धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 97

  1. [य] यद इदं शराद्धधर्मेषु दीयते भरतर्षभ छत्रं चॊपानहौ चैव केनैतत संप्रवर्तितम कथं चैतत समुत्पन्नं किमर्थं च परदीयते ॥ 1 ॥

  2. न केवलं शराद्धधर्मे पुण्यकेष्व अपि दीयते एतद विस्तरतॊ राजञ शरॊतुम इच्छामि तत्त्वतः ॥ 2 ॥

  3. [भ] शृणु राजन्न अवहितश छत्रॊपानह विस्तरम यथैतत परथितं लॊके येन चैतत परवर्तितम ॥ 3 ॥

  4. यथा चाक्षय्यतां पराप्तं पुण्यतां च यथागतम सर्वम एतद अशेषेण परवक्ष्यामि जनाधिप ॥ 4 ॥

  5. इतिहासं पुरावृत्तम इमं शृणु नराधिप जमदग्नेश च संवादं सूर्यस्य च महात्मनः ॥ 5 ॥

  6. पुरा स भगवान साक्षाद धनुषाक्रीडत परभॊ संधाय संधाय शरांश चिक्षेप किल भार्गवः ॥ 6 ॥

  7. तान कषिप्तान रेणुका सर्वांस तस्येषून दीप्ततेजसः आनाय्य सा तदा तस्मै परादाद असकृद अच्युत ॥ 7 ॥

  8. अथ तेन स शब्देन जयातलस्य शरस्य च परहृष्टः संप्रचिक्षेप सा च परत्याजहार तान ॥ 8 ॥

  9. ततॊ मध्याह्नम आरूढे जयेष्ठा मूले दिवाकरे स सायकान दविजॊ विद्ध्वा रेणुकाम इदम अव्रवीत ॥ 9 ॥

  10. गच्छानय विशालाक्षि शरान एतान धनुश्च्युतान यावद एतान पुनः सुभ्रु कषिपामीति जनाधिप ॥ 10 ॥

  11. सा गच्छत्य अन्तरा छायां वृक्षम आश्रित्य भामिनी तस्थौ तस्या हि संतप्तं शिरः पादौ तथैव च ॥ 11 ॥

  12. सथिता सा तु मुहूर्तं वै भर्तुः शापभयाच छुभा ययाव आनयितुं भूयः सायकान असितेक्षणा परत्याजगाम च शरांस तान आदाय यशस्विनी ॥ 12 ॥

  13. सा परस्विन्ना सुचार्व अङ्गी पद्भ्यां दुःखं नियच्छती उपाजगाम भर्तारं भयाद भर्तुः पवेपती ॥ 13 ॥

  14. स ताम ऋषिस ततः करुद्धॊ वाक्यम आह शुभाननाम रेणुके किं चिरेण तवम आगतेति पुनः पुनः ॥ 14 ॥

  15. [र] शिरस तावत परदीप्तं मे पादौ चैव तपॊधन सूर्यतेजॊ निरुद्धाहं वृक्षच छायाम उपाश्रिता ॥ 15 ॥

  16. एतस्मात कारणाद बरह्मंश चिरम एतत कृतं मया एतज जञात्वा मम विभॊ मा करुधस तवं तपॊधन ॥ 16 ॥

  17. [ज] अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम शरैर निपातयिष्यामि सूर्यम अस्त्राग्नितेजसा ॥ 17 ॥

  18. [भ] स विस्फार्य धनुर दिव्यं गृहीत्वा च बहूञ शरान अतिष्ठत सूर्यम अभितॊ यतॊ याति ततॊ मुखः ॥ 18 ॥

  19. अथ तं परहरिष्यन्तं सूर्यॊ ऽभयेत्य वचॊ ऽबरवीत दविज रूपेण कौन्तेय किं ते सूर्यॊ ऽपराध्यते ॥ 19 ॥

  20. आदत्ते रश्मिभिः सूर्यॊ दिवि विद्वंस ततस ततः रसं स तं वै वर्षासु परवर्षति दिवाकरः ॥ 20 ॥

  21. ततॊ ऽननं जायते विप्र मनुष्याणां सुखावहम अन्नं पराणा इति यथा वेदेषु परिपठ्यते ॥ 21 ॥

  22. अथाभ्रेषु निगूढश च रश्मिभिः परिवारितः सप्त दवीपान इमान बरह्मन वर्षेणाभिप्रवर्षति ॥ 22 ॥

  23. ततस तदौषधीनां च वीरुधां पत्रपुष्पजम सर्वं वर्षाभिनिर्वृत्तम अन्नं संभवति परभॊ ॥ 23 ॥

  24. जातकर्माणि सर्वाणि वरतॊपनयनानि च गॊधानानि विवाहाश च तथा यज्ञसमृद्धयः ॥ 24 ॥

  25. सत्राणि दानानि तथा संयॊगा वित्तसंचयाः अन्नतः संप्रवर्तन्ते यथा तवं वेत्थ भार्गव ॥ 25 ॥

  26. रमणीयानि यावन्ति यावद आरम्भकाणि च सर्वम अन्नात परभवति विदितं कीर्तयामि ते ॥ 26 ॥

  27. सर्वं हि वेत्थ विप्र तवं यद एतत कीर्तितं मया परसादये तवा विप्रर्षे किं ते सूर्यॊ निपात्यते ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 98

Previous: अध्याय 96