[य] पवित्राणां पवित्रं यच छरेष्ठं लॊके च यद भवेत पावनं परमं चैव तन मे बरूहि पितामह ॥ 1 ॥
[भ] गावॊ महार्थाः पुण्याश च तारयन्ति च मानवान धारयन्ति परजाश चेमाः पयसा हविषा तथा ॥ 2 ॥
न हि पुण्यतमं किं चिद गॊभ्यॊ भरतसत्तम एताः पवित्राः पुण्याश च तरिषु लॊकेष्व अनुत्तमाः ॥ 3 ॥
देवानाम उपरिष्टाच च गावः परतिवसन्ति वै दत्त्वा चैता नरपते यान्ति सवर्गं मनीषिणः ॥ 4 ॥
मान्धाता यौवनाश्वश च ययातिर नहुषस तथा गावॊ ददन्तः सततं सहस्रशतसंमिताः गताः परमकं सथानं देवैर अपि सुदुर्लभम ॥ 5 ॥
अपि चात्र पुरावृत्तं कथयिष्यामि ते ऽनघ ॥ 6 ॥
ऋषीणाम उत्तमं धीमान कृष्णद्वैपायनं शुकः अभिवाद्याह्निकं कृत्वा शुचिः परयत मानसः पितरं परिपप्रच्छ दृष्टलॊकपरावरम ॥ 7 ॥
कॊ यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते किं च कृत्वा परं सवर्गं पराप्नुवन्ति मनीषिणः ॥ 8 ॥
केन देवाः पवित्रेण सवर्गम अश्नन्ति वा विभॊ किं च यज्ञ्टस्य यज्ञत्वं कव च यज्ञः परतिष्ठितः ॥ 9 ॥
दानानाम उत्तमं किं च किं च सत्रम अतः परम पवित्राणां पवित्रंच यत तद बरूहि ममानघ ॥ 10 ॥
एतच छरुत्वा तु वचनं वयासः परमधर्मवित पुत्रायाकथयत सर्वं तत्त्वेन भरतर्षभ ॥ 11 ॥
[व] गावः परतिष्ठा भूतानां तथा गावः परायणम गावः पुण्याः पवित्राश च पावनं धर्म एव च ॥ 12 ॥
पूर्वम आसन्न शृङ्गा वै गाव इत्य अनुशुश्रुमः शृङ्गार्थे समुपासन्त ताः किल परभुम अव्ययम ॥ 13 ॥
ततॊ बरह्मा तु गाः परायम उपविष्टाः समीक्ष्य ह ईप्सितं परददौ ताभ्यॊ गॊभ्य परत्येकशः परभुः ॥ 14 ॥
तासं शृङ्गाण्य अजायन्त यस्या यादृङ मनॊगतम नानावर्णाः शृङ्गवन्त्यस ता वयरॊचन्त पुत्रक ॥ 15 ॥
बरह्मणा वरदत्तास ता हव्यकव्य परदाः शुभाः पुण्याः पवित्राः सुभगा दिव्यसंस्थान लक्षणाः गावस तेजॊ महद दिव्यं गवां दानं परशस्यते ॥ 16 ॥
ये चैताः संप्रयच्छन्ति साधवॊ वीतमत्सराः ते वै सुकृतिनः परॊक्ताः सर्वदानप्रदाश च ते गवां लॊकं यथा पुण्यम आप्नुवन्ति च ते ऽनघ ॥ 17 ॥
यत्र वृक्षा मधु फला दिव्यपुष्पफलॊपगाः पुष्पाणि च सुगन्धीनि दिव्यानि दविजसत्तम ॥ 18 ॥
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा ॥ 19 ॥
रक्तॊत्पलवनैश चैव मणिदण्डैर हिरण्मयैः तरुणादित्यसंकाशैर भान्ति तत्र जलाशयाः ॥ 20 ॥
महार्हामणि पत्रैश च काञ्चनप्रभ केसरैः नीलॊत्पलविमिश्रैश च सरॊभिर बहु पङ्कजैः ॥ 21 ॥
करवीर वनैः फुल्लैः सहस्रावर्त संवृतैः संतानकवनैः फुल्लैर वृक्षैश च समलंकृताः ॥ 22 ॥
निर्मलाभिश च मुक्ताभिर मणिभिश च महाधनैः उद्धूत पुलिनास तत्र जातरूपैश च निम्नगाः ॥ 23 ॥
सर्वरत्नमयैर्श चित्रैर अवगाढा नगॊत्तमैः जातरूपमयैश चान्यैर हुताशनसमप्रभैः ॥ 24 ॥
सौवर्णगिरयस तत्र मणिरत्नशिलॊच्चयाः सर्वरत्नमयैर भान्ति शृङ्गैश चारुभिर उच्छ्रितैः ॥ 25 ॥
नित्यपुष्पफलास तत्र नगाः पत्ररथाकुलाः दिव्यगन्धरसैः पुष्पैः फलैश च भरतर्षभ ॥ 26 ॥
रमन्ते पुण्यकर्माणस तत्र नित्यं युधिष्ठिर सर्वकामसमृद्धार्था निःशॊका गतमन्यवः ॥ 27 ॥
विमानेषु विचित्रेषु रमणीयेषु भारत मॊदन्ते पुण्यकर्माणॊ विहरन्तॊ यशस्विनः ॥ 28 ॥
उपक्रीडन्ति तान राजञ शुभाश चाप्सरसां गणाः एलाँल लॊकान अवाप्नॊति गां दत्त्वा वै युधिष्ठिर ॥ 29 ॥
यासाम अधिपतिः पूषा मारुतॊ बलवान बली ऐश्वर्ये वरुणॊ राजा ता मां पान्तु युगंधराः ॥ 30 ॥
सुरूपा बहुरूपाश च विश्वरूपाश च मातरः पराजापत्या इति बरह्मञ जपेन नित्यं यतव्रतः ॥ 31 ॥
गास तु शुश्रूषते यश च समन्वेति च सर्वशः तस्मै तुष्टाः परयच्छन्ति वरान अपि सुदुर्लभान ॥ 32 ॥
न दरुह्येन मनसा चापि गॊषु ता हि सुखप्रदाः अर्चयेत सदा चैव नमः कारैश च पूजयेत दान्तः परीतमना नित्यं गवां वयुष्टिं तथाश्नुते ॥ 33 ॥
येन देवाः पवित्रेण भुञ्जते लॊकम उत्तमम यत पवित्रं पवित्राणां तद घृतं शिरसा वहेत ॥ 34 ॥
घृतेन जुहुयाद अग्निं घृतेन सवस्ति वाचयेत घृतं पराशेद घृतं दद्याद गवां वयुष्टिं तथाश्नुते ॥ 35 ॥
तर्यहम उष्णं पिबेन मूत्रं तर्यहम उष्णं पिबेत पयः गवाम उष्णं पयः पीत्वा तयहम उष्णं घृतं पिबेत तर्यहम उष्णं घृतं पीत्वा वायुभक्षॊ भवेत तर्यहम ॥ 36 ॥
निर्हृतैश च यवैर गॊभिर मासं परसृत यावकः बरह्महत्या समं पापं सर्वम एतेन शुध्यति ॥ 37 ॥
पराभवार्थं दैत्यानां देवैः शौचम इदं कृतम देवत्वम अपि च पराप्ताः संसिद्धाश च महाबलाः ॥ 38 ॥
गावः पवित्राः पुण्याश च पावनं परमं महत ताश च दत्त्वा दविजातिभ्यॊ नरः सवर्गम उपाश्नुते ॥ 39 ॥
गवां मध्ये शुचिर भूत्वा गॊमतीं मनसा जपेत पूताभिर अद्भिर आचम्य शुचिर भवति निर्मलः ॥ 40 ॥
अग्निमध्ये गवां मध्ये बराह्मणानां च संसदि विद्या वेद वरतस्नाता बराह्मणाः पुण्यकर्मिणः ॥ 41 ॥
अध्यापयेरञ शिष्यान वै गॊमतीं यज्ञसंमिताम तरिरात्रॊपॊषितः शरुत्वा गॊमतीं लभते वरम ॥ 42 ॥
पुत्र कामश च लभते पुत्रं धनम अथापि च पतिकामा च भर्तारं सर्वकामांश च मानवः गावस तुष्टाः परयच्छन्ति सेविता वै न संशयः ॥ 43 ॥
एवम एता महाभागा यज्ञियाः सर्वकामदाः रॊहिण्य इति जानीहि नैताभ्यॊ विद्यते परम ॥ 44 ॥
इत्य उक्तः स महातेजाः शुकः पित्रा महात्मना पूजयाम आस गा नित्यं तस्यात तवम अपि पूजय ॥ 45 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 80
Reach this point to mark the section finished.
Continue to अध्याय 81