्र ते वर्तयिष्यामि यथा धर्मं यथा शरुतम इन्द्रस्य सह वृत्रेण यथा युद्धम अवर्तत ॥ 6 ॥

  7. वृत्रेण पृथिवी वयाप्ता पुरा किल नराधिप दृष्ट्वा स पृथिवीं वयाप्तां गन्धस्य विषये हृते धरा हरणदुर्गन्धॊ विषयः समपद्यत ॥ 7 ॥

  8. शतक्रतुश चुकॊपाथ गन्धस्य विषये हृते वृत्रस्य स ततः करुद्धॊ वज्रं घॊरम अवासृजत ॥ 8 ॥

  9. स वध्यमानॊ वज्रेण पृथिव्यां भूरि तेजसा विवेश सहसैवापॊ जग्राह विषयं ततः ॥ 9 ॥

  10. वयाप्तास्व अथासु वृत्रेण रसे च विषये हृते शतक्रतुर अभिक्रुद्धस तासु वज्रम अवासृजत ॥ 10 ॥

  11. स वध्यमानॊ वज्रेण सलिले भूरि तेजसा विवेश सहसा जयॊतिर जग्राह विषयं ततः ॥ 11 ॥

  12. वयाप्ते जयॊतिषि वृत्रेण रूपे ऽथ विषये हृते शतक्रतुर अभिक्रुद्धस तत्र वज्रम अवासृजत ॥ 12 ॥

  13. स वध्यमानॊ वज्रेण सुभृशं भूरि तेजसा विवेश सहसा वायुं जग्राह विषयं ततः ॥ 13 ॥

  14. वयाप्ते वायौ तु वृत्रेण सपर्शे ऽथ विषये हृते शतक्रतुर अभिक्रुद्धस तत्र वज्रम अवासृजत ॥ 14 ॥

  15. स वध्यमानॊ वज्रेण तस्मिन्न अमिततेजसा आकाशम अभिदुद्राव जग्राह विषयं ततः ॥ 15 ॥

  16. आकाशे वृत्र भूते च शब्दे च विषये हृते शतक्रतुर अभिक्रुद्धस तत्र वज्रम अवासृजत ॥ 16 ॥

  17. स वध्यमानॊ वज्रेण तस्मिन्न अमिततेजसा विवेश सहसा शक्रं जग्राह विषयं ततः ॥ 17 ॥

  18. तस्य वृत्र गृहीतस्य मॊहः समभवन महान रथंतरेण तं तात वसिष्ठः परत्यबॊधयत ॥ 18 ॥

  19. ततॊ वृत्रं शरीरस्थं जघान भरतर्षभ शतक्रतुर अदृश्येन वज्रेणेतीह नः शरुतम ॥ 19 ॥

  20. इदं धर्मरहस्यं च शक्रेणॊक्तं महर्षिषु ऋषिभिश च मम परॊक्तं तन निबॊध नराधिप ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 12

Previous: अध्याय 10