[व] एवम उक्त्वा कुरून सर्वान भीष्मः शांतनवस तदा तूष्णीं बभूव कौरव्यः स मुहूर्तम अरिंदम ॥ 1 ॥
धारयाम आस चात्मानं धारणासु यथाक्रमम तस्यॊर्ध्वम अगमन पराणाः संनिरुद्धा महात्मनः ॥ 2 ॥
इदम आश्चर्यम आसीच च मध्ये तेषां महात्मनाम यद यन मुञ्चति गात्राणां स शंतनु सुतस तदा तत तद विशल्यं भवति यॊगयुक्तस्य तस्य वै ॥ 3 ॥
कषणेन परेक्षतां तेषां विशल्यः सॊ ऽभवत तदा तं दृष्ट्वा विस्मिताः सर्वे वासुदेव पुरॊगमाः सह तैर मुनिभिः सर्वैस तदा वयासाधिभिर नृप ॥ 4 ॥
संनिरुद्धस तु तेनात्मा सर्वेष्व आयतनेषु वै जगाम भित्त्वा मूर्धानं दिवम अभ्युत्पपात च ॥ 5 ॥
महॊल्केन च भीष्मस्य मूर्ध देशाज जनाधिप निःसृत्याकाशम आविश्य कषणेनान्तर अधीयत ॥ 6 ॥
एवं स नृपशार्दूल नृपः शांतनवस तदा समयुज्यत लॊकैः सवैर भरतानां कुलॊद्वहः ॥ 7 ॥
ततस तव आदाय दारूणि गन्धांश च विविधान बहून चितां चक्रुर महात्मानः पाण्डवा विदुरस तथा युयुत्सुश चापि कौरव्यः परेक्षकास तव इतरे ऽभवन ॥ 8 ॥
युधिष्ठिरस तु गाङ्गेयं विदुरश च महामतिः छादयाम आसतुर उभौ कषौमैर माल्यैश च कौरवम ॥ 9 ॥
धारयाम आस तस्याथ युयुत्सुश छत्रम उत्तमम चामरव्यजने शुभ्रे भीमसेनार्जुनाव उभौ उष्णीषे पर्यगृह्णीतां माद्रीपुत्राव उभौ तदा ॥ 10 ॥
सत्रियः कौरव नाथस्य भीष्मं कुरु कुलॊद्भवम तालवृन्तान्य उपादाय पर्यवीजन समन्ततः ॥ 11 ॥
ततॊ ऽसय विधिवच चक्रुः पितृमेधं महात्मनः याजका जुहुवुश चाग्निं जगुः सामानि सामगाः ॥ 12 ॥
ततश चन्दनकाष्ठैश च तथा कालेयकैर अपि कालागरुप्रभृतिभिर गन्धैश चॊच्चावचैस तथा ॥ 13 ॥
समवच्छाद्य गाङ्गेयं परज्वाल्य च हुताशनम अपसव्यम अकुर्वन्त धृतराष्ट्र मुखा नृपाः ॥ 14 ॥
संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः जग्मुर भागीरथी तीरम ऋषिजुष्टं कुरूद्वहाः ॥ 15 ॥
अनुगम्यमाना वयासेन नारदेनासितेन च कृष्णेन भरत सत्रीभिर ये च पौराः समागताः ॥ 16 ॥
उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः विधिवत कषत्रिय शरेष्ठाः स च सर्वॊ जनस तदा ॥ 17 ॥
ततॊ भागीरथी देवी तनयस्यॊदके कृते उत्थाय सलिलात तस्माद रुदती शॊकलालसा ॥ 18 ॥
परिदेवयती तत्र कौरवान अभ्यभाषत निबॊधत यथावृत्तम उच्यमानं मयानघाः ॥ 19 ॥
राजवृत्तेन संपन्नः परज्ञयाभिजनेन च सत्कर्ता कुरुवृद्धानां पितृभक्तॊ दृढव्रतः ॥ 20 ॥
जामदग्न्येन रामेण पुरा यॊ न पराजितः दिव्यैर अस्त्रैर महावीर्यः स हतॊ ऽदय शिखण्डिना ॥ 21 ॥
अश्मसारमयं नूनं हृदयं मम पार्थिवाः अपश्यन्त्याः परियं पुत्रं यत्र दीर्यति मे ऽदय वै ॥ 22 ॥
समेतं पार्थिवं कषत्रं काशिपुर्यां सवयंवरे विजित्यैक रथेनाजौ कन्यास ता यॊ जहार ह ॥ 23 ॥
यस्य नास्ति बले तुल्यः पृथिव्याम अपि कश चन हतं शिखण्डिना शरुत्वा यन न दीर्यति मे मनः ॥ 24 ॥
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना पीडितॊ नातियत्नेन निहतः स शिखण्डिना ॥ 25 ॥
एवंविधं बहु तदा विलपन्तीं महानदीम आश्वासयाम आस तदा साम्ना दामॊदरॊ विभुः ॥ 26 ॥
समाश्वसिहि भद्रे तवं मा शुचः शुभदर्शने गतः स परमां सिद्धिं तव पुत्रॊ न संशयः ॥ 27 ॥
वसुर एष महातेजाः शापदॊषेण शॊभने मनुष्यताम अनुप्राप्तॊ नैनं शॊचितुम अर्हसि ॥ 28 ॥
स एष कषत्रधर्मेण युध्यमानॊ रणाजिरे धनंजयेन निहतॊ नैष नुन्नः शिखण्डिना ॥ 29 ॥
भीष्मं हि कुरुशार्दूलम उद्यतेषुं महारणे न शक्तः संयुगे हन्तुं साक्षाद अपि शतक्रतुः ॥ 30 ॥
सवच्छन्देन सुतस तुभ्यं गतः सवर्गं शुभानने न शक्ताः सयुर निहन्तुं हि रणे तं सर्वदेवताः ॥ 31 ॥
तस्मान मा तवं सरिच्छ्रेष्ठे शॊचस्व कुरुनन्दनम वसून एष गतॊ देवि पुत्रस ते विज्वरा भव ॥ 32 ॥
इत्य उक्ता सा तु कृष्णेन वयासेन च सरिद वरा तयक्त्वा शॊकं महाराज सवं वार्य अवततार ह ॥ 33 ॥
सत्कृत्य ते तां सरितं ततः कृष्ण मुखा नृपाः अनुज्ञातास तया सर्वे नयवर्तन्त जनाधिपाः ॥ 34 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 154
Reach this point to mark the section finished.
Continue to अध्याय 1