धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 83

  1. [य] उक्तं पितामहेनेदं गवां दानम अनुत्तमम विशेषेण नरेन्द्राणाम इति धर्मम अवेक्षताम ॥ 1 ॥

  2. राज्यं हि सततं दुःखम आश्रमाश च सुदुर्विदाः परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ॥ 2 ॥

  3. पूयन्ते ते ऽतर नियतं परयच्छन्तॊ वसुंधराम पूर्वं च कथिता धर्मास तवया मे कुरुनन्दन ॥ 3 ॥

  4. एवम एव गवाम उक्तं परदानं ते नृगेण्ण ह ऋषिणा नाचिकेतेन पूर्वम एव निदर्शितम ॥ 4 ॥

  5. वेदॊपनिषदे चैव सर्वकर्मसु दक्षिणा सर्वक्रतुषु चॊद्दिष्टं भूमिर गावॊ ऽथ काञ्चनम ॥ 5 ॥

  6. तत्र शरुतिस तु परमा सुवर्णं दक्षिणेति वै एतद इच्छाम्य अहं शरॊतुं पितामह यथातथम ॥ 6 ॥

  7. किं सुवर्णं कथं जातं कस्मिन काले किम आत्मकम किं दानं किं फलं चैव कस्माच च परम उच्यते ॥ 7 ॥

  8. कस्माद दानं सुवर्णस्य पूजयन्ति मनीषिणः कस्माच च दक्षिणार्थं तद यज्ञकर्मसु शस्यते ॥ 8 ॥

  9. कस्माच च पावनं शरेष्ठं भूमेर गॊभ्यश च काञ्चनम परमं दक्षिणार्थे च तद बरवीहि पितामह ॥ 9 ॥

  10. [भ] शृणु राजन्न अवहितॊ बहु कारणविस्तरम जातरूपसमुत्पत्तिम अनुभूतं च यन मया ॥ 10 ॥

  11. पिता मम महातेजाः शंतनुर निधनं गतः तस्य दित्सुर अहं शराद्धं गङ्गा दवारम उपागमम ॥ 11 ॥

  12. तत्रागम्य पितुः पुत्र शराध कर्म समारभम माता मे जाह्नवी चैव साहाय्यम अकरॊत तदा ॥ 12 ॥

  13. ततॊ ऽगरतस तपःसिद्धान उपवेश्य बहून ऋषीन तॊयप्रदानात परभृति कार्याण्य अहम अथारभम ॥ 13 ॥

  14. तत समाप्य यथॊद्दिष्टं पूर्वकर्म समाहितः दातुं निर्वपणं सम्यग यथावद अहम आरभम ॥ 14 ॥

  15. ततस तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः परलम्बाभरणॊ बाहुर उदतिष्ठद विशां पते ॥ 15 ॥

  16. तम उत्थितम अहं दृष्ट्वा परं विस्मयम आगमम परतिग्रहीता साक्षान मे पितेति भरतर्षभ ॥ 16 ॥

  17. ततॊ मे पुनर एवासीत संज्ञा संचिन्त्य शास्त्रतः नायं वेदेषु विहितॊ विधिर हस्त इति परभॊ पिण्डॊ देयॊ नरेणेह ततॊ मतिर अभून मम ॥ 17 ॥

  18. साक्षान नेह मनुष्यस्य पितरॊ ऽनतर्हिताः कव चित गृह्णन्ति विहितं तव एवं पिण्डॊ देयः कुशेष्व अपि ॥ 18 ॥

  19. ततॊ ऽहं तद अनादृत्य पितुर हस्तनिदर्शनम शास्त्रप्रमाणात सूक्ष्मं तु विधिं पार्थिव संस्मरन ॥ 19 ॥

  20. ततॊ दर्भेषु तत सर्वम अददं भरतर्षभ शास्त्रमार्गानुसारेण तद विद्धि मनुजर्षभ ॥ 20 ॥

  21. ततः सॊ ऽनतर्हितॊ बाहुः पुतुर मम नराधिप ततॊ मां दर्शयाम आसुः सवप्नान्ते पितरस तदा ॥ 21 ॥

  22. परीयमाणास तु माम ऊचुः परीताः सम भरतर्षभ विज्ञानेन तवानेन यन न मुह्यसि धर्मतः ॥ 22 ॥

  23. तवया हि कुर्वता शास्त्रं परमाणम इह पार्थिव आत्मा धर्मः शरुतं वेदाः पितरश च महर्षिभिः ॥ 23 ॥

  24. साक्षात पितामहॊ बरह्मा गुरवॊ ऽथ परजापतिः परमाणम उपनीता वै सथितिश च न विचालिता ॥ 24 ॥

  25. तद इदं सम्यग आरब्धं तवयाद्य भरतर्षभ किं तु भूमेर गवां चार्थे सुवर्णं दीयताम इति ॥ 25 ॥

  26. एवं वयं च धर्मश च सर्वे चास्मत पितामहाः पाविता वै भविष्यन्ति पावनं परमं हि तत ॥ 26 ॥

  27. दश पूर्वान दश परांस तथा संतारयन्ति ते सुवर्णं ये परयच्छन्ति एवं मे पितरॊ ऽबरुवन ॥ 27 ॥

  28. ततॊ ऽहं विस्मितॊ राजन परतिबुद्धॊ विशां पते सुवर्णदाने ऽकरवं मतिं भरतसत्तम ॥ 28 ॥

  29. इतिहासम इमं चापि शृणु राजन पुरातनम जामदग्न्यं परति विभॊ धान्यम आयुष्यम एव च ॥ 29 ॥

  30. जामदग्न्येन रामेण तीव्ररॊषान्वितेन वै तरिः सप्तकृत्वः पृथिवी कृता निः कषत्रिया पुरा ॥ 30 ॥

  31. ततॊ जित्वा महीं कृत्स्नां रामॊ राजीवलॊचनः आजहार करतुं वीरॊ बरह्मक्षत्रेण पूजितम ॥ 31 ॥

  32. वाजिमेधं महाराज सर्वकामसमन्वितम पावनं सर्वभूतानां तेजॊ दयुतिविवर्धनम ॥ 32 ॥

  33. विपाप्मापि स तेजस्वी तेन करतुफलेन वै नैवात्मनॊ ऽथ लघुतां जामदग्न्यॊ ऽभयगच्छत ॥ 33 ॥

  34. स तु करतुवरेणेष्ट्वा महात्मा दक्षिणावता पप्रच्छागम संपन्नान ऋषीन देवांश च भार्गवः ॥ 34 ॥

  35. पावनं यत परं नॄणाम उग्रे कर्मणि वर्तताम तद उच्यतां महाभागा इति जातघृणॊ ऽबरवीत इत्य उक्ता वेद शास्त्रज्ञास ते तम ऊचुर महर्षयः ॥ 35 ॥

  36. [वसिस्ठ] देवतास ते परयच्छन्ति सुवर्णं ये ददत्य उत अग्निर हि देवताः सर्वाः सुवर्णं च तद आत्मकम ॥ 36 ॥

  37. तस्मात सुवर्णं ददता दत्ताः सर्वाश च देवताः भवन्ति पुरुषव्याघ्र न हय अतः परमं विदुः ॥ 37 ॥

  38. भूय एव च माहात्म्यं सुवर्णस्य निबॊध मे गदतॊ मम विप्रर्षे सर्वशस्त्रभृतां वर ॥ 38 ॥

  39. मया शरुतम इदं पूर्वं पुराणे भृगुनन्दन परजापतेः कथयतॊ मनॊः सवायम्भुवस्य वै ॥ 39 ॥

  40. शूलपाणेर भगवतॊ रुद्रस्य च महात्मनः गिरौ हिमवति शरेष्ठे तदा भृगुकुलॊद्वह ॥ 40 ॥

  41. देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन समागमे भगवतॊ देव्या सह महात्मनः ततः सर्वे समुद्विग्ना भगवन्तम उपागमन ॥ 41 ॥

  42. ते महादेवम आसीनं देवीं च वरदाम उमाम परसाद्य शिरसा सर्वे रुद्रम ऊचुर भृगूद्वह ॥ 42 ॥

  43. अयं समागमॊ देवदेव्याः सह तवानघ तपस्विनस तपस्विन्या तेजस्विन्याति तेजसः अमॊघतेजास तवं देवदेवी चेयम उमा तथा ॥ 43 ॥

  44. अपत्यं युवयॊर देव बलवद भविता परभॊ तन नूनं तरिषु लॊकेषु न किं चिच छेषयिष्यति ॥ 44 ॥

  45. तद एभ्यः परणतेभ्यस तवं देवेभ्यः पृथुलॊचन वरं परयच्छ लॊकेश तरैलॊक्यहितकाम्यया अपत्यार्थं निगृह्णीष्व तेजॊ जवलितम उत्तमम ॥ 45 ॥

  46. इति तेषां कथयतां भगवान गॊवृषध्वजः एवम अस्त्व इति देवांस तान विप्रर्षे परत्यभाषत ॥ 46 ॥

  47. इत्य उक्त्वा चॊर्ध्वम अनयत तद रेतॊ वृषवाहनः ऊर्ध्वरेताः समभवत ततः परभृति चापि सः ॥ 47 ॥

  48. रुद्राणी तु ततः करुद्धा परजॊच्छेदे तथा कृते देवान अथाब्रवीत तत्र सत्रीभावात परुषं वचः ॥ 48 ॥

  49. यस्माद अपत्यकामॊ वै भर्ता मे विनिवर्तितः तस्मात सर्वे सुरा यूयम अनपत्या भविष्यथ ॥ 49 ॥

  50. परजॊच्छेदॊ मम कृतॊ यस्माद युष्माभिर अद्य वै तस्मात परजा वः खगमाः सर्वेषां न भविष्यति ॥ 50 ॥

  51. पावकस तु न तत्रासीच छापकाले भृगूद्वह देवा देव्यास तथा शापाद अनपत्यास तदाभवन ॥ 51 ॥

  52. रुद्रस तु तेजॊ ऽपरतिमं धारयाम आस तत तदा परस्कन्नं तु ततस तस्मात किं चित तत्रापतद भुवि ॥ 52 ॥

  53. तत पपात तदा चाग्नौ ववृधे चाद्भुतॊपमम तेजस तेजसि संपृक्तम एकयॊनित्वम आगतम ॥ 53 ॥

  54. एतस्मिन्न एव काले तु देवाः शक्रपुरॊगमाः असुरस तारकॊ नाम तेन संतापिता भृशम ॥ 54 ॥

  55. आदित्या वसवॊ रुद्रा मरुतॊ ऽथाश्विनाव अपि साध्याश च सर्वे संत्रस्ता दैतेयस्य पराक्रमात ॥ 55 ॥

  56. सथानानि देवतानां हि विमाननि पुराणि च ऋषीणाम आश्रमाश चैव बभूवुर असुरैर हृताः ॥ 56 ॥

  57. ते दीनमनसः सर्वे देवाश च ऋषयश च ह परजग्मुः शरणं देवं बरह्माणम अजरं परभुम ॥ 57 ॥

Reach this point to mark the section finished.

Continue to अध्याय 84

Previous: अध्याय 82