धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 98

  1. [य] एवं तदा परयाचन्तं भास्करं मुनिसत्तमः जमदग्निर महातेजाः किं कार्यं परत्यपद्यत ॥ 1 ॥

  2. [भ] तथा परयाचमानस्य मुनिर अग्निसमप्रभः जमदग्निः शमं नैव जगाम कुरुनन्दन ॥ 2 ॥

  3. ततः सूर्यॊ मधुरया वाचा तम इदम अब्रवीत कृताञ्जलिर विप्र रूपी परणम्येदं विशां पते ॥ 3 ॥

  4. चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः कथं चलं वेत्स्यसि तवं सदा यान्तं दिवाकरम ॥ 4 ॥

  5. [ज] सथिरं वापि चलं वापि जाने तवां जञानचक्षुषा अवश्यं विनयाधानं कार्यम अद्य मया तव ॥ 5 ॥

  6. अपराह्णे निमेषार्धं तिष्ठसि तवं दिवाकर तत्र वेत्स्यामि सूर्यत्वां न मे ऽतरास्ति विचारणा ॥ 6 ॥

  7. [स] असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर अपकारिणं तु मां विद्धि भगवञ शरणागतम ॥ 7 ॥

  8. [भ] ततः परहस्य भगवाञ जमदग्निर उवाच तम न भीः सूर्यत्वया कार्या परणिपात गतॊ हय असि ॥ 8 ॥

  9. बराह्मणेष्व आर्जवं यच च सथैर्यं च धरणीतले सौम्यतां चैव सॊमस्य गाम्भीर्यं वरुणस्य च ॥ 9 ॥

  10. दीप्तिम अग्नेः परभां मेरॊः परतापं तपनस्य च एतान्य अतिक्रमेद यॊ वै स हन्याच छरणागतम ॥ 10 ॥

  11. भवेत स गुरु तल्पी च बरह्महा च तथा भवेत सुरा पानं च कुर्यात स यॊ हन्याच छरणागतम ॥ 11 ॥

  12. एतस्य तव अपनीतस्य समाधिं तात चिन्तय यथासुखगमः पन्था भवेत तवद रश्मितापितः ॥ 12 ॥

  13. [भ] एतावद उक्त्वा स तदा तूष्णीम आसीद भृगूद्वहः अथ सूर्यॊ ददौ तस्मै छत्रॊपानहम आशु वै ॥ 13 ॥

  14. [स] महर्षे शिरसस तराणं छत्रं मद रश्मिवारणम परतिगृह्णीष्व पद्भ्यां च तराणार्थं चर्मपादुके ॥ 14 ॥

  15. अद्य परभृति चैवैतल लॊके संप्रचरिष्यति पुण्यदानेषु सर्वेषु परम अक्षय्यम एव च ॥ 15 ॥

  16. [भ] उपानच छत्रम एतद वै सूर्येणेह परवर्तितम पुण्यम एतद अभिख्यातं तरिषु लॊकेषु भारत ॥ 16 ॥

  17. तस्मात परयच्छ विप्रेभ्यश छत्रॊपानहम उत्तमम धर्मस्ते सुमहान भावी न मे ऽतरास्ति विचारणा ॥ 17 ॥

  18. छत्रं हि भरतश्रेष्ठ यः परदद्याद दविजातये शुभ्रं शतशलाकं वै स परेत्य सुखम एधते ॥ 18 ॥

  19. स शक्र लॊके वसति पूज्यमानॊ दविजातिभिः अप्सरॊभिश च सततं देवैश च भरतर्षभ ॥ 19 ॥

  20. दह्यमानाय विप्राय यः परयच्छत्य उपानहौ सनातकाय महाबाहॊ संशिताय दविजातये ॥ 20 ॥

  21. सॊ ऽपि लॊकान अवाप्नॊति दैवतैर अभिपूजितान गॊलॊके स मुदा युक्तॊ वसति परेत्य भारत ॥ 21 ॥

  22. एतत ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम छत्रॊपानह दानस्य फलं भरतसत्तम ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 99

Previous: अध्याय 97