[य] मित्र सौदृद भावेन उपदेशं करॊति यः जात्यावरस्य राजर्षे दॊषस तस्य भवेन न वा ॥ 1 ॥
एतद इच्छामि तत्त्वेन वयाख्यातुं वै पितामह सूक्ष्मा गतिर हि धर्मस्य यत्र मुह्यन्ति मानवाः ॥ 2 ॥
[भ] अत्र ते वर्तयिष्यामि शृणु राजन यथागमम ऋषीणां वदतां पूर्वं शरुतम आसीद यथा मया ॥ 3 ॥
उपदेशॊ न कर्तव्यॊ जातिहीनस्य कस्य चित उपदेशे महान दॊष उपाध्यायस्य भाष्यते ॥ 4 ॥
निदर्शनम इदं राजञ शृणु मे भरतर्षभ दुरुक्त वचने राजन यथापूर्वं युधिष्ठिर बरह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे ॥ 5 ॥
तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम बहु गुल्मलताकीर्णं मृगद्विजनिषेवितम ॥ 6 ॥
सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम वरतिभिर बहुभिः कीर्णं तापसैर उपशॊभितम ॥ 7 ॥
बराह्मणैश च महाभागैः सूर्यज्वलन संनिभैः नियमव्रतसंपन्नैः समाकीर्णं तपस्विभिः दीक्षितैर भरतश्रेष्ठ यताहारैः कृतात्मभिः ॥ 8 ॥
वेदाध्ययनघॊषैश च नादितं भरतर्षभ वालखिल्यैश च बहुभिर यतिभिश च निषेवितम ॥ 9 ॥
तत्र कश चित समुत्साहं कृत्वा शूद्रॊ दयान्वितः आगतॊ हय आश्रमपदं पूजितश च तपस्विभिः ॥ 10 ॥
तांस तु दृष्ट्वा मुनिगणान देवकल्पान महौजसः वहतॊ विविधा दीक्षाः संप्रहृष्यत भारत ॥ 11 ॥
अथास्य बुद्धिर अभवत तपस्ये भरतर्षभ ततॊ ऽबरवीत कुलपतिं पादौ संगृह्य भारत ॥ 12 ॥
भवत्प्रसादाद इच्छामि धर्मं चर्तुं दविजर्षभ तन मां तवं भगवन वक्तुं परव्राजयितुम अर्हसि ॥ 13 ॥
वर्णावरॊ ऽहं भगवञ शूद्रॊ जात्यास्मि सत्तम शुश्रूषां कर्तुम इच्छामि परपन्नाय परसीद मे ॥ 14 ॥
[कुलपति] न शक्यम इह शूद्रेण लिङ्गम आश्रित्य वर्तितुम आस्यतां यदि ते बुद्धिः शुश्रूषा निरतॊ भव ॥ 15 ॥
[भ] एवम उक्तस तु मुनिना स शूद्रॊ ऽचिन्तयन नृप कथम अत्र मया कार्यं शरद्धा धर्मे परा च मे विज्ञातम एवं भवतु करिष्ये परियम आत्मनः ॥ 16 ॥
गत्वाश्रमपदाद दूरम उटजं कृतवांस तु सः तत्र वेदिं च भूमिं च देवतायतनानि च निवेश्य भरतश्रेष्ठ नियमस्थॊ ऽभवत सुखम ॥ 17 ॥
अभिषेकांश च नियमान देवतायतनेषु च बलिं च कृत्वा हुत्वा च देवतां चाप्य अपूजयत ॥ 18 ॥
संकल्पनियमॊपेतः फलाहारॊ जितेन्द्रियः नित्यं संनिहिताभिश च ओषधीभिः फलैस तथा ॥ 19 ॥
अतिथीन पूजयाम आस यथावत समुपागतान एवं हि सुमहान कालॊ वयत्यक्रामत स तस्य वै ॥ 20 ॥
अथास्य मुनिर आगच्छत संगत्या वै तम आश्रमम संपूज्य सवागतेनर्षिं विधिवत पर्यतॊषयत ॥ 21 ॥
अनुकूलाः कथाः कृत्वा यथावत पर्यपृच्छत ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः ॥ 22 ॥
एवं स बहुशस तस्य शूद्रस्य भरतर्षभ सॊ ऽगच्छद आश्रमम ऋषिः शूद्रं दरष्टुं नरर्षभ ॥ 23 ॥
अथ तं तापसं शूद्रः सॊ ऽबरवीद भरतर्षभ पितृकार्यं करिष्यामि तत्र मे ऽनुग्रहं कुरु ॥ 24 ॥
बाढम इत्य एव तं विप्र उवाच भरतर्षभ शुचिर भूत्वा स शूद्रस तु तस्यर्षेः पाद्यम आनयत ॥ 25 ॥
अथ दर्भांश च वन्याश च ओषधीर भरतर्षभ पवित्रम आसनं चैव बृसीं च समुपानयत ॥ 26 ॥
अथ दक्षिणम आवृत्य बृसीं परमशीर्षिकाम कृताम अन्यायतॊ दृष्ट्वा ततस तम ऋषिर अब्रवीत ॥ 27 ॥
कुरुष्वैतां पूर्वशीर्षां भव चॊदन मुखः शुचिः स च तत कृतवाञ शूद्रः सर्वं यद ऋषिर अब्रवीत ॥ 28 ॥
यथॊपदिष्टं मेधावी दर्भादींस तान यथातथम हव्यकव्य विधिं कृत्स्नम उक्तं तेन तपस्विना ॥ 29 ॥
ऋषिणा पितृकार्ये च स च धर्मपथे सथितः पितृकार्ये कृते चापि विषृष्टः स जगाम ह ॥ 30 ॥
अथ दीर्घस्य कालस्य स तप्यञ शूद्र तापसः वने पञ्चत्वम अगमत सुकृतेन च तेन वै अजायत महाराज राजवंशे महाद्युतिः ॥ 31 ॥
तथैव स ऋषिस तात कालधर्मम अवाप्य ह पुरॊहित कुले विप्र आजातॊ भरतर्षभ ॥ 32 ॥
एवं तौ तत्र संभूताव उभौ शूद्र मुनी तदा करमेण वर्धितौ चापि विद्यासु कुशलाव उभौ ॥ 33 ॥
अथर्ववेदे वेदे च बभूवर्षिर सुनिश्चितः कल्पप्रयॊगे चॊत्पन्ने जयॊतिषे च परं गतः सख्ये चापि परा परीतिस तयॊश चापि वयवर्धत ॥ 34 ॥
पितर्य उपरते चापि कृतशौचः स भारत अभिषिक्तः परकृतिभी राजपुत्रः स पार्थिवः अभिषिक्तेन स ऋषिर अभिषिक्तः पुरॊहितः ॥ 35 ॥
स तं पुरॊधाय सुखम अवसद भरतर्षभ राज्यं शशास धर्मेण परजाश च परिपालयन ॥ 36 ॥
पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत उत्स्मयन पराहसच चापि दृष्ट्वा राजा पुरॊहितम एवं स बहुशॊ राजन पुरॊधसम उपाहसत ॥ 37 ॥
लक्षयित्वा पुरॊधास तु बहु शस्तं नराधिपम उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमान अभूत ॥ 38 ॥
अथ शूण्ये पुरॊधास तु सह राज्ञा समागतः कथाभिर अनुकूलाभी राजानम अभिरामयत ॥ 39 ॥
ततॊ ऽबरवीन नरेन्द्रं स पुरॊधा भरतर्षभ वरम इच्छाम्य अहं तव एकं तवया दत्तं महाद्युते ॥ 40 ॥
[र] वराणां ते शतं दद्यां कुम उतैकं दविजॊत्तम सनेहाच च बहुमानाच च नास्त्य अदेयं हि मे तव ॥ 41 ॥
[पुरॊहित] एकं वै वरम इच्छामि यदि तुष्टॊ ऽसि पार्थिव यद ददासि महाराज सत्यं तद वद मानृतम ॥ 42 ॥
[भ] बाढम इत्य एव तं राजा परत्युवाच युधिष्ठिर यदि जञास्यामि वक्ष्यामि अजानन न तु संवदे ॥ 43 ॥
[प] पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत शान्ति हॊमेषु च सदा किं तवं हससि वीक्ष्य माम ॥ 44 ॥
सव्रीडं वै भवति हि मनॊ मे हसता तवया कामया शापितॊ राजन नान्यथा वक्तुम अर्हसि ॥ 45 ॥
भाव्यं हि कारणेनात्र न ते हास्यम अकारणम कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे ॥ 46 ॥
[र] एवम उक्ते तवया विप्र यद अवाच्यं भवेद अपि अवश्यम एव वक्तव्यं शृणुष्वैक मना दविज ॥ 47 ॥
पूर्वदेहे यथावृत्तं तन निबॊध दविजॊत्तम जातिं समराम्य अहं बरह्मन्न अवधानेन मे शृणु ॥ 48 ॥
शूद्रॊ ऽहम अभवं पूर्वं तापसॊ भृशसंयुतः ऋषिर उग्रतपास तवं च तदाभूर दविजसत्तम ॥ 49 ॥
परीयता हि तदा बरह्मन ममानुग्रह बुद्धिना पितृकार्ये तवया पूर्वम उपदेशः कृतॊ ऽनघ बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम ॥ 50 ॥
एतेन कर्म दॊषेण पुरॊधास तवम अजायथाः अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम मत्कृते हय उपदेशेन तवया पराप्तम इदं फलम ॥ 51 ॥
एतस्मात कारणाद बरह्मन परहसे तवां दविजॊत्तम न तवां परिभवन बरह्मन परहसामि गुरुर भवान ॥ 52 ॥
विपर्ययेण मे मन्युस तेन संतप्यते मनः जातिं समराम्य अहं तुभ्यम अतस तवां परहसामि वै ॥ 53 ॥
एवं तवॊग्रं हि तप उपदेशेन नाशितम पुरॊहितत्वम उत्सृज्य यतस्व तवम्पुनर भवे ॥ 54 ॥
इतस तवम अधमाम अन्यां मा यॊनिं पराप्स्यसे दविज गृह्यतां दरविणं विप्र पूतात्मा भव सत्तम ॥ 55 ॥
[भ] ततॊ विसृष्टॊ राज्ञा तु विप्रॊ दानान्य अनेकशः बराह्मणेभ्यॊ ददौ वित्तं भूमिं गरामांश च सर्वशः ॥ 56 ॥
कृच्छ्राणि चीर्त्वा च ततॊ यथॊक्तामि दविजॊत्तमः तीर्थानि चाभिगत्वा वै दानानि विविधानि च ॥ 57 ॥
दत्त्वा गाश चैव विप्राणां पूतात्मा सॊ ऽभवद दविजः तम एव चाश्रमं गत्वा चचार विपुलं तपः ॥ 58 ॥
ततः सिद्धिं परां पराप्तॊ बराह्मणॊ राजसत्तम संमतश चाभवत तेषाम आश्रमे ऽऽशरमवासिनाम ॥ 59 ॥
एवं पराप्तॊ महत कृच्छ्रम ऋषिः स नृपसत्तम बराह्मणेन न वक्तव्यं तस्माद वर्णावरे जने ॥ 60 ॥
वर्जयेद उपदेशं च सदैव बराह्मणॊ नृप उपदेशं हि कुर्वाणॊ दविजः कृच्छ्रम अवाप्नुयात ॥ 61 ॥
एषितव्यं सदा वाचा नृपेण दविजसत्तमात न परवक्तव्यम इह हि किं चिद वर्णावरे जने ॥ 62 ॥
बराह्मणाः कषत्रिया वैश्यास तरयॊ वर्णा दविजातयः एतेषु कथयन राजन बराह्मणॊ न परदुष्यति ॥ 63 ॥
तस्मात सद्भिर न वक्तव्यं कस्य चित किं चिद अग्रतः सूक्ष्मा गतिर हि धर्मस्य दुर्ज्ञेया हय अकृतात्मभिः ॥ 64 ॥
तस्मान मौनानि मुनयॊ दीक्षां कुर्वन्ति चादृताः दुरुक्तस्य भयाद राजन नानुभाषन्ति किं चन ॥ 65 ॥
धार्मिका गुणसंपन्नाः सत्यार्जव परायणाः दुरुक्त वाचाभिहताः पराप्नुवन्तीह दुष्कृतम ॥ 66 ॥
उपदेशॊ न कर्तव्यः कदा चिद अपि कस्य चित उपदेशाद धि तत पापं बराह्मणः समवाप्नुयात ॥ 67 ॥
विमृश्य तस्मात पराज्ञेन वक्तव्यं धर्मम इच्छता सत्यानृतेन हि कृत उपदेशॊ हिनस्ति वै ॥ 68 ॥
वक्तव्यम इह पृष्टेन विनिश्चित्य विपर्ययम स चॊपदेशः कर्तव्यॊ येन धर्मम अवाप्नुयात ॥ 69 ॥
एतत ते सर्वम आख्यातम उपदेशे कृते सति महान कलेशॊ हि भवति तस्मान नॊपदिशेत कव चित ॥ 70 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 10
Reach this point to mark the section finished.
Continue to अध्याय 11