[य] बराह्मणानां तु ये लॊके परतिश्रुत्य पितामह न परयच्छन्ति मॊहात ते के भवन्ति महामते ॥ 1 ॥
एतन मे तत्त्वतॊ बरूहि धर्मं धर्मभृतां वर परतिश्रुत्य दुरात्मानॊ न परयच्छन्ति ये नराः ॥ 2 ॥
[भ] यॊ न दद्यात परतिश्रुत्य सवल्पं वा यदि वा बहु आशास तस्य हताः सर्वाः कलीबस्येव परजा फलम ॥ 3 ॥
यां रात्रिं जायते पापॊ यां च रात्रिं विनश्यति एतस्मिन्न अन्तरे यद यत सुकृतं तस्य भारत यच च तस्य हुतं किं चित सर्वं तस्यॊपहन्यते ॥ 4 ॥
अत्रैतद वचनं पराहुर धर्मशास्त्रविदॊ जनाः निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥ 5 ॥
अपि चॊदाहरन्तीमं धर्मशास्त्रविदॊ जनाः अश्वानां शयाम कर्णानां सहस्रेण स मुच्यते ॥ 6 ॥
अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम सृगालस्य च संवादं वानरस्य च भारत ॥ 7 ॥
तौ सखायौ पुरा हय आस्तां मानुषत्वे परंतप अन्यां यॊनिं समापन्नौ सार्गालीं वानरीं तथा ॥ 8 ॥
ततः परासून खादन्तं सृगालं वानरॊ ऽबरवीत शमशानमध्ये संप्रेक्ष्य पूर्वजातिम अनुस्मरन ॥ 9 ॥
किं तवया पापकं कर्मकृतं पूर्वं सुदारुणम यस तवं शमशाने कृतकान पूतिकान अत्सि कुत्सितान ॥ 10 ॥
एवम उक्तः परत्युवाच सृगालॊ वानरं तदा बराह्मणस्य परतिश्रुत्य न मया तद उपाकृतम ॥ 11 ॥
तत कृते पापिकां यॊनिम आपन्नॊ ऽसमि पलवंगम तस्माद एवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥ 12 ॥
इत्य एतद बरुवतॊ राजन बराह्मणस्य मया शरुतम कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम ॥ 13 ॥
शरुतं चापि मया भूयः कृष्णस्यापि विशां पते कथां कथयतः पूर्वं बराह्मणं परति पाण्डव ॥ 14 ॥
एवम एव च मां नित्यं बराह्मणाः संदिशन्ति वै परतिश्रुत्य भवेद देयं नाशा कार्या हि बराह्मणैः ॥ 15 ॥
बराह्मणॊ हय आशया पूर्वं कृतया पृथिवीपते सुसमिद्धॊ यथा दीप्तः पावकस तद्विधः समृतः ॥ 16 ॥
यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया परदहेत हि तं राजन कक्षम अक्षय्य भुग यथा ॥ 17 ॥
स एव हि यदा तुष्टॊ वचसा परतिनन्दति भवत्य अगद संकाशॊ विषये तस्य भारत ॥ 18 ॥
पुत्रान पौत्रान पशूंश चैव बान्धवान सचिवांस तथा पुरं जनपदं चैव शान्तिर इष्टेव पुष्यति ॥ 19 ॥
एतद धि परमं तेजॊ बराह्मणस्येह दृश्यते सहस्रकिरणस्येव सवितुर धरणीतले ॥ 20 ॥
तस्माद दातव्यम एवेह परतिश्रुत्य युधिष्ठिर यदीच्छेच छॊभनां जातिं पराप्तुं भरतसत्तम ॥ 21 ॥
बराह्मणस्य हि दत्तेन धरुवं सवर्गॊ हय अनुत्तमः शक्यम्प्राप्तुं विशेषेण दानं हि महती करिया ॥ 22 ॥
इतॊ दत्तेन जीवन्ति देवताः पितरस तथा तस्माद आनानि देयानि बराह्मणेभ्यॊ विजानता ॥ 23 ॥
महद धि भरतश्रेष्ठ बराह्मणस तीर्थम उच्यते वेलायां न तु कस्यां चिद गच्छेद विप्रॊ हय अपूजितः ॥ 24 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 9
Reach this point to mark the section finished.
Continue to अध्याय 10