धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 99

  1. [य] आरामाणां तडागानां यत फलं कुरुनन्दन तद अहं शरॊतुम इच्छामि तवत्तॊ ऽदय भरतर्षभ ॥ 1 ॥

  2. [भ] सुप्रदर्शा वनवती चित्रधातुविभूषिता उपेता सर्वबीजैश च शरेष्ठा भूमिर इहॊच्यते ॥ 2 ॥

  3. तस्याः कषेत्रविशेषं च तडागानां निवेशनम औदकानि च सर्वाणि परवक्ष्याम्य अनुपूर्वशः ॥ 3 ॥

  4. तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः तरिषु लॊकेषु सर्वत्र पूजितॊ यस तडागवान ॥ 4 ॥

  5. अथ वा मित्र सदनं मैत्रं मित्र विवर्धनम कीर्तिसंजननं शरेष्ठं तडागानां निवेशनम ॥ 5 ॥

  6. धर्मस्यार्थस्य कामस्य फलम आहुर मनीषिणः तडागं सुकृतं देशे कषेत्रम एव महाश्रयम ॥ 6 ॥

  7. चतुर्विधानां भूतानां तडागम उपलक्षयेत तडागानि च सर्वाणि दिशन्ति शरियम उत्तमाम ॥ 7 ॥

  8. देवा मनुष्या गन्धर्वाः पितरॊरग राक्षसाः सथावराणि च भूतानि संश्रयन्ति जलाशयम ॥ 8 ॥

  9. तस्मात तांस ते परवक्ष्यामि तडागे ये गुणाः समृताः या च तत्र फलावाप्तिर ऋषिहिः समुदाहृता ॥ 9 ॥

  10. वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति अग्निहॊत्रफलं तस्य फलम आहुर मनीषिणः ॥ 10 ॥

  11. शरत्काले तु सलिलं तडागे यस्य तिष्ठति गॊसहस्रस्य स परेत्य लभते फलम उत्तमम ॥ 11 ॥

  12. हेमन्त काले सलिलं तडागे यस्य तिष्ठति स वै बहु सुवर्णस्य यज्ञस्य लभते फलम ॥ 12 ॥

  13. यस्य वै शैशिरे काले तडागे सलिलं भवेत अग्निष्टॊमस्य यज्ञस्य फलम आहुर मनीषिणः ॥ 13 ॥

  14. तडागं सुकृतं यस्य वसन्ते तु महाश्रयम अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥ 14 ॥

  15. निधाघ काले पानीयं तडागे यस्य तिष्ठति वाजपेयसमं तस्य फलं वै मुनयॊ विदुः ॥ 15 ॥

  16. स कुलं तारयेत सर्वं यस्य खाते जलाशये गावः पिबन्ति पानीयं साधवश च नराः सदा ॥ 16 ॥

  17. तडागे यस्य गावस तु पिबन्ति तृषिता जलम मृगपक्षिमनुष्याश च सॊ ऽशवमेध फलं लभेत ॥ 17 ॥

  18. यत पिबन्ति जलं तत्र सनायन्ते विश्रमन्ति च तडागदस्य तत सर्वं परेत्यानन्त्याय कल्पते ॥ 18 ॥

  19. दुर्लभं सलिलं तात विशेषेण परत्र वै पानीयस्य परदानेन परीतिर भवति शाश्वती ॥ 19 ॥

  20. तिलान्ददत पानीयं दीपान ददत जाग्रत जञातिभिः सह मॊदध्वम एत परेतेषु दुर्लभम ॥ 20 ॥

  21. सर्वदानैर गुरुतरं सर्वदानैर विशिष्यते पानीयं नरशार्दूल तस्माद दातव्यम एव हि ॥ 21 ॥

  22. एवम एत तडागेषु कीर्तितं फलम उत्तमम अत ऊर्ध्वं परवक्ष्यामि वृक्षाणाम अपि रॊपणे ॥ 22 ॥

  23. सथावराणां च भूतानां जातयॊ षट परकीर्तिताः वृक्षगुल्म लतावल्ल्यस तवक सारास तृणजातयः ॥ 23 ॥

  24. एता जात्यस तु वृक्षाणां तेषां रॊपे गुणास तव इमे कीर्तिश च मानुषे लॊके परेत्य चैव फलं शुभम ॥ 24 ॥

  25. लभते नाम लॊके च पितृभिश च महीयते देवलॊकगतस्यापि नाम तस्य न नश्यति ॥ 25 ॥

  26. अतीतानागते चॊभे पितृवंशं च भारत तारयेद वृक्षरॊपीं च तस्माद वृक्षान पररॊपयेत ॥ 26 ॥

  27. तस्य पुत्रा भवन्त्य एते पादपा नात्र संशयः परलॊकगतः सवर्गं लॊकांश चाप्नॊति सॊ ऽवययान ॥ 27 ॥

  28. पुष्पैः सुरगणान वृक्षाः फलैश चापि तथा पितॄन छायया चातिथींस तात पूजयन्ति महीरुहाः ॥ 28 ॥

  29. किंनरॊरगरक्षांसि देवगन्धर्वमानवाः तथा ऋषिगणाश चैव संश्रयन्ति महीरुहान ॥ 29 ॥

  30. पुष्पिताः फलवन्तश च तर्पयन्तीह मानवान वृक्षदं पुत्रवद वृक्षास तारयन्ति परत्र च ॥ 30 ॥

  31. तस्मात तडागे वृक्षा वै रॊप्याः शरेयॊ ऽरथिना सदा पुत्रवत परिपाल्यश च पुत्रास ते धर्मतः समृताः ॥ 31 ॥

  32. तडाग कृद वृक्षरॊपी इष्टयज्ञश च यॊ दविजः एते सवर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥ 32 ॥

  33. तस्मात तडागं कुर्वीत आरामांश चैव रॊपयेत यजेच च विविधैर यज्ञैः सत्यं च सततं वदेत ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 100

Previous: अध्याय 98