[भ] अथात्रि परमुखा राजन वने तस्मिन महर्षयः वयचरन भक्षयन्तॊ वै मूलानि च फलानि च ॥ 1 ॥
अथापश्यन सुपीनांस पाणिपादमुखॊदरम परिव्रजन्तं सथूलाङ्गं परिव्राजं शुनः सखम ॥ 2 ॥
अरुन्धती तु तं दृष्ट्वा सर्वाङ्गॊपचितं शुभा भवितारॊ भवन्तॊ वै नैवम इत्य अब्रवीद ऋषीन ॥ 3 ॥
[वसिस्ठ] नैतस्येह यथास्माकम अग्निहॊत्रम अनिर्हुतम सायंप्रातश च हॊतव्यं तेन पीवाञ शुनः सखः ॥ 4 ॥
[अत्रि] नैतस्येह यथास्माकं कषुधा वीर्यं समाहतम कृच्छ्राधीतं परनष्टं च तेन पीवाञ शुनः सखः ॥ 5 ॥
[विष्वामित्र] नैतस्येह यथास्माकं शश्वच छास्त्रं जरद गवः अलसः कषुत परॊ मूर्खस तेन पीवाञ शुनः सखः ॥ 6 ॥
[जमदग्नि] नैतस्येह यथास्माकं भक्तम इन्धनम एव च संचिन्त्य वार्षिकं किं चित तेन पीवाट शुनः सखः ॥ 7 ॥
[कष्यप] नैतस्येह यथास्माकं चत्वारश च सहॊदराः देहि देहीति भिक्षन्ति तेन पीवाञ शुनः सखः ॥ 8 ॥
[भरद्वाज] नैतस्येह यथास्माकं बरह्म बन्धॊर अचेतसः शॊकॊ भार्यापवादेन तेन पीवाञ शुनः सखः ॥ 9 ॥
[गौतम] नैतस्येह यथास्माकं तरिकौशेयं हि राङ्कवम एकैकं वै तरिवार्षीयं तेन पीवाञ शुनः सखः ॥ 10 ॥
[भ] अथ देष्ट्वा परिव्राट स तान महर्षीञ शुनः सखः अभिगम्य यथान्यायं पाणिस्पर्शम अथाचरत ॥ 11 ॥
परिचर्यां वने तां तु कषुत परतीघात कारिकाम अन्यॊन्येन निवेद्याथ परातिष्ठन्त सहैव ते ॥ 12 ॥
एकनिश्चय कार्याश च वयचरन्त वनानि ते आददानाः समुद्धृत्य मूलानि च फलानि च ॥ 13 ॥
कदा चिद विचरन्तस ते वृक्षैर अविरलैर वृताम शुचि वारि परसन्नॊदां ददृशुः पद्मिनीं शुभाम ॥ 14 ॥
बालादित्य वपुः परख्यैः पुष्करैर उपशॊभिताम वैदूर्यवर्णसदृशैः पद्मपत्रैर अथावृताम ॥ 15 ॥
नानाविधैश च विहगैर जलप्रकर सेविभिः एकद्वाराम अनादेयां सूपतीर्थाम अकर्दमाम ॥ 16 ॥
वृषादर्भि परयुक्ता तु कृत्या विकृतदर्शना यातुधानीति विख्याता पद्मिनीं ताम अरक्षत ॥ 17 ॥
शुनः सख सहायास तु बिसार्थं ते महर्षयः पद्मिनीम अभिजग्मुस ते सर्वे कृत्याभिरक्षिताम ॥ 18 ॥
ततस ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम सथितां कमलिनी तीरे कृत्याम ऊचुर महर्षयः ॥ 19 ॥
एका तिष्ठसि का नु तवं कस्यार्थे किं परयॊजनम पद्मिनी तीरम आश्रित्य बरूहि तवं किं चिकीर्षसि ॥ 20 ॥
[यातुधान] यास्मि सास्म्य अनुयॊगॊ मे न कर्तव्यः कथं चन आरक्षिणीं मां पद्मिन्या वित्तसर्वे तपॊधनाः ॥ 21 ॥
[रसयह] सर्व एव कषुधार्था सम न चान्यत किं चिद अस्ति नः भवत्याः संमते सर्वे गृह्णीमहि बिसान्य उत ॥ 22 ॥
[यातुधान] समयेन बिसानीतॊ गृह्णीध्वं कामकारतः एकैकॊ नाम मे परॊक्त्वा ततॊ गृह्णीत माचिरम ॥ 23 ॥
[भ] विज्ञाय यातुधानीं तां कृत्याम ऋषिवधैषिणीम अत्रिः कषुधा परीतात्मा ततॊ वचनम अब्रवीत ॥ 24 ॥
अरात्रिर अत्रेः सा रात्रिर यां नाधीते तरिर अद्य वै अरात्रिर अत्रिर इत्य एव नाम मे विद्धि शॊभने ॥ 25 ॥
[या] यथॊदाहृतम एतत ते मयि नाम महामुने दुर्धार्यम एतन मनसा गच्छावतर पद्मिनीम ॥ 26 ॥
[वसिस्ठ] वसिष्ठॊ ऽसमि वरिष्ठॊ ऽसमि वसे वासं गृहेष्व अपि वसिष्ठत्वाच च वासाच च वसिष्ठ इति विद्धि माम ॥ 27 ॥
[या] नाम नैरुक्तम एतत ते दुःखव्याभाषिताक्षरम नैतद धारयितुं शक्यं गच्छावतर पद्मिनीम ॥ 28 ॥
[कष्यप] कुलं कुलं च कुपपः कुपयः कश्यपॊ दविजः काश्यः काशनिकाशत्वाद एतन मे नाम धारय ॥ 29 ॥
[या] यथॊदाहृतम एतत ते मयि नाम महामुने दुर्धार्यम एतन मनसा गच्छावतर पद्मिनीम ॥ 30 ॥
[भरद्वाज] भरे सुतान भरे शिष्यान भरे देवान भरे दविजान भरे भर्याम अनव्याजॊ भरद्वाजॊ ऽसमि शॊभने ॥ 31 ॥
[या] नाम नैरुक्तम एतत ते दुःखव्याभाषिताक्षरम नैतद धारयितुं शक्यं गच्छावतर पद्मिनीम ॥ 32 ॥
[गौतम] गॊदमॊ दमगॊ ऽधूमॊ दमॊ दुर्दर्शनश च ते विद्धि मां गौतमं कृत्ये यातुधानि निबॊध मे ॥ 33 ॥
[या] यथॊदाहृतम एतत ते मयि नाम महामुने नैतद धारयितुं शक्यं गच्छावतर पद्मिनीम ॥ 34 ॥
[विष्वामित्र] विश्वे देवाश च मे मित्रं मित्रम अस्मि गवां तथा विश्वा मित्रम इति खयातं यातुधानि निबॊध मे ॥ 35 ॥
[या] नाम नैरुक्तम एतत ते दुःखव्याभाषिताक्षरम नैतद धारयितुं शक्यं गच्छावतर पद्मिनीम ॥ 36 ॥
[जमदग्नि] जाजमद्यजजा नाम मृजा माह जिजायिषे जमदग्निर इति खयातम अतॊ मां विद्धि शॊभने ॥ 37 ॥
[या] यथॊदाहृतम एतत ते मयि नाम महामुने नैतद धारयितुं शक्यं गच्छावतर पद्मिनीम ॥ 38 ॥
[अरुन्धती] धरां धरित्रीं वसुधां भर्तुस तिष्ठाम्य अनन्तरम मनॊ ऽनुरुन्धती भर्तुर इति मां विद्ध्य अरुन्धतीम ॥ 39 ॥
[या] नाम नैरुक्तम एतत ते दुःखव्याभाषिताक्षरम नैतद धारयितुं शक्यं गच्छावतर पद्मिनीम ॥ 40 ॥
[गण्डा] गण्डं गण्डं गतवती गण्डगण्डेति संज्ञिता गण्डगण्डेव गण्डेति विद्धि मानल संभवे ॥ 41 ॥
[या] नाम नैरुक्तम एतत ते दुःखव्याभाषिताक्षरम नैतद धारयितुं शक्यं गच्छावतर पद्मिनीम ॥ 42 ॥
[पषुसख] सखा सखे यः सख्येयः पशूनां च सखा सदा गौणं पशुसखेत्य एवं विद्धि माम अग्निसंभवे ॥ 43 ॥
[या] नाम नैरुक्तम एतत ते दुःखव्याभाषिताक्षरम नैतद धारयितुं शक्यं गच्छावतर पद्मिनीम ॥ 44 ॥
एभिर उक्तं यथा नाम नाहं वक्तुम इहॊत्सहे शुनः सख सखायं मां यातुधान्य उपधारय ॥ 45 ॥
[या] नाम ते ऽवयक्तम उक्तं वै वाक्यं संदिग्धया गिरा तस्मात सकृद इदानीं तवं बरूहि यन नाम ते दविज ॥ 46 ॥
सकृद उक्तं मया नाम न गृहीतं यदा तवया तस्मात तरिदण्ड्दाभिहता गच्छ भस्मेति माचिरम ॥ 47 ॥
[भ] सा बरह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा कृत्या पपात मेदिन्यां भस्मसाच च जगाम ह ॥ 48 ॥
शुनः सखश च हत्वा तां यातुधानीं महाबलाम भुवि तरिदण्डं विष्टभ्य शाद्वले समुपाविशत ॥ 49 ॥
ततस ते मुनयः सर्वे पुष्कराणि बिसानि च यथाकामम उपादाय समुत्तस्थुर मुदान्विताः ॥ 50 ॥
शरमेण महता युक्तास ते बिसानि कलापशः तीरे निक्षिप्य पद्मिन्यास तर्पणं चक्रुर अम्भसा ॥ 51 ॥
अथॊत्थाय जलात तस्मात सर्वे ते वै समागमन नापश्यंश चापि ते तानि बिसानि पुरुषर्षभ ॥ 52 ॥
[रसयह] केन कषुधाभिभूतानाम अस्माकं पापकक्र्मणा नृशंसेनापनीतानि बिसान्य आहारकाङ्क्षिणाम ॥ 53 ॥
ते शङ्कमानास तव अन्यॊन्यं पप्रच्छुर दविजसत्तमाः त ऊचुः शपथं सर्वे कुर्म इत्य अरिकर्शन ॥ 54 ॥
त उक्त्वा बाढम इत्य एव सर्व एव शुनः सखम कषुधार्ताः सुपरिश्रान्ताः शपथायॊपचक्रमुः ॥ 55 ॥
[अत्रि] स गां सपृशतु पादेन सूर्यं च परतिमेहतु अनध्यायेष्व अधीयीत बिस सतैन्यं करॊति यः ॥ 56 ॥
[वसिस्ठ] अनध्याय परॊ लॊके शुनः स परिकर्षतु परिव्राट कामवृत्तॊ ऽसतु बिस सतैन्यं करॊति यः ॥ 57 ॥
शरणागतं हन्तुमित्रं सवसुतां चॊपजीवतु अर्थान काङ्क्षतु कीनाशाद बिस सतैन्यं करॊति यः ॥ 58 ॥
[कष्यप] सर्वत्र सर्वं पणतु नयासलॊपं करॊतु च कूटसाक्षित्वम अभ्येतु बिस सतैन्यं करॊति यः ॥ 59 ॥
वृथा मांसं समश्नातु वृथा दानं करॊति च यातु सत्रियं दिवा चैव बिस सतैन्यं करॊति यः ॥ 60 ॥
[भरद्वाज] नृशंसस तयक्तधर्मास तु सत्रीषु जञातिषु गॊषु च बराह्मणं चापि जयतां बिस सतैन्यं करॊति यः ॥ 61 ॥
उपाध्यायम अधः कृत्वा ऋचॊ ऽधयेतु यजूंषि च जुहॊतु च स कक्षाग्नौ बिस सतैन्यं करॊति यः ॥ 62 ॥
[जमदग्नि] पुरीषम उत्सृजत्व अप्सु हन्तुगां चापि दॊहिनीम अनृतौ मैथुनं यातु बिस सतैन्यं करॊति यः ॥ 63 ॥
दवेष्यॊ भार्यॊपजीवी सयाद दूरबन्धुश च वैरवान अन्यॊन्यस्यातिथिश चास्तु बिस सतैन्यं करॊति यः ॥ 64 ॥
[गौतम] अधीत्य वेदांस तयजतु तरीन अग्नीन अपविध्यतु विक्रीणातु तथा सॊमं बिस सतैन्यं करॊति यः ॥ 65 ॥
उप पानप्लवे गरामे बराह्मणॊ वृषली पतिः तस्य सालॊक्यतां यातु बिस सतैन्यं करॊति यः ॥ 66 ॥
[विष्वामित्र] जीवतॊ वै गुरून भृत्यान भरन्त्व अस्य परे जनाः अगतिर बहुपुत्रः सयाद बिस सतैन्यं करॊति यः ॥ 67 ॥
अशुचिर बरह्म कूटॊ ऽसतु ऋद्ध्या चैवाप्य अहं कृतः कर्षकॊ मत्सरी चास्तु बिस सतैन्यं करॊति यः ॥ 68 ॥
वर्षान करॊतु भृतकॊ राज्ञश चास्तु पुरॊहितः अयाज्यस्य भवेद ऋत्विग बिस सतैन्यं करॊति यः ॥ 69 ॥
[अरुन्धती] नित्यं परिवदेच छवश्रूं भर्तुर भवतु दुर्मनाः एका सवादु समश्नातु बिस सतैन्यं करॊति या ॥ 70 ॥
जञातीनां गृहमेध्यस्था सक्तून अत्तु दिनक्षये अभाग्यावीरसूर अस्तु बिस सतैन्यं करॊति याः ॥ 71 ॥
[गण्डा] अनृतं भाषतु सदा साधुभिश च विरुध्यतु ददातु कन्यां शुक्लेन बिस सतैन्यं करॊति याः ॥ 72 ॥
साधयित्वा सवयं पराशेद दास्ये जीवतु चैव ह विकर्मणा परमीयेत बिस सतैन्यं करॊति या ॥ 73 ॥
[पषुसख] दास्य एव परजायेत सॊ ऽपरसूतिर अकिंचनः दैवतेष्व अनमः कारॊ बिस सतैन्यं करॊति यः ॥ 74 ॥
अध्वर्यवे दुहितरं ददातुच; छन्दॊगे वा चरितब्रह्म चर्ये आथर्वणं वेदम अधीत्य विप्रः; सनायीत यॊ वै हरते बिसानि ॥ 75 ॥
[रसयह] इष्टम एतद दविजातीनां यॊ ऽयं ते शपथः कृतः तवया कृतं बिस सतैन्यं सर्वेषां नः शुनः सुख ॥ 76 ॥
[षुन] नयस्तम आद्यम अपश्यद्भिर यद उक्तं कृतकर्मभिः सत्यम एतन न मिथ्यैतद बिस सतैन्यं कृतं मया ॥ 77 ॥
मया हय अन्तर्हितानीह बिसानीमानि पश्यत परीक्षार्थं भगवतां कृतम एतन मयानघाः रक्षणार्थं च सर्वेषां भवताम अहम आगतः ॥ 78 ॥
यातुधानी हय अतिक्रुद्धा कृत्यैषा वॊ वधैषिणी वृषादर्भि परयुक्तैषा निहता मे तपॊधनाः ॥ 79 ॥
दुष्टा हिंष्याद इयं पापा युष्मान परत्य अग्निसंभवा तस्माद अस्म्य आगतॊ विप्रा वासवं मां निबॊधत ॥ 80 ॥
अलॊभाद अक्षया लॊकाः पराप्ता वः सार्वकामिकाः उत्तिष्ठध्वम इतः कषिप्रं तान अवाप्नुत वै दविजाः ॥ 81 ॥
[भ] ततॊ महर्षयः परीतास तथेत्य उक्त्वा पुरंदरम सहैव तरिदशेन्द्रेण सर्वे जग्मुस तरिविष्टपम ॥ 82 ॥
एवम एते महात्मानॊ भॊगैर बहुविधैर अपि कषुधा परमया युक्ताश छन्द्यमाना महात्मभिः नैव लॊभं तदा चक्रुस ततः सवर्गम अवाप्नुवन ॥ 83 ॥
तस्मात सर्वास्व अवस्थासु नरॊ लॊभं विवर्जयेत एष धर्मः परॊ राजन्न अलॊभ इति विश्रुतः ॥ 84 ॥
इदं नरः सच चरितं समवायेषु कीर्तयेत सुखभागी च भवति न च दुर्गाण्य अवाप्नुते ॥ 85 ॥
परीयन्ते पितरश चास्य ऋषयॊ देवतास तथा यशॊधर्मार्थभागी च भवति परेत्य मानवः ॥ 86 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 95
Reach this point to mark the section finished.
Continue to अध्याय 96