[व] घृतक्षीरप्रदा गावॊ घृतयॊन्यॊ घृतॊद्भवाः घृतनद्यॊ घृतावर्तास ता मे सन्तु सदा गृहे ॥ 1 ॥
घृतं मे हृदये नित्यं घृतं नाभ्यां परतिष्ठितम घृतं सर्वृषु गात्रेषु घृतं मे मनसि सथितम ॥ 2 ॥
गावॊ ममाग्रतॊ नित्यं गावः पृष्ठत एव च गावॊ मे सर्वतश चैव गवां मध्ये वसाम्य अहम ॥ 3 ॥
इत्य आचम्य जपेत सायंप्रातश च पुरुषः सदा यद अह्ना कुरुते पापं तस्मात स परिमुच्यते ॥ 4 ॥
परासादा यत्र सौवर्णा वसॊर धारा च यत्र सा गन्धर्वाप्सरसॊ यत्र तत्र यान्ति सहस्रदाः ॥ 5 ॥
नव नीत पङ्काः कषीरॊदा दधि शैवलसंकुलाः वहन्ति यत्र नद्यॊ वै यत्र यान्ति सहस्रदाः ॥ 6 ॥
गवां शतसहस्रं तु यः परयच्छेद यथाविधि पराम ऋद्धिम अवाप्याथ स गॊलॊके महीयते ॥ 7 ॥
दश चॊभयतः परेत्य मातापित्रॊः पितामहान दधाति सुकृताँल लॊकान पुनाति च कुलं नरः ॥ 8 ॥
धेन्वाः परमाणेन समप्रमाणां; धेनुं तिलानाम अपि च परदाय पानीय दाता च यमस्य लॊके; न यातनां कां चिद उपैति तत्र ॥ 9 ॥
पवित्रम अग्र्यं जगतः परतिष्ठा; दिवौकसां मातरॊ ऽथाप्रमेयाः अन्वालभेद दक्षिणतॊ वरजेच च; दद्याच च पात्रे परसमीक्ष्य कालम ॥ 10 ॥
धेनुं स वत्सां कपिलां भूरि शृङ्गां; कांस्यॊपदॊहां वसनॊत्तरीयाम परदाय तां गाहति दुर विगाह्यां; याम्यां सभां वीतभयॊ मनुष्यः ॥ 11 ॥
सुरूपा बहुरूपाश च विश्वरूपाश च मातरः गावॊ माम उपतिष्ठन्ताम इति नित्यं परकीर्तयेत ॥ 12 ॥
नातः पुण्यतरं दानं नातः पुण्यतरं फलम नातॊ विशिष्टं लॊकेषु भूतं भवितुम अर्हति ॥ 13 ॥
तवचा लॊम्नाथ शृङ्गैश च वालैः कषीरेण मेदसा यज्ञं वहन्ति संभूय किम अस्त्य अभ्यधिकं ततः ॥ 14 ॥
यया सर्वम इदं वयाप्तं जगत सथावरजङ्गमम तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम ॥ 15 ॥
गुणवचन समुच्चयैक देशॊ; नृपव मयैष गवां परकीर्तितस ते न हि परम इह दानम अस्ति गॊभ्यॊ; भवन्ति न चापि परायणं तथान्यत ॥ 16 ॥
[भ] परम इदम इति भूमिपॊ विचिन्त्य; परवरम ऋषेर वचनं ततॊ महात्मा वयसृजत नियतात्मवान दविजेभ्यॊ; सुबहु च गॊधनम आप्तवांश च लॊकान ॥ 17 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 79
Reach this point to mark the section finished.
Continue to अध्याय 80