धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 82

  1. [भ] ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश च ये तेषां सत्राणि यज्ञाश च नित्यम एव युधिष्ठिर ॥ 1 ॥

  2. ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते तेन यज्ञस्य यज्ञत्वम अतॊ मूलं च लक्ष्यते ॥ 2 ॥

  3. दानानाम अपि सर्वेषां गवां दानं परशस्यते गावः शरेष्ठाः पवित्राश च पावनं हय एतद उत्तमम ॥ 3 ॥

  4. पुष्ट्य अर्थम एताः सेवेत शान्त्य अर्थम अपि चैव ह पयॊ दधिघृतं यासां सर्वपापप्रमॊचनम ॥ 4 ॥

  5. गावस तेजः परं परॊक्तम इह लॊके परत्र च न गॊभ्यः परमं किं चित पवित्रं पुरुषर्षभ ॥ 5 ॥

  6. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम पितामहस्य संवादम इन्द्रस्य च युधिष्ठिर ॥ 6 ॥

  7. परा भूतेषु दैत्येषु शक्रे तरिभुवनेश्वरे परजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ॥ 7 ॥

  8. अथर्षयः स गन्धर्वाः किंनरॊरगराक्षसाः देवासुरसुपर्णाश च परजानां पतयस तथा पर्युपासन्त कौरव्य कदा चिद वै पितामहम ॥ 8 ॥

  9. नारदः पर्वतश चैव विश्वावसुहहाहुहू दिव्यतानेषु गायन्तः पर्युपासन्त तं परभुम ॥ 9 ॥

  10. तत्र दिव्यानि पुष्पाणि परावहत पवनस तथा आजह्रुर ऋतवश चापि सुगन्धीनि पृथक पृथक ॥ 10 ॥

  11. तस्मिन देवसमावाये सर्वभूतसमागमे दिव्यवादित्र संघुष्टे दिव्यस्त्री चारणावृते इन्द्रः पप्रच्छ देवेशम अभिवाद्य परणम्य च ॥ 11 ॥

  12. देवानां भगवन कस्माल लॊकेशानां पितामह उपरिष्टाद गवां लॊक एतद इच्छामि वेदितुम ॥ 12 ॥

  13. किं तपॊ बरह्मचर्यं वा गॊभिः कृतम इहेश्वर देवानाम उपरिष्टाद यद वसन्त्य अरजसः सुखम ॥ 13 ॥

  14. तत्र परॊवाच तं बरह्मा शक्रं बलनिसूदनम अवज्ञातास तवया नित्यं गावॊ बलनिसूदन ॥ 14 ॥

  15. तेन तवम आसां माहात्म्यं न वेत्थ शृणु तत परभॊ गवां परभावं परमं माहात्म्यं च सुरर्षभ ॥ 15 ॥

  16. यज्ञाङ्गं कथिता गावॊ यज्ञ एव च वासव एताभिश चाप्य ऋते यज्ञॊ न परवर्तेत कथं चन ॥ 16 ॥

  17. धारयन्ति परजाश चैव पयसा हविषा तथा एतासां तनयाश चापि कृषियॊगम उपासते ॥ 17 ॥

  18. जनयन्ति च धान्यानि बीजानि विविधानि च ततॊ यज्ञाः परवर्तन्ते हव्यं कव्यं च सर्वशः ॥ 18 ॥

  19. पयॊ दधिघृतं चैव पुण्याश चैताः सुराधिप वहन्ति विविधान भारान कषुत कृष्णा परिपीडिताः ॥ 19 ॥

  20. मुनींश च धारयन्तीह परजाश चैवापि कर्मणा वासवाकूट वाहिन्यः कर्मणा सुकृतेन च उपरिष्टात ततॊ ऽसमाकं वसन्त्य एताः सदैव हि ॥ 20 ॥

  21. एतत ते कारणं शक्र निवासकृतम अद्य वै गवां देवॊपरिष्टाद धि समाख्यातं शतक्रतॊ ॥ 21 ॥

  22. एता हि वरदत्ताश च वरदाश चैव वासव सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः ॥ 22 ॥

  23. यदर्थं गा गताश चैव सौरभ्यः सुरसत्तम तच च मे शृणु कार्त्स्न्येन वदतॊ बलसूदन ॥ 23 ॥

  24. पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु तरीँल लॊकान अनुशासत्सु विष्णौ गर्भत्वम आगते ॥ 24 ॥

  25. अदित्यास तप्यमानायास तपॊ घॊरं सुशुश्चरम पुत्रार्थम अमर शरेष्ठ पादेनैकेन नित्यदा ॥ 25 ॥

  26. तां तु दृष्ट्वा महादेवीं तप्यमानां महत तपः दक्षस्य दुहिता देवी सुरभिर नाम नामतः ॥ 26 ॥

  27. अतप्यत तपॊ घॊरं हृष्टा धर्मपरायणा कैलासशिखरे रम्ये देवगन्धर्वसेविते ॥ 27 ॥

  28. वयतिष्ठद एकपादेन परमं यॊगम आस्थिता दशवर्षसहस्राणि दशवर्षशतानि च ॥ 28 ॥

  29. संतप्तास तपसा तस्या देवाः सर्षिमहॊरगाः तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम ॥ 29 ॥

  30. अथाहम अब्रुवं तत्र देवीं तां तपसान्विताम किमर्थं तप्यते देवि तपॊ घॊरम अनिन्दिते ॥ 30 ॥

  31. परीतस ते ऽहं महाभागे तपसानेन शॊभने वरयस्व वरं देवि दातास्मीति पुरंदर ॥ 31 ॥

  32. [सुरभी] वरेण भगवन मह्यं कृतं लॊकपितामह एष एव वरॊ मे ऽदय यत परीतॊ ऽसि ममानघ ॥ 32 ॥

  33. [बर] ताम एवं बरुवतीं देवीं सुरभीं तरिदशेश्वर परत्यव्रुवं यद देवैन्द्र तन निबॊध शचीपते ॥ 33 ॥

  34. अलॊभ काम्यया देवि तपसा च शुभेन ते परसन्नॊ ऽहं वरं तस्माद अमरत्वं ददानि ते ॥ 34 ॥

  35. तरयाणाम अपि लॊकानाम उपरिष्टान निवत्स्यसि मत्प्रसादाच च विख्यातॊ गॊलॊकः स भविष्यति ॥ 35 ॥

  36. मानुषेषु च कुर्वाणाः परजाः कर्मसुतास तव निवत्स्यन्ति महाभागे सर्वा दुहितरश च ते ॥ 36 ॥

  37. मनसा चिन्तिता भॊगास तवया वै दिव्यमानुषाः यच च सवर्गसुखं देवि तत ते संपत्स्यते शुभे ॥ 37 ॥

  38. तस्या लॊकाः सहस्राक्ष सर्वकामसमन्विताः न तत्र करमते मृत्युर न जरा न च पावकः न दैन्यं नाशुभं किं चिद विद्यते तत्र वासव ॥ 38 ॥

  39. तत्र दिव्यान्य अरण्यानि दिव्यानि भवनानि च विमानानि च युक्तानि कामगानि च वासव ॥ 39 ॥

  40. वरतैश च विविधैः पुण्यैस तथा तीर्थानुसेवनात तपसा महता चैव सुकृतेन च कर्मणा शक्यः समासादयितुं गॊलॊकः पुष्करेक्षण ॥ 40 ॥

  41. एतत ते सर्वम आख्यातं मया शक्रानुपृच्छते न ते परिभवः कार्यॊ गवाम अरिनिसूदन ॥ 41 ॥

  42. [भ] एतच छरुत्वा सहस्राक्षः पूजयाम आस नित्यदा गाश चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ॥ 42 ॥

  43. एतत ते सर्वम आख्यातं पावनं च महाद्युते पवित्रं परमं चापि गवां माहात्म्यम उत्तमम कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम ॥ 43 ॥

  44. य इदं कथयेन नित्यं बराह्मणेभ्यः समाहितः हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह सार्वकामिकम अक्षय्यं पितॄंस तस्यॊपतिष्ठति ॥ 44 ॥

  45. गॊषु भक्तश च लभते यद यद इच्छति मानवः सत्रियॊ ऽपि भक्ता या गॊषु ताश च कामान अवाप्नुयुः ॥ 45 ॥

  46. पुत्रार्थी लभते पुत्रं कन्या पतिम अवाप्नुयात धनार्थी लभते वित्तं धर्मार्थी धर्मम आप्नुयात ॥ 46 ॥

  47. विद्यार्थी पराप्नुयाद विद्यां सुखार्थी पराप्नुयात सुखम न किं चिद दुर्लभं चैव गवां भक्तस्य भारत ॥ 47 ॥

Reach this point to mark the section finished.

Continue to अध्याय 83

Previous: अध्याय 81