[य] गार्हस्थ्यं धर्मम अखिलं परब्रूहि भरतर्षभ ऋद्धिम आप्नॊति किं कृत्वा मनुष्य इह पार्थिव ॥ 1 ॥
[भ] अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप वासुदेवस्य संवादं पृथिव्याश चैव भारत ॥ 2 ॥
संस्तूय पृथिवीं देवीं वासुदेवः परतापवान पप्रच्छ भरतश्रेष्ठ यद एतत पृच्छसे ऽदय माम ॥ 3 ॥
[वासुदेव] गार्हस्थ्यं धर्मम आश्रित्य मया वा मद्विधेन वा किम अवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत ॥ 4 ॥
[प] ऋषयः पितरॊ देवा मनुष्याश चैव माधव इज्याश चैवार्चनीयाश च यथा चैवं निबॊध मे ॥ 5 ॥
सदा यज्ञेन देवांश च आतिथ्येन च मानवान छन्दतश च यथा नित्यम अर्हान युञ्जीत नित्यशः तेन हय ऋषिगणाः परीता भवन्ति मधुसूदन ॥ 6 ॥
नित्यम अग्निं परिचरेद अभुक्त्वा बलिकर्म च कुर्यात तथैव देवा वै परीयन्ते मधुसूदन ॥ 7 ॥
कुर्याद अहर अहः शराद्धम अन्नाद्येनॊदकेन वा पयॊ मूलफलैर वापि पितॄणां परीतिम आहरन ॥ 8 ॥
सिद्धान्नाद वैश्वदेवं वै कुर्याद अग्नौ यथाविधि अग्नीषॊमं वैश्वदेवं धान्वन्तर्यम अनन्तरम ॥ 9 ॥
परजानां पतये चैव पृथग घॊमॊ विधीयते तथैव चानुपूर्व्येण बलिकर्म परयॊजयेत ॥ 10 ॥
दक्षिणायां यमायेह परतीच्यां वरुणाय च सॊमाय चाप्य उदीच्यां वै वास्तुमध्ये दविजातये ॥ 11 ॥
धन्वन्तरेः पराग उदीच्यां पराच्यां शक्राय माधव मनॊर वै इति च पराहुर बलिं दवारे गृहस्य वै मरुद्भ्यॊ देवताभ्यश च बलिम अन्तर गृहे हरेत ॥ 12 ॥
तथैव विश्वे देवेभ्यॊ बलिम आकाशतॊ हरेत निशाचरेभ्यॊ भूतेभ्यॊ बलिं नक्तं तथा हरेत ॥ 13 ॥
एवं कृत्वा बलिं सम्यग दद्याद भिक्षां दविजातये अलाभे बराह्मणस्याग्नाव अग्रम उत्क्षिप्य निक्षिपेत ॥ 14 ॥
यदा शराद्धं पितृभ्यश च दतुम इच्छेत मानवः तदा पश्चात परकुर्वीत निवृत्ते शराद्धकर्मणि ॥ 15 ॥
पितॄन संतर्पयित्वा तु बलिं कुर्याद विधानतः वैश्वदेवं ततः कुर्यात पश्चाद बराह्मण वाचनम ॥ 16 ॥
ततॊ ऽननेनावशेषेण भॊजयेद अतिथीन अपि अर्चा पूर्वं महाराज ततः परीणाति मानुषान ॥ 17 ॥
अनित्यं हि सथितॊ यस्मात तस्माद अतिथिर उच्यते ॥ 18 ॥
आचार्यस्य पितुश चैव सख्युर आप्तस्य चातिथेः इदम अस्ति गृहे मह्यम इति नित्यं निवेदयेत ॥ 19 ॥
ते यद वदेयुस तत कुर्याद इति धर्मॊ विधीयते गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत ॥ 20 ॥
राजर्त्विजं सनातकं च गुरुं शवशुरम एव च अर्चयेन मधुपर्केण परिसंवत्सरॊषितान ॥ 21 ॥
शवभ्यश चश्व पचेभ्यश च वयॊभ्यश चावपेद भुवि वैश्वदेवं हि नामैतत सायंप्रातर विधीयते ॥ 22 ॥
एतांस तु धर्मान गार्हस्थान यः कुर्याद अनसूयकः स इहर्द्धिं परां पराप्य परेत्य नाके महीयते ॥ 23 ॥
[भ] इति भूमेर वचः शरुत्वा वासुदेवः परतापवान तथा चकार सततं तवम अप्य एवं समाचर ॥ 24 ॥
एवं गृहस्थ धर्मं तवं चेतयानॊ नराधिप इह लॊके यशः पराप्य परेत्य सवर्गम अवाप्स्यसि ॥ 25 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 100
Reach this point to mark the section finished.
Continue to अध्याय 101