धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 78

  1. [वसिस्ठ] शतं वर्षसहस्राणां तपस तप्तं सुदुश्चरम गॊभिः पूर्वविसृष्टाभिर गच्छेम शरेष्ठताम इति ॥ 1 ॥

  2. लॊके ऽसमिन दक्षिणानां च सर्वासां वयम उत्तमाः भवेम न च लिप्येम दॊषेणेति परंतप ॥ 2 ॥

  3. स एव चेतसा तेन हतॊ लिप्येत सर्वदा शकृता च पवित्रार्थं कुर्वीरन देव मानुषाः ॥ 3 ॥

  4. तथा सर्वाणि भूतानि सथावराणि चराणि च परदातारश च गॊलॊकान गच्छेयुर इति मानद ॥ 4 ॥

  5. ताभ्यॊ वरं ददौ बरह्मा तपसॊ ऽनते सवयंप्रभुः एवं भवत्व इति विभुर लॊकांस तारयतेति च ॥ 5 ॥

  6. उत्तस्थुः सिद्धिकामास ता भूतभव्यस्य मातरः तपसॊ ऽनते महाराज गावॊ लॊकपरायणाः ॥ 6 ॥

  7. तस्माद गावॊ महाभागाः पवित्रं परम उच्यते तथैव सर्वभूतानां गावस तिष्ठन्ति मूर्धनि ॥ 7 ॥

  8. समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम सुव्रतां वस्त्रसंवीतां बरह्मलॊके महीयते ॥ 8 ॥

  9. रॊहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम सुव्रतां वस्त्रसंवीतां सूर्यलॊके महीयते ॥ 9 ॥

  10. समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम सुव्रतां वस्त्रसंवीतां सॊमलॊके महीयते ॥ 10 ॥

  11. समानवस्तां शवेतां तु धेनुं दत्त्वा पयस्विनीम सुव्रतां वस्त्रसंवीताम इन्द्रलॊके महीयते ॥ 11 ॥

  12. समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम सुव्रतां वस्त्रसंवीताम अग्निलॊके महीयते ॥ 12 ॥

  13. समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम सुव्रतां वस्त्रसंवीतां याम्य लॊके महीयते ॥ 13 ॥

  14. अपां फेनसवर्णां तु स वत्सां कांस्यदॊहनाम परदाय वस्त्रसंवीतां वारुणं लॊकम अश्नुते ॥ 14 ॥

  15. वातरेणु सवर्णां तु स वत्सां कांस्यदॊहनाम परदाय वस्त्रसंवीतां वायुलॊके महीयते ॥ 15 ॥

  16. हिरण्यवर्णां पिङ्गाक्षीं स वत्सां कांस्यदॊहनाम परदाय वस्त्रसंवीतां कौबेरं लॊकम अश्नुते ॥ 16 ॥

  17. पलाल धूम्रवर्णां तु स वत्सां कांस्यदॊहनाम परदाय वस्त्रसंवीतां पितृलॊके महीयते ॥ 17 ॥

  18. स वत्सां पीवरीं दत्त्वा शितिकण्ठाम अलंकृताम वैश्वदेवम असंबाधं सथानं शरेष्ठं परपद्यते ॥ 18 ॥

  19. समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम सुव्रतां वस्त्रसंवीतां वसूनां लॊकम अश्नुते ॥ 19 ॥

  20. पाण्डुकम्बल वर्णां तु स वत्सां कांस्यदॊहनाम परदाय वस्त्रसंवीतां साधानां लॊकम अश्नुते ॥ 20 ॥

  21. वैराट पृष्ठम उक्षाणं सर्वरत्नैर अलं कृतम परदाय मरुतां लॊकान अजरान परतिपद्यते ॥ 21 ॥

  22. वत्सॊपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम गन्धर्वाप्सरसां लॊकान दत्त्वा पराप्नॊति मानवः ॥ 22 ॥

  23. शितिकण्ठम अनड्वाहं सर्वरत्नैर अलंकृतम दत्त्वा परजापतेर लॊकान विशॊकः परतिपद्यते ॥ 23 ॥

  24. गॊप्रदान रतॊ याति भित्त्वा जलदसंचयान विमानेनार्क वर्णेन दिवि राजन विराजता ॥ 24 ॥

  25. तं चारुवेषाः सुश्रॊण्यः सहस्रं वरयॊषितः रमयन्ति नरश्रेष्ठ गॊप्रदान रतं नरम ॥ 25 ॥

  26. वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः हासैश च हरिणाक्षीणां परसुप्तः परतिबॊध्यते ॥ 26 ॥

  27. यावन्ति लॊमानि भवन्ति धेन्वास; तावन्ति वर्षाणि महीयते सः सवर्गाच चयुतश चापि ततॊ नृलॊके; कुले समुत्पत्स्यति गॊमिनां सः ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 79

Previous: अध्याय 77